ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 127, कुल 304 में से
संदर्भ में पढ़ें१२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
न्तर्भावात् । तस्मात्प्राण ऋच ऋगुपलक्षितं सर्वं शब्दजातं महर्षिजातं च प्राणस्वरूप- मित्येवोपासितव्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये द्वितीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (१०)
अथ तृतीयः खण्डः । ( एकादशः )
प्राणस्य कृत्स्नशब्दार्थरूपध्यानमभिधाय शस्त्रगतासु तृचाशीतिष्विन्द्रसंबन्ध्यन्नत्व- दृष्टिं विदधान उपाख्यानमाह—
विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनि- षससाद स हान्नमित्यभिव्याहृत्य बृहतीस- हस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।
कदाचिन्महाव्रताख्ये कर्मणि विश्वामित्रो महर्षिर्होता सन्नेतनमहाव्रताख्यमहः शंसिष्यति शंसितुमुपक्रमं करोति तदानीमिन्द्रोऽन्नार्थी सन्संतं विश्वामित्रमुपनिषससादोपेत्य समीपे स्थितवान् । अधिकः सकारश्छान्दसः । स च विश्वामित्र इन्द्रस्याभिप्रायं ज्ञात्वा तवान्नभूतमेव तन्मन्त्रजातमितीन्द्रस्याग्रे कथयित्वा बृहतीच्छन्दस्कं मन्त्रसहस्रं शंसित्वा तेन शंसनेनेन्द्रस्य यत्प्रियं स्थानं स्वर्गरूपं तत्प्राप्तवान् । अत्र महाव्रताख्ये कर्मणि माध्यंदिनसवने निष्केवल्याख्यं किंचिच्छस्त्रं पठ्यते । तस्य च शस्त्रस्य पक्षिरूपतां परिकल्प्य तदवयवरूपाः शस्त्रभागविशेषाः क्रमेण पठ्यन्ते । पक्षिणश्च मध्यदेहो ग्रीवा शिरः पक्षमूलं दक्षिणः पक्ष उत्तरः पक्षः ⁺पुच्छमुदरस्थानमुदरमूरू इत्येवं दशावयवाः सन्त्यतः शस्त्रेऽपि दशावयवरूपत्वेन "तदिदास भुवनेषु ज्येष्ठम्" [ऋ० सं० म० १० सू० १२० ऋ० १] इत्यादिका बहुविधाः सूक्तविशेषाः प्रथमारण्ये—[ऐ० आ० १ अ० ३ ख० ४] विहिताः । ते च पञ्चमारण्यके शौनकेन सम्यग्विस्तृत्योदाहृताः [ऐ० आ० ५ अ० १ ख० ६] । यद्यपि तेषु सर्वेषु नानाविधच्छन्दस्का मन्त्रा आम्नातास्तथाऽपि तेषु सर्वेष्वक्षराणि गणयित्वा षट्त्रिंशदक्षरोपेतानां बृहतीनां सहस्रं द्रष्टव्यम् ।
पुनरपि पूर्ववदाख्यानमाह—
तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे
⁺ पुच्छमुदरमूरू इत्येव पठितुं योग्यम् ।
१ क. ˚प्रद˚ । २ क. ख. ग. ˚दृष्टिविधान ।