ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
द्वितीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (१०)
१२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
न्तर्भावात् । तस्मात्प्राण ऋच ऋगुपलक्षितं सर्वं शब्दजातं महर्षिजातं च प्राणस्वरूप- मित्येवोपासितव्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये द्वितीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (१०)
अथ तृतीयः खण्डः । ( एकादशः )
प्राणस्य कृत्स्नशब्दार्थरूपध्यानमभिधाय शस्त्रगतासु तृचाशीतिष्विन्द्रसंबन्ध्यन्नत्व- दृष्टिं विदधान उपाख्यानमाह—
विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनि- षससाद स हान्नमित्यभिव्याहृत्य बृहतीस- हस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।
कदाचिन्महाव्रताख्ये कर्मणि विश्वामित्रो महर्षिर्होता सन्नेतनमहाव्रताख्यमहः शंसिष्यति शंसितुमुपक्रमं करोति तदानीमिन्द्रोऽन्नार्थी सन्संतं विश्वामित्रमुपनिषससादोपेत्य समीपे स्थितवान् । अधिकः सकारश्छान्दसः । स च विश्वामित्र इन्द्रस्याभिप्रायं ज्ञात्वा तवान्नभूतमेव तन्मन्त्रजातमितीन्द्रस्याग्रे कथयित्वा बृहतीच्छन्दस्कं मन्त्रसहस्रं शंसित्वा तेन शंसनेनेन्द्रस्य यत्प्रियं स्थानं स्वर्गरूपं तत्प्राप्तवान् । अत्र महाव्रताख्ये कर्मणि माध्यंदिनसवने निष्केवल्याख्यं किंचिच्छस्त्रं पठ्यते । तस्य च शस्त्रस्य पक्षिरूपतां परिकल्प्य तदवयवरूपाः शस्त्रभागविशेषाः क्रमेण पठ्यन्ते । पक्षिणश्च मध्यदेहो ग्रीवा शिरः पक्षमूलं दक्षिणः पक्ष उत्तरः पक्षः ⁺पुच्छमुदरस्थानमुदरमूरू इत्येवं दशावयवाः सन्त्यतः शस्त्रेऽपि दशावयवरूपत्वेन "तदिदास भुवनेषु ज्येष्ठम्" [ऋ० सं० म० १० सू० १२० ऋ० १] इत्यादिका बहुविधाः सूक्तविशेषाः प्रथमारण्ये—[ऐ० आ० १ अ० ३ ख० ४] विहिताः । ते च पञ्चमारण्यके शौनकेन सम्यग्विस्तृत्योदाहृताः [ऐ० आ० ५ अ० १ ख० ६] । यद्यपि तेषु सर्वेषु नानाविधच्छन्दस्का मन्त्रा आम्नातास्तथाऽपि तेषु सर्वेष्वक्षराणि गणयित्वा षट्त्रिंशदक्षरोपेतानां बृहतीनां सहस्रं द्रष्टव्यम् ।
पुनरपि पूर्ववदाख्यानमाह—
तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे
⁺ पुच्छमुदरमूरू इत्येव पठितुं योग्यम् ।
१ क. ˚प्रद˚ । २ क. ख. ग. ˚दृष्टिविधान ।
तृतीयं पर्यायमाह—
अध्या० २ ख० ३ (११)] ऐतरेयारण्यकम् । १२३
द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती- सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।
विश्वामित्रं प्रतीन्द्र एवमुवाच, हे महर्षे त्वं मदीयान्नबुद्ध्या शंसित्वा मदीयं प्रियं स्थानं प्राप्तवानसि हे महर्षे स तादृशस्त्वं शस्त्रं पुनरपि द्वितीयं शंसेति । अन्यत्पूर्ववद्व्याख्येयम् । ननु कृत्स्नेऽपि निष्केवल्ये शस्त्रेऽक्षरगणनया बृहतीसहस्रमेकमेव संपद्यते न तु द्वितीयमस्ति तत्कथं द्वितीयं शंसेत्यभिधीयते, नायं दोषः । अत्र बृहतीसहस्रशब्देन तदवयवानां विवक्षितत्वात् । तृचाशीतयोऽन्नत्वेनाभिहिताः “अन्नमशीतयः” इत्युक्तत्वात् । अत्रापि त्रिवारमन्नत्वेनोपन्यस्यन्ते । अतो बृहतीसहस्रशब्देनात्र प्रथमपर्याये गायत्री तृचाशीतिर्विवक्षिता । द्वितीयपर्याये बार्हती तृचाशीतिः ।
तृतीयं पर्यायमाह—
तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः स वा ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती- सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति ।
औष्णिही तृचाशीतिरत्र बृहतीशब्देन विवक्षिता । अन्यत्पूर्ववद्व्याख्येयम् ।
तृचाशीतिष्विन्द्रान्नत्वदृष्टिं विधाय प्राणस्य सर्वात्मत्वं दर्शयन्नाख्यायिकामुपसंहरति—
तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागा वरं ते ददामीति स होवाच त्वामेव जानीयामिति तमिन्द्र उवाच प्राणो वा अहमस्म्यृषे प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मि तस्य मेऽन्नं मित्रं दक्षिणं तद्वैश्वामित्रमेष तपन्नेवास्मीति होवाच, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ (११)
इन्द्रो हि यथोक्तप्राणात्मध्यानेन तत्साक्षात्कारं प्राप्य स्वानुभवसिद्धं सर्वात्मत्वमुपदिश्य सर्वात्मनः स्वस्य तृचाशीतिरूपं यदन्नं ध्यातव्यं तन्मित्रादिविशेषणैः प्रशशंस । लौकिकमित्रवत्प्रीतिजनकत्वादन्नस्य मित्रत्वम् । अभिवृद्धिहेतुत्वाद्वदक्षिणत्वम् । “दक्ष वृद्धौ” [ भ्वा० ग० प० ] इति धातुः । विश्वामित्रेण शंसनकाले संपादितत्वादिदं
