भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 125, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 125

१२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-

क्तमहासूक्तनामानोऽभवन् “जातवेदसे” [ ऋ० सं० म० १ सू० ९९ ऋ० १ ] इति सूक्तमेकऋक्त्वात्क्षुद्रसूक्तरूपम् । “अस्य वामस्य” [ ऋ० सं० म० १ सू० १६४ ऋ० १ ] इत्येतत्सूक्तं द्विपञ्चाशदृक्त्वान्महासूक्तम् । एवमुदाहरणान्तराणि द्रष्टव्यानि । तत्तत्सूक्तद्रष्टारो महर्षयश्च क्षुद्रसूक्तमहासूक्तनामभ्यामुच्यन्ते । तस्मात्क्षुद्रसूक्ता इति वाक्यं महासूक्तानामप्युपलक्षणम् ।

षष्ठं विधत्ते—

सूक्तं बतावोचतेति तत्सूक्तमभवत्तस्मात्सूक्तं
तस्मात्सूक्तमित्याचक्षत एतमेव सन्तम्, इति ।

कदाचिदयं प्राणदेवः स्वमहिमप्रतिपादकस्य मन्त्रजातस्य वक्तारं कंचिन्महर्षिं दृष्ट्वा तमुवाचायं महर्षिः सूक्तं शोभनं वचनमवोचताऽऽश्चर्यमेतदिति । बतशब्द आश्चर्यवाची । यस्मादयं देवो मन्त्रजातं सूक्तशब्देन व्याजहार तस्मान्मन्त्रजातं सूक्तनामकमभवत् । तद्द्रष्टाऽपि सूक्तनामकोऽभूत् ।

सप्तमं विधत्ते—

एष वा ऋगेष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत
स यदेभ्यः सर्वेभ्यो भूतेभ्योऽर्चत तस्मादृ-
क्तस्मादृगित्याचक्षत एतमेव सन्तम्, इति ।

योऽयं प्राणदेवोऽस्त्येष एवर्क्शब्देनाभिधीयते । यस्मादेष प्राणः सर्वभूतार्थं तं तं देहमर्चत स्वप्रवेशेन पूजितमकरोत्तस्मात्प्राणप्रतिपादको मन्त्रस्तद्द्रष्टा चकर्क्शब्देनाभिधीयते ।

अष्टमं विधत्ते—

एष वा अर्धर्च एष ह्येभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत
स यदेभ्यः सर्वेभ्योऽर्धेभ्योऽर्चत तस्मादर्धर्च-
स्तस्मादर्धर्च इत्याचक्षत एतमेव सन्तम्, इति ।

ऋचो भागोऽर्धर्चः सोऽप्येष प्राण एव । अर्धर्चशब्दः स्थानवाची । देवमनुष्यादीनां लोकविशेषरूपाणि यानि स्थानानि सर्वाणि तदर्थमयं प्राणोऽर्चत तत्स्थानवासिप्राणिजातं पूजितमकरोत्तस्मात्तादृशप्राणमहिमवाची मन्त्रभागस्तद्द्रष्टा चार्धर्चशब्देनोच्यते ।

नवमं विधत्ते—

एष वै पदमेष हीमानि सर्वाणि भूतानि पादि


१ क. ख. ‘चायमृषिः सू’।