१ ख. ग. स्वस्वत्ृ ।
२ ग. 'दिभिर्विशे' ।
१२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
वैश्वामित्रम्। तादृगन्नं प्राप्याऽऽदित्यरूपेण सर्वदा लोके तपन्नेष एवास्मीत्येवं ध्यानदृष्टिसिद्धं स्वकीयं रूपमिन्द्रः प्रोवाच ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ११ )
अथ चतुर्थः खण्डः । ( द्वादशः )
तिसृषु तृचाशीतिष्वन्नदृष्टिं विधाय वर्णविशेषेषु शरीरादिदृष्टिं विधत्ते—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छ- रीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः, इति ।
"तदिदास भुवनेषु" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं यन्मन्त्रजातं निष्केवल्यशस्त्रे विहितं तदेवेदमक्षरगणनारूपेण बुद्धिकौशलेन बृहतीसहस्रं संपाद्य ध्योतव्यम् । तस्य बृहतीसहस्रस्य मध्ये यानि ककारादीनि व्यञ्जनानि सन्ति तेषु शरीरदृष्टिं कुर्यात् । ककारादीनां हलिति पाणिनीयसंज्ञा । व्यञ्जनमिति श्रौतसंज्ञा । तामेवोपजीव्य कौमारव्याकरणे—“कादीनि व्यञ्जनानि” इति सूत्रितम् । यो घोषो घर्कारादिवर्णः स आत्मा मध्यशरीरम् । ये तूष्माणः शषसहास्ते प्राणवायुस्वरूपाः । घोषोष्मादिसंज्ञाऽपि कौमारे सूत्रिता—“वर्गप्रथमद्वितीयाः शर्षसाश्चाघोषा घोषवन्तोऽन्ये” “शषसहा ऊष्माणः” इति ।
तदेतच्छरीरादिध्यानं प्रशंसति—
एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभे, इति ।
वसिष्ठनामको यो महर्षिरस्ति सोऽयं तदेतद्व्यञ्जनादीनां शरीरादिरूपत्वं विद्वान्वसिष्ठशब्दस्याभिधेयो बभूव । अतिशयेन निवासहेतुत्वमाच्छादयितृत्वं वा वसिष्ठत्वम् । प्राणो हि स्वप्रवेशेन निवासहेतुर्भवति । स्वव्याप्त्या सर्वमाच्छादयति । तादृशं प्राणात्मत्वं ध्यानेन प्राप्तवान्मुनिरप्यर्थद्वयवत्त्वेन वसिष्ठनामकत्वं लब्धवान् ।
पुनरपि प्रकारान्तरेण प्रशंसति—
एतदु हैवेंद्रो विश्वामित्राय प्रोवाचैतदु हैवेंद्रो भरद्वाजाय प्रोवाच तस्मात्स तेन बन्धुना यज्ञेषु हूयते, इति ।
१ क. ॰शल्येन । २ ख. ग. ध्यातवान् । ३ ख. ग. सूत्रम् । ४ ख. ग. ॰कारभकारा॰ । ५ क. ॰षसहाश्चा॰ । ख. घ. ङ. ॰षसहाश्च घो॰ । ६ ख. ङ. ॰दिरूपं ध्या॰ । ७ क. ॰दकत्वं ।
अध्या० २ ख० ४ (१२)] ऐतरेयारण्यकम् । १२५
एतदेव व्यञ्जनादिषु शरीरत्वादिदर्शनमिन्द्रो विश्वामित्रभरद्वाजाभ्यामुपदिष्टवान् । तस्मात्स इन्द्रस्तेन शिष्यरूपेण बन्धुना सोमयागेषु सुब्रह्मण्यायामिन्द्राऽऽगच्छ हरिव आगच्छेत्येवं समाहूयते । महतेन्द्रेण महच्यामुपदिष्टत्वात्प्रशस्तमित्यर्थः ।
पुनरपि व्यञ्जनानि स्वरांश्र विभज्य तत्र रात्रिध्यानमहर्ध्यानं च विधत्ते—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्वां सहस्राणि भवन्ति व्यञ्जनैरेव रात्रीराप्नुवन्ति स्वरैरहानि , इति ।
विशेषविधिसंबन्धार्थं तद्वा इत्यादेः पुनः पुनरनुवादः । षट्त्रिंशदक्षरा बृहती । तस्यां च सहस्रगुणितायामक्षराण्युपि षट्त्रिंशत्संख्याकैः सहस्रैर्युक्तानि भवन्ति । संवत्सरश्च षष्ट्युत्तरशतत्रयदिनात्मकः । तस्मिन्संवत्सरे शतगुणितानि दिनान्यपि षट्त्रिंशत्सहस्रसंख्याकानि भवन्ति । ततः संख्यासाम्ये सत्यक्षरगतेषु तावत्संख्याकेषु व्यञ्जनेषु तावत्संख्याकारात्रिदृष्टिं कुर्यात् । तथा स्वरेष्वहर्दृष्टिं कुर्यात् । अकारमारभ्य मातृकायामौकारपर्यन्ता वर्णाः स्वराः । अत एव कुमारेणैवं सूत्रितम्—"सिद्धो वर्णसमाम्नायः" "तत्र चतुर्दशाऽऽदौ स्वराः" इति ।
यथोक्तसर्वविशेषणविशिष्टस्य प्राणदेवध्यानस्य प्रधानफलं दर्शयति—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य परस्तात्प्रज्ञामयो देवतामयो ब्रह्ममयोऽमृतमयः संभूय देवता अप्येति य एवं वेद, इति ।
प्रज्ञामयत्वादिगुणचतुष्टयेन फलेन च संबन्धार्थं तद्वा इदमित्याद्यनुवादः । बुद्धिविशेषसंपादितस्य बृहतीसहस्रस्य स्वरूपभूतः प्राणदेवः प्रज्ञामयश्चित्स्वरूपः सर्वज्ञ इत्यर्थः । देवतामयोऽग्निवाय्वादिसर्वदेवतासमष्ट्यात्मकः । ब्रह्ममयः सर्ववेदात्मकः । अमृतमयस्तत्त्वज्ञानोत्पादनेन मोक्षहेतुत्वान्मुक्तिरूपः । यः पुमानेवमुपास्ते स पुमानेव ता अग्निवाय्वादिकाः संभूय सर्वा अप्येकीकृत्याप्येति तद्देवतासमष्टिरूपं हिरण्यगर्भं प्राप्नोति ।
१ घ. ङ. °भजते । त° । २ क. ख. ग. °नि च भ° । ३ क. तस्मिंश्च सत्रे श° । ४ ख. ग. °स्मिन्सङ्ग्रहे श° । ५ क. ख. ग. °णिते सति दि° । ६ क. ख. °णैव सू° । ७ घ. ङ. °त्रिताः—"सिं° । ८ ग. °द्देश स्व° । ९ ख. ग. °दः । बुद्धि° । १० घ ङ. °शेषेकसं° । ११ क. °स्य संपन्नस्य स्व° ।
१२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [२द्वितीयारण्यके-
तस्य चोपासकस्याध्यात्ममधिदैवं च व्यतिहारेण ध्यानं विधत्ते— तद्योऽहं सोऽसौ योऽसौ सोऽहम्, इति । तत्तस्मिन्सर्वात्मके प्राणदेवतास्वरूपे योऽहमुपासकशरीरवर्ती सोऽसौ स एवाऽऽ- दित्यमण्डलस्थः पुरुषः । तथा योऽसावधिदै(दै)वमादित्यमण्डलस्थो यैः पुरुषः सोऽहं स एवोपासकशरीरस्थोऽहमस्मीत्येवमन्योन्यतादात्म्यं ध्यायेत् । अध्यात्ममधिदैवं च ध्येयवस्तुन एकत्वे संवादार्थं मन्त्रमुदाहरति— तदुक्तमृषिणा—सूर्य आत्मा जगतस्तस्थुषश्चेति, इति । कृत्स्नमन्त्रस्य प्रतीकदर्शनाय चतुर्थपादः पठितः । स च मन्त्रः संहितायामेव- माम्नातः— “चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च” इति । [ऋ०सं०म०१सू०११९ऋ०१] अनीकशब्दो मुखवाची सैन्यवाची वा। यदेतदादि- त्यमण्डलं तदेतद्देवानां मुखं सर्वव्यवहारहेतुत्वात् । देवानां मध्ये मुख्यमित्यर्थः । सैन्यपक्षे बहुविधरश्मिसमूहरूपमिति व्याख्येयम् । तच्च मण्डलं चित्रं चायनीयं पूजनीयम् । यद्वा सर्वदिक्षु रश्मिप्रसारणेन विचित्रम् । देवानां मुखमित्येतदेव चक्षुरित्यादिना प्रपञ्च्यते—मित्रवरुणादीनां चक्षुःस्थानीयमिदं मण्डलम् । एतदीयेन हि प्रकाशेन सर्वे देवाः पश्यन्ति । तच्च मण्डलं लोकत्रयमाप्राः सर्वतः पूर्णं सद्दृर्तते । तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषश्च स्थावरस्यापि प्राणिजातस्याऽऽत्मा प्रत्यक्स्वरूपमिति मन्त्रस्यार्थः । एतद्विज्ञानमुपसंहरति— एतदु हैवोपेक्षेतोपेक्षेत, इति । इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १२ ) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयोऽध्यायः ॥ २ ॥ एतदेव सर्वात्मकमादित्यस्वरूपं गुरुमुखादुपेक्षेत साक्षात्कुर्यात् । अभ्यासोऽध्या- यसमाप्त्यर्थः ।
सूर्य आत्मा जगतः०—[ ऋ० सं० म० १ सू० ११९ ऋ० १ ] १ घ. ङ. ॰देव आदि॰ । २ क. ॰लस्थोऽयं पु॰ । ३ ग. ध्येयः ।
अध्या० ३ ख० १ (१३) ऐतरेयारण्यकम् । १२७
तद्योऽहमित्यत्र यो व्यतिहार उक्तः सोऽयं तृतीयाध्यायस्य तृतीयपादे चिन्तितः—
“व्यतिहारे स्वात्मरन्योरेकधा धीरुत द्विधा ।
वस्त्वैक्यादेकधैव स्याद्दाढ्याय व्यतिहारधीः ॥
ऐक्येऽपि व्यतिहारोक्त्या धीर्द्वैधेशस्य जीवता ।
युक्तोपास्ये वाचनिकी मूर्तिर्वैद्यार्थ्यार्थिकम् ॥
ऐतरेयके पठ्यते—“तद्योऽहं सोऽसौ योऽसौ सोऽहम्” इति । तस्यायमर्थः—य एष देहेन्द्रियसाक्षी जीवात्मा स एवाऽऽदित्यमण्डलवर्ती परमात्मा, यो मण्डलवर्ती स एवास्मद्देहादिवर्तीति । तत्र स्वदेहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीवब्रह्मैक्यलक्षणस्य वस्तुन एकत्वादेकधैव बुद्धिः कर्तव्या । न च व्यतिहारपाठवैय्यर्थ्यमेकस्यापि वस्तुनो दाढ्याय तदुपपत्तेः, इति प्राप्ते ब्रूमः—न खल्विदं तत्त्वावबोधप्रकरणं येनैकत्वप्रतिपत्तिर्दाढ्यमपेक्षते । किं तर्हि सगुणोपास्तिप्रकरणम् । उपास्तिश्च यथावचनमनुष्ठेया । तयोर्व्यतिहारेण द्वेधा बुद्धिः कर्तव्या । नन्वेवं सति जीवस्य ब्रह्मैक्यमुत्कर्षाय कल्पते । ब्रह्मणस्तु जीवैक्यमपकर्षाय स्यादिति चेन्नायं दोषः । यथा देहादिरहितस्याप्युपासकचित्तस्थैर्यार्थं चतुर्भुजाष्टभुजादिमूर्तिव्यपदेशेऽपि नापकर्षः, तथा वचनबलादीश्वरस्य जीवत्वोपासने का तव हानिः । यद्युपासनाय व्यतिहारेऽनुष्ठीयमानेऽर्थाज्जीवब्रह्मणोरेकत्वप्रतिपत्तिर्दृढा भवेत्तर्हि चरितार्थाः संपद्यामहे । तस्माद्व्यतिहारेण द्विधा बुद्धिः कर्तव्या ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ (१२)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकभाष्ये द्वितीयारण्यके द्वितीयोऽध्यायः ॥ २ ॥
अथ द्वितीयारण्यके तृतीयोऽध्यायः ।
तत्र प्रथमः खण्डः । (त्रयोदशः)
द्वितीये महर्षिमन्त्ररूपत्वादिगुणा उक्ताः । तृतीये पञ्चविधत्वादीनि गुणान्तराण्युच्यन्ते । तत्रोक्थस्य भूतपञ्चकरूपत्वं विधत्ते—
यो ह वा आत्मानं पञ्चविधमुक्थं वेद यस्मा-
१ क. ख. ग. 'धैकस्य दाढ्यर्यां' । २ क. ख. ग. 'पास्तौ वा' । ३ ख. ग. यद्यप्युपा' ।
१२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
दिदं सर्वमुत्तिष्ठति स संप्रतिवित्पृथिवी वायुरा- काश आपो ज्योतींषीत्येष वा आत्मोक्थं पञ्चविधमेतस्माद्धीदं सर्वमुत्तिष्ठत्येतमेवाप्येत्ययनं ह वै समानानां भवति य एवं वेद, इति ।
यस्मात्प्राणदेवस्य प्रतीकभूतादुक्थादिदं सर्वमुत्तिष्ठति । उक्थानुष्ठानतदुपासन- फलभूतत्वाज्जगदुत्पत्तेः । तादृशमुक्थं निष्केवल्याख्यं शस्त्रं पञ्चविधमात्मानं वक्ष्यमा- णपृथिव्यादिपञ्चप्रकारेणोपासकस्य स्वरूपभूतं यः पुमानुपास्ते स पुमान्संप्रतिवित्स- म्यगभिज्ञः । के ते पञ्च प्रकारा इति चेदुच्यते—पृथिव्यादीनि यानि पञ्च भूतानि सन्ति तद्रूप उपासकस्याऽऽत्मा पञ्चविधमुक्थम् । एतस्मात्पञ्चभूतात्मकादुक्थादेव सर्वमिदं शरीरजातमूत्पद्यते । पुनरप्येतमेवोक्थमप्येति संहारकाले प्रविशति । न ह्युक्थस्वरूपत्वेन प्रतिपादितानि पञ्च भूतानि विहाय भौतिकस्य शरीरस्योत्पत्तिर्लयो वा संभवति । यः पुमानेवमेतस्योक्थस्य पञ्चविधत्वमुपास्ते स पुमान्समानानां ज्ञाती- नामयनमाश्रयो भवति ।
तेषामुक्थस्वरूपाणां पञ्चभूतानामन्नान्नादिरूपत्वध्यानं विधत्ते—
तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यानमपाञ्च पृथिवी चान्नमेत- न्मयानि ह्यन्नानि भवन्ति ज्योतिश्च वायुश्चा- न्नादमेताभ्यां हीदं सर्वमन्नमत्त्यावपनमाकाश आकाशे हीदं सर्वं समोप्यत आवपनं ह वै समानानां भवति य एवं वेद, इति ।
तस्मिन्पञ्चभूतात्मक उक्थे यः पुमानिदमन्नं भोग्यमिदं चान्नादं भोक्तृरूपमिति विभज्योपास्तेऽस्मिन्नुपासकेऽन्नादो भोक्तुं समर्थो रोगरहितः पुत्रो जायते । अस्य चोत्पन्नस्यान्नमपेक्षितं सर्वं संपद्यत एव । किं तदन्नं किं वाऽन्नादमिति चेत्तदुच्यते— पञ्चभूतेषु मध्य आपश्च पृथिवी चेत्युभयमन्नम् । यस्माद्व्रीहियवादीन्यन्नानि भूम्युदक- विकाररूपाणि भवन्ति तस्माद्भूम्युदकयोरन्नत्वं युक्तम् । तेजश्च वायुश्चेति भूतद्वयं भोक्तृरूपम् । प्राणवायुना जाठराग्नौ प्रदीपिते सत्येताभ्यामग्निवायुभ्यां सर्वमिदमन्न- जातं जनो भक्षयति । तस्माज्ज्योतिर्वाय्वोरन्नादत्वं युक्तम् । न च भूतचतुष्टयस्यैवोपा- योगो न त्वाकाशस्येति शङ्कनीयम् । आकाशस्याऽऽवपनरूपत्वात् । यस्मादाकाशे
१ ख. ग. सर्वं जगदुत्ति॑। २ घ. ङ. ॰च्यन्ते। पृ॑ । ३ क. ख. ग. पुत्र आजा॑। ४ घ. ॰मपि क्षिप्रं सं॑।
अध्या० ३ ख० १ (१३)] ऐतरेयारण्यकम् । १२९
सर्वमिदं भोक्तृभोग्यजातं समोप्यते सम्यगा समन्तात्प्रक्षिप्यते तस्मादाकाशस्याऽऽवप- नत्वम्। यः पुमानेवमाकाशस्यावकाशप्रदानेन भोक्तृभोग्याधारत्वमुपास्ते स पुमान्स- मानानां ज्ञातीनामावपनमाधारो भवत्येव ।
उक्थस्वरूपेषु भूतेषु भोक्तृभोग्यध्यानं विधाय भौतिकेषु तद्ध्यानं विधत्ते—
तस्मिन्योऽन्नं चान्नादं च वेदाहास्मिन्नन्नादो जायते भवत्यस्यान्नमोषधिवनस्पतयोऽन्नं प्राणभृतोऽ- न्नादमोषधिवनस्पतीन्हि प्राणभृतोऽदन्ति, इति ।
ओषधिवनस्पतीनामन्नत्वं प्राणभृतां मनुष्यगवाश्वादीनां भोक्तृत्वं च लोके प्रसिद्ध- मिति द्योतयितुं हिशब्दः ।
अथ प्राणभृत्स्वेव भोक्तृभोग्यविभाग^३ध्यानं विधत्ते—
तेषां य उभयतोदन्ताः पुरुषस्यानुविधा विहि- तास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पशू- नधीव चरन्त्यधीव ह्यन्नेऽन्नादो भवति, इति ।
तेषां प्राणभृतां मध्ये ये केचिदश्वादय उभयतोदन्ता अधोभागे चोर्ध्वभागे च दन्तपङ्क्तियुक्ताः पुरुषस्यानुविधा मनुष्यस्य प्रकारमनुसृत्य विहिता उत्पादिताः । यथा मनुष्यस्योभयतो दन्तपङ्क्ती विद्येते तद्वदश्वादीनामपि ते मनुष्याश्वादयो भोक्तृरू- पेभ्य इतरेऽधोभाग एव दन्तपङ्क्तियुक्ता गोमहिषादयः पशवो ये सन्ति तेऽन्नरूपाः । यस्मादेवं तस्माल्लोके उभयतोदन्ता मनुष्याश्वादय इतरान्गोमहिषादीन्प्रत्यधीव चरन्ति, अधिका इव वर्तन्ते । अश्वादीनां मूल्यबाहुल्याद्यत्नातिशयेन रक्ष्यमाणत्वौ- घ्याऽऽधिक्यम् । यस्माल्लोकेऽपि व्रीहियवादिका येऽन्ने पात्रे प्रक्षिप्ते सत्यन्नादो भोक्ता मनुष्योऽधिक इव भवति । तत्र मनुष्यस्य स्वातन्त्र्यादधिकत्वमन्नस्य पारतन्त्र्यान्न्यूनत्वम्।
भोक्तुराधिक्यध्यानस्य फलमाह—
अधीव ह समानानां जायते य एवं वेद, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १३ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १३ )
^१ ख. ग. ॰पेण भू॰ । ^२ ख. ग. अतः । ^३ ख. ग. ॰विधानं विधीयते । ते॰ । ^४ ख. ग. ॰त्वादाधि॰ ।
१३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
अथ द्वितीयः खण्डः । ( चतुर्दशः )
अन्नादिध्यानमुक्त्वा पुरुषस्योक्थस्वरूपस्याऽऽत्मचैतन्याविर्भावातिशययुक्तत्वध्यानं विधत्ते—
तस्य य आत्मानमाविस्तरां वेदाश्नुते हाऽऽविर्भूयः, इति ।
तस्योक्थरूपस्य पुरुषस्य शरीरे वर्तमानं चिद्रूपमात्मानमाविस्तरामतिशयेन प्रकटं यः पुमानुपास्ते स पुमान्भूय आविरातिशयेन प्रकटत्वमश्नुते ह व्याप्नोत्येव । विद्यैश्वर्यादिकीर्तिं बहुलां प्राप्नोतीत्यर्थः ।
चैतन्यस्योपाधिविशेषेषु तारतम्येनाऽऽविर्भावं दर्शयितुमादावेकमुपाधिमुदाहरति—
ओषधिवनस्पतयो यच्च किंच प्राणभृत्स आत्मानमाविस्तरां
वेदौषधिवनस्पतिषु हि रसो दृश्यते चित्तं प्राणभृत्सु, इति ।
सच्चिदानन्दरूपस्य जगत्कारणस्य परमात्मनः कार्यभूताः सर्वेऽपि पदार्था आविर्भावोपाधयः । तत्राचेतनेषु मृत्पाषाणादिषु सत्तामात्रमाविर्भवति न चाऽऽत्मनो जीवरूपत्वम् । ये¹ त्वोषधिवनस्पतयो जीवरूपाः स्थावरा ये च श्वासरूपप्राणधारिणो जीवरूपा जङ्गमास्तदुभयमतिशयेनाऽऽविर्भावे स्थानमिति यो निश्चिनोतीत्यध्याहारः । स पुमानात्मानमतिशयेनाऽऽविर्भूतमुपास्ते । कथं स्थावरजङ्गमजीवयोराविर्भावातिशय इति चेदुच्यते । ओषधिवनस्पतिषु स्थावरजीवशरीरेषु रस आर्द्रत्वं तदेतज्जीवात्मनो लिङ्गम् । न हि काष्ठपाषाणादिषु रसोऽस्ति । यदपि प्राणभृत्सु जङ्गमजीवशरीरेषु चित्तमन्तःकरणं तदपि जीवात्मनो लिङ्गम् । तच्च मृत्पाषाणादिषु न दृश्यते । अतो रसचित्तयोर्जीवलिङ्गयोर्दर्शनादोषध्यादिष्वतिशयेनाऽऽविर्भावः सिद्धः ।
उदाहृतोपाधावपि स्थावरेभ्यो जङ्गमेष्वाविर्भावातिशयं दर्शयति—
प्राणभृत्सु त्वेवाऽऽविस्तरामात्मा तेषु हि
रसोऽपि दृश्यते न चित्तमितरेषु, इति ।
तुशब्द ओषधिवनस्पतिव्यावृत्त्यर्थः । प्राणभृत्सु मनुष्यगवादिष्वेव चिदात्मन आविर्भावातिशयो न त्वोषध्यादिषु । तत्र हेतुरुच्यते—तेषु प्राणभृच्छरीरेषु रक्तरूपो रसो दृश्यते । अपिशब्देन पूर्वोक्तं चित्तं समुच्चिनोति । अतो लिङ्गद्वयसद्भावादाविर्भावातिशयः । इतरेष्वोषधिवनस्पतिशरीरेषु चित्तं न दृश्यते किं तु रसरूपमेकमेव लिङ्गं तस्मान्नास्त्यतिशयः ।
प्राणभृदुपाधिष्वपि तारतम्यं दर्शयति—
पुरुषे त्वेवाऽऽविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो
¹ ख. ग. ये चौष° ।
अध्या०३ख०२(१४)] ऐतरेयारण्यकम् । १३१
विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीप्सत्येवं संपन्नः, इति ।
मनुष्या गवाश्वादयश्च प्राणभृतस्तेषां मध्ये पुरुषे मनुष्य एवातिशयेनाऽऽत्मा- विर्भावो न तु गवादिषु । यस्मात्स मनुष्योऽत्यन्तं प्रकृष्टज्ञानेन संपन्नः । तदेव कथमिति चेत्तदुच्यते—पूर्वेद्युर्वस्तु विज्ञातं तत्सर्वमद्य स्मृत्वा ममेदं विदितमिति जनानामग्रे वदितुं समर्थः । तथा पूर्वेद्युर्यद्वस्तु समीचीनं विज्ञातं तदद्य स्मृत्वा तस्मि- न्देशे गत्वा द्रष्टुं समर्थः । यद्यपि गवादीनां दर्शने सामर्थ्यमस्ति तथाऽपि विवेकाभा- वान्न साकल्येन दर्शनम् । किंच यथाऽतीतस्य कथनं तथा श्वस्तनं भविष्यत्कर्तव्य- मपि जानाति । तथा लोकालोकावृत्तमं स्वर्गलोकमधमं नरलोकं च शास्त्रेण विविच्य जानाति । तथा मर्त्येन विनश्वरेण ज्ञानकर्मरूपसाधनेनामृतमविनश्वरं मुक्ति- पदमीप्सति प्राप्तुमिच्छति । एवमनेन प्रकारेण मनुष्योऽत्यन्तविवेकेन संपन्नः ।
गवादिपशूक्तवैपरीत्यं दर्शयति—
अथेतेरेषां पशूनामशनापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोका- लोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १४ )
मनुष्यवैलक्षण्यद्योतनार्थोऽथशब्दः । तदेव वैलक्षण्यं प्रपञ्च्यते—अशनाशब्देनाशि- तुमिच्छोच्यते । अशनायेति पदे यैकारस्य लुप्तत्वात् । येयं बुभुक्षा या च पिपासा ते एवोभे अभिलक्ष्य पशूनां विज्ञानमस्ति, न तु मनुष्यवत्पूर्वविज्ञातकथनादिकम् । ते गवाश्वादिपशव एतावन्त एतावन्मात्रविज्ञानास्तात्कालिकक्षुधादिज्ञानमात्रोपेता भवन्ति । तत्र हेतुरुच्यते—यथाप्रज्ञं पूर्वस्मिञ्ज्ञानकर्मानुष्ठानाधिकारयुक्ते जन्मनि यादृशी प्रज्ञा शास्त्रीया लौकिकी वाऽभ्यस्ता । कर्मणोऽप्येतदुपलक्षणम् । कर्मापि विहितं प्रतिषिद्धं वा यादशमनुष्ठितं तादृशीं प्रज्ञां तादृशं कर्म चानतिक्रम्य यस्मा- त्संभवाः प्राणिनां जन्मानि भवन्ति । तस्माज्ज्ञानकर्मानुसारेण पशूनां बुद्धिमात्रं युक्तम् । एतदेवाभिप्रेत्य परलोकगामिनं जीवं प्रति वाजसनेयिन आमनन्ति—“तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च” [बृह० ४ । ४ । २] इति। “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन” [बृह० ४ । ४ । ५] इति च। तदेवं मनुष्यदेहस्योत्तमोपाधि- त्वात्तस्मिन्नेवाऽऽत्मन आविर्भावातिशयं ध्यायेत् । यद्यपि देवादिदेहा इतोऽप्युत्तमोपाध- यस्तथाऽपि मनुष्यस्यैव प्रायेण शास्त्राधिकारित्वात् “पुरुष एवोक्थमयमेव महान्प्रजा-
१ ख. ग. °त्सर्वं स्मृत्वाऽयेमं ममे° । २ क. ग. घ. ङ. यकारस्य । ३ क. ख. ग. °ज्ञानेकं° ।
१३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
पतिः” [ ऐ० आ० २ अ० १ ख० २ ] इति प्रस्तुतत्वादेतस्मिन्नेव ध्यानमुचितम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १४ )
अथ तृतीयः खण्डः । ( पञ्चदशः )
पूर्वत्राऽऽत्माविर्भावध्यानमुक्तमत्र समुद्ररूपत्वादिव्यानमुच्यते । तत्राऽऽदौ पुरुषस्य समुद्ररूपत्वध्यानं विधत्ते—
स एष पुरुषः समुद्रः सर्वं लोकमति यद्ध किंवा-
श्रुतेऽत्येनं मन्यते यद्यन्तरिक्षलोकमश्रुतेऽत्येनं
मन्यते यद्यमुं लोकमश्रुवीतात्येवैनं मन्येत, इति ।
“पुरुष एवोक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इति शस्त्रस्वरूपत्वेन यः पुरुषः प्रकृतः स एष पुरुषः समुद्ररूपः । यथा समुद्रस्तटाकनद्यादिकं सर्वमति- क्रम्य प्रौढो वर्तते तथाऽयं पुरुषोऽपि सर्वं लोकमतिक्रम्य वर्तते । स एवातिक्रमः कथमिति चेत्तदुच्यते—यद्ध किंच भूलोके यत्किंचिद्भोग्यजातमश्रुते व्याप्नोति तमेनं भोग्यपदार्थमतिक्रम्य मन्यतेऽन्तरिक्षलोकगतमपि भोग्यं मे भूयादिति कामयते । यदा त्वन्तरिक्षलोकगतं प्राप्नोति तदानीमेनपि भोग्यपदार्थमतिक्रम्ये मन्यते स्वर्गभोगोऽपि मे भूयादिति कामयते । तस्यापि प्राप्तौ तमतिक्रम्य सत्यलोकादिभोगोऽपि मे भूयादिति कामयेतैव । एतदेवाभिप्रेत्य शाखान्तरे मन्त्रब्राह्मण एवमाम्नायते—“काम५ समुद्रमा- विशेत्याह । समुद्र इव हि कामः । नैव हि कामस्यान्तोऽस्ति । न समुद्रस्य” [ तै० ब्रा० का० २ प्र० २ अनु० ९ ] इति । अतः समुद्रसमानत्वात्पुरुषे समुद्रध्यानं युक्तम् ।
पुरुषशरीरावयवेषु पञ्चभूतध्यानं विधत्ते—
स एष पुरुषः पञ्चविधस्तस्य यदुष्णं तज्ज्योतिर्यानि
खानि स आकाशोऽथ यल्लोहितं श्लेष्मा रेतस्ता आपो
यच्छरीरं सा पृथिवी यः प्राणः स वायुः, इति ।
उष्णं जाठराग्न्यादिरूपम् । खानि मुखनासिकादिच्छिद्राणि । शरीरशब्देन काठिन्यं विवक्षितम् “यत्कठिनं सा पृथिवी” [ गर्भोप० १ ] इति श्रुत्यन्तरात् ।
पुरुषशरीरगतस्य प्राणवायोः पञ्चवृत्तिभेदध्यानं विधत्ते—
स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समा-
नस्ता एता देवताः प्राणापानयोरेव निविष्टाश्चक्षुः श्रोत्रं
१ ख. ग. 'मयेत् । य' । २ क. ख. ग. 'म्य स्वर्गलोके भो' । ३ क. ख. ग. 'श्रतद्ब्राह्म' ।
अध्या० ३ ख० ३ (१६)] ऐतरेयारण्यकम् । १३३
मनो वागिति प्राणस्य ह्यन्वपायेमेता अपियन्ति, इति ।
हृदयादूर्ध्वं मुखनासिकयोः संचरन्वायुः प्राणः । अधोद्वारे संचरन्नपानः । सर्वासु नाडीषु व्याप्य वर्तमानो व्यानः । जीवोत्क्रान्त्यादिकं कर्तुमूर्ध्वभागे कण्ठेऽवस्थित उदानः । अन्नपाने साम्येन कृत्स्नशरीरे नेतुं नाभिसमीपेऽवस्थितः समानः । तदे- तद्वायोः पञ्चविधत्वं ध्यायेत् । चक्षुःश्रोत्रमनोवागादिदेवता अप्यत्र पृथग्ध्यातव्या इति न शङ्कनीयम् । तासां देवतानामूर्ध्वाधोभागवर्तिनोः प्राणापानयोरेवान्तर्भावात् । तदेव कथमिति चेत्तदुच्यते—यस्मात्प्राणस्यापायं देहादपगमनमनु सर्वा एताश्चक्षुरादिदे- वता अपियन्ति लीयन्ते न देहे तिष्ठन्ति, तस्मादन्तर्भूतत्वान्न पृथग्ध्यानम् । यज्ञस्यावान्तरभेदरूपेण ध्यानं विधत्ते—
स एष वाचश्चित्तस्योत्तरोत्तरिक्रमो यद्यज्ञः स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतमो यत्सोम एतस्मि- न्ध्येताः पञ्च विधा अधिगभ्यन्ते यत्प्राक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदूर्ध्वं सा पञ्चमी, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १६ )
वाचो मन्त्रोच्चारणादिर्व्यापारस्तथाचित्तस्य शास्त्रविहितार्थपर्यालोचनव्यापारस्तस्यान्तः- करणस्य चोत्तरोत्तरिक्रमः । एकस्मादितरस्योत्तरत्वं तस्मादप्यन्यस्योत्तरत्वमित्येव- मुत्तरोत्तरभावो यस्य क्रमस्यास्ति सोऽयमुत्तरोत्तरिक्रमः । क्रमेण व्यापार इत्यर्थः । तूष्णीमवस्थानादुत्तरभावी मनसा शास्त्रार्थपर्यालोचनव्यापारस्ततोऽप्युत्तरभावी वाचा मन्त्रोच्चारणव्यापारस्तदुभयव्यापाररूपो यज्ञ इति यदस्ति स एष उक्थात्मकपुरुषरूपः प्राणदेवः । स च यज्ञात्मकः प्राणाग्निहोत्रादिभेदैः पञ्चविध इति ध्यायेत् । न च सोमादप्यधिकं किंचित्कर्मान्तरं कुतो नोच्यत इति वाच्यम् । अधिकस्य कर्मान्तरस्या- भावात् । सोमयाग इति यदस्ति स एष यज्ञानां मध्येऽतिशयेन संपन्नः । यस्मादेत- स्मिन्सोमयागे पञ्चप्रकारमनुष्ठानं दृश्यते । सुत्यादिनेऽनुष्ठेयेभ्यः सवनेभ्यः प्राचीनं दीक्ष- णीयादिकं यदस्ति सोऽयमेकः प्रकारः । प्रातःसवनं माध्यंदिनं सवनं तृतीयसवनं चेति प्रकारत्रयम् । सवनेभ्य ऊर्ध्वमवभृथमारभ्योदैवसानीयान्तं यत्कर्मजातमस्ति सोऽयं पञ्चमः
१ ख. ग. 'ङ्गतदवा' । घ. ङ 'ङ्गस्य तदवा'। २ क. 'दिरूपादिब्या' । ३ घ. ङ. 'व्यावृता'। ४ ङ. 'व्यावृत' । ५ क. 'त्तरित्वं । ६ क. ख. ङ. क्रमणं । ७ ख. ग. शास्त्रीयपं । घ. शास्त्रविहितार्थं । ८ ख. ग. 'चनं व्या'। ९ क. 'त्मकः पु' । १० क. ख. ग. ध्यानम् । ११ ग. अत्यधिं । घ. ङ. अभ्यधिं । १२ क. ख. घ. ङ. 'वसानी' ।
द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
१३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [२द्वितीयारण्यके-
प्रकारः । एतेषां पञ्चप्रकाराणां सोमयागादन्यत्रासंभवात्सोमयाग एव संपन्नतमः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
अथ चतुर्थः खण्डः । ( षोडशः )
पूर्वत्र [ ऐ० आ० २ अ० ३ ख० ३ ] समुद्ररूपत्वादिध्यानमुक्तम् । अत्र स्तोमपञ्चैकत्वादिध्यानमुच्यते । तस्मिन्ध्याने परोचनार्थं प्राणरूपमुक्थं प्रशंसति—
यो ह वै यज्ञे यज्ञं वेदान्वहर्देवेषु देवम-
ध्यूळ्हं स संप्रतिविदेष वै यज्ञे यज्ञोऽन्वहर्दे-
वेषु देवोऽध्यूळ्हो यदेतन्महदुक्थम् , इति ।
यथा हस्तिनोऽप्यत्यन्तश्रेष्ठो राजा हस्तिनमारोहति, एवमत्र श्रेष्ठो यज्ञ इतरं यज्ञमधिरूढ इत्युपचर्यते । तथैवोत्कृष्टमहरितरस्मिन्नहन्यधिरूढम् । उत्तमश्च देव इतरदेवेष्वधिरूढः । तथा सति यः पुमानधमयज्ञादिष्वध्यूळ्हमुपर्यवस्थितमुत्तमयज्ञादिरूपमुपास्ते स पुमान्संप्रतिवित्सम्यगभिज्ञः । कोऽसावुत्तमयज्ञादिरूपः पदार्थ इति चेदुच्यते—यदेतन्महदुक्थं प्रौढं निष्केवल्यशस्त्रमेष एवोत्तमयज्ञादिरूपः पदार्थ इति सोमयागस्य संपन्नतमत्वं पूर्वमुक्तम् [ ऐ० आ० २ अ० ३ ख० ३ ] । अतोऽयं वर्तमानः सहस्रसंवत्सरसत्रारूपोऽयं सोमयाग इतरयज्ञेऽग्निहोत्रादावधिरूढः, तथा महद्व्रतं महतो व्रतमित्यादिनिर्वचनविशेषस्य पूर्वमेव [ ऐ० आ० १ अ० १ ख० १ ] दर्शितत्वान्महाव्रताख्यमेवैतदहरितरस्मिन्नहन्यध्यूळ्ह(ढ)म्, देवेषु प्राणरूपः श्रेष्ठत्वाद्रागादिदेवेष्वधिरूढः, तद्रूपत्वादुक्थमधिकम् ।
तस्योक्थस्य पञ्चविधत्वध्यानं विधत्ते—
तदेतत्पञ्चविधं त्रिवृत्पञ्चदशं सप्तदशमेकविंशं
पञ्चविंशमिति स्तोमतो गायत्रं रथंतरं
बृहद्भद्रं राजनमिति सामतो गायत्र्युष्णिग्बृ-
हतीत्रिष्टुब्द्बिपदेति च्छन्दस्तः शिरो दक्षिणः
पक्ष उत्तरः पक्षः पुच्छमात्मेत्याख्यानम्, इति ।
गीयमानतृचावस्थितानामृग्विशेषाणां समूहः स्तोमः । स च सामगैस्त्रिवृदादिनाम्ना व्यवह्रियते । तत्र त्रिवृत्स्तोमस्य स्वरूपं सामब्राह्मणे समाम्नातम्—“तिसृभ्यो
^१ क. ख. एवं । ^२ क. ख. पूर्व । ^३ ग. 'त्र सोमप' । ^४ घ. ङ. स्तोभप' । ^५ क. 'ष्ककादिरूपत्वं ध्या' । ख. 'ष्ककादिरूपत्वध्या' । ^६ ख. ग. श्रेष्ठय' । ^७ घ. ङ. 'मान्यज्ञा' । ^८ घ. ङ. 'वत्याख्यं श' । ^९ क. ख. ग. 'नः सं' । ^१० ग. 'ति । इत्यारभ्य पुच्छमात्मेत्याख्यानमित्यन्तेन गी' ।
अध्या० १ ख० ४ (१६)] ऐतरेयारण्यकम् । १३५
हिं करोति स प्रथमया तिसृभ्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः ” इति । अयमर्थः— “उपास्मै गायता” [ ऋ० सं० म० ९ सू० ११ ऋ० १ ] इत्यादीनि तृचात्मकानि त्रीणि सूक्तानि सन्ति, तेषु तिसृभिर्ऋग्भिर्हिं करोति गायेत् । काभिस्तिसृभिः, प्रथमया त्रिष्वपि सूक्तेषु या या प्रथमा तया स उद्गाता गायेत् । तथा सति तिसृभिर्गीतं भवति, सोऽयं प्रथमः पर्यायः । द्वितीये सूक्तत्रयगतया मध्यमया गायेत् । तृतीयपर्याये सूक्तत्रयगतयोत्तमया गायेत् । अनेन प्रकारेण त्रिवृत्स्तोमसंन्बन्धिनी विशिष्टा स्तुतिः संपद्यते । सेयं स्तुतिरुद्यतीति नाम्नाऽभिधीयत इति । पञ्चदशस्तोम एवमाम्नातः— “पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः पञ्चर्पञ्चिनी पञ्चदशस्य विष्टुतिः” इति । पूर्वोक्तत्रिवृत्स्तोम एक एव सूक्तत्रयनिष्पाद्यः, अन्ये तु स्तोमा एकैकेनैव तृचात्मकेन सूक्तेन निष्पाद्यन्ते । तत्रायं क्रमः—प्रथमपर्याये आवृत्तिसहिताभिः पञ्चभिर्ऋग्भिर्गायेत् । तद्यथा—प्रथमपर्याये प्रथमामृचं त्रिर्गायेत् । इतरे द्वे सकृत्सकृद्गायेत् । द्वितीयपर्याये मध्यमां त्रिर्गायेत् । तृतीयपर्याये तूत्तमां त्रिर्गायेत् । सेयं पञ्चदशस्य स्तोमस्य संबन्धिनी विष्टुतिः पञ्चर्पञ्चिनीति नाम्ना व्यवह्रियते । सप्तदशस्तोम एवमाम्नातः— “पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिर्दशसप्त सप्तदशस्य विष्टुतिः ” इति । प्रथमपर्याये प्रथमामृचं त्रिर्गायेत् । द्वितीयपर्याये मध्यमां त्रिर्गायेत् । तृतीयपर्याये मध्यमामुत्तमां च त्रिर्गायेत् । सेयं सप्तदशस्तोमसंन्बन्धिनी विष्टुतिः । सेयं दशसप्तेत्युच्यते । एकविंशस्तोम एवमाम्नातः— “सप्तभ्यो हिं करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः सप्तसँस्तिन्येकविंशस्य विष्टुतिः” इति । प्रथमपर्याय उत्तमां सकृद्गायेत् । द्वितीयपर्याये मध्यमां सकृद्गायेत् । तृतीयपर्याये प्रथमां सकृद्गायेत् । सेयमेकविंशस्तोमसंन्बन्धिनी विष्टुतिः सप्तसंतिनीत्यभिधीयते । पञ्चविंशस्तोमस्य त्वावृत्तिप्रकारभेदः *सामसूत्रे
* “ पञ्चविंशस्तोमस्यैवं विष्टुतिः—अष्टाभ्यो हिं करोति स तिसृभिः स चतसृभिः स एकयाऽष्टाभ्यो हिं करोति स एकया स तिसृभिः स चतसृभिर्नवभ्यो हिं करोति स पञ्चभिः स एकया स तिसृभिरिति । धानंजय्यमतेनैकस्थः पक्षो नवभ्यो हिं करोति स चतसृभिर्द्वाभ्यां स तिसृभिरिति परिचरायामावापक्षो गौतमीयः ” इति ग. पुस्तकटिप्पण्याम् ।
१ क. घ. ॰पञ्चनी । २ क. ॰यमात्रं । ३ क. ॰थमा । ४ क. घ. ङ. ॰पञ्चनी । ५ क. ग. घ. ङ. ॰सृभिः सप्तदशस्य । ६ क. ॰यं सप्तदशेत्यु । ७ घ. ङ. ॰ससन्ने । ८ क. ख. घ. ङ. प्रथमां । ९ क. ख. घ. ङ. मध्यमां । १० घ. ङ. ॰ससनी ।
१३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
द्रष्टव्यः । तदेवमुक्थं स्तोमवशात्पञ्चविधं ध्यायेत् । “तत्स॑वि॒तुर्वरे॑ण्यम्” [ ऋ० सं० म० ३ सू० ६२ ऋ० १० ] इत्यस्यामृच्युत्पन्नं साम गायत्रनामकम् । “अ॒भि त्वा॒ शूर॑” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यस्यामुत्पन्नं रथंतरम् । “त्वामिद्धि हवामहे” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] इत्य- स्यामृच्युत्पन्नं बृहत् । “इ॒मा नु कम्” [ ऋ० सं० म० १० सू० १५७ ऋ० १ ] इत्यस्यामृच्युत्पन्नं भद्रम् । “इन्द्रं॒ नरो॒ नेम॑ धिता” [ ऋ० सं० म० ७ सू० २७ ऋ० २८] इत्यस्यामृच्युत्पन्नं राजनम् । एवमुक्थस्य सामतः पञ्चविधत्वम् । चतुर्विंश- त्यक्षरा गायत्री । अष्टाविंशत्यक्षरोष्णिह् । षट्त्रिंशदक्षरा बृहती । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । पादद्वयेनैव निष्पन्ना द्विपदा । इत्येवं छन्दोवशात्पञ्चविधत्वम् । यथा पक्षिणः शिरःपक्षाद्यवयवास्तथा निष्केवल्यशस्त्रस्य “इन्द्र॒मिद्गा॒थिनो॑” [ ऋ० सं० म० १ सू० ७ ऋ० १ ] इत्यादिमन्त्रसमूहः शिरः । अभि त्वा शूर” [ ऋ० सं० म० ७ सू० ३२ ऋ० २२ ] इत्यादिको दक्षिणः पक्षः । “त्वामिद्धि” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] इत्यादिक उत्तरः पक्षः । “इमा नुकम्” [ ऋ० सं० म० १० सू १५७ ऋ० १] इत्यादिसमूहः पुच्छम् । “तदिदास” [ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिको मध्यशरीररूप आत्मा । इत्येवं पक्षि- रूपं ब्राह्मणेनाऽऽम्नायते । तदेतदारूणायमानं पञ्चविधं पक्षिरूपमुक्थे ध्यायेदित्यर्थः ।
प्रकारान्तरेण पञ्चविधत्वध्यानं विधत्ते—
पञ्चकृत्वः प्रस्तौति पञ्चकृत्व उद्गायति पञ्चकृत्वः प्रतिहरति पञ्चकृत्व उपद्रवति पञ्चकृत्वो निध- नमुपयन्ति तत्स्तोभसहस्रं भवति, इति ।
सामगा महाव्रते राजननाम्ना स्तुवते । साम्नि च पञ्च भागाः सन्ति । प्रस्ताव उद्गीथः प्रतिहार उपद्रवो निधनमित्येते भागाः । तत्र प्रस्तावभागं गायन्प्रस्तोता पञ्च- कृत्व आवृत्तं गायति । एवमुद्गाताप्रतिहर्त्तारौ स्वस्वभागं पञ्चकृत्वो गायतः । ऋत्वि- गन्तराभावादुपद्रवभागमुद्गातैव गायति । सोऽपि पञ्चकृत्वो गायति । सर्वे निधनमुप- यन्तीतिविधानात्प्रस्तोत्रादयः सर्वेऽपि पञ्चकृत्वो निधनभागं गायन्ति । एवं सत्यत्र भागभेदेन यत्पञ्चविधत्वं यच्चैकैकस्याऽऽवृत्त्या पञ्चविधत्वं तदुभयमुक्थे ध्यातव्यम् । प्रस्तावादिभागानां पञ्चकृत्वो गानमस्ति । तत्तस्मिन्गाने स्तोभानां सहस्रं संपद्यते । ऋगक्षरव्यतिरेकेण गीतिपूरणार्थं येऽक्षरसमूहाः प्रक्षिप्यन्ते ते स्तोभसंज्ञकास्तेषां सहस्र- त्वसंपादनं सामसूत्रे द्रष्टव्यम् । सेयं सहस्रसंख्या यथोक्तपञ्चविधत्वप्रशंसार्थमुपन्यस्यते ।
१ घ. ङ. स्तुवन्ति । २ क. स्तोमानां । ख. ग. स्तोमभागानां । ३ ग. 'तिपरिपूर्' ।
अध्या० ३ ख० ४ (१६)] ऐतरेयारण्यकम् । १३७
प्रकारान्तरेण पञ्चविधत्वध्यानं विधत्ते—
एवं होताः पञ्च विधा अनुशस्यन्ते यत्प्राक्तृचाशीतिभ्यः
सैका विधा तिस्रस्तृचाशीतयो यदूर्ध्वं सा पञ्चमी, इति ।
यथा प्रस्तावादिभागैस्तत्तदावृत्तिभिश्च पञ्चविधं स्तोत्रं सामगाः संपादयन्ति, एवमेवैता निष्केवल्यगता ऋचो होत्रा पञ्च विधा अनुशस्यन्ते । कथं पाञ्चविध्यमिति चेत्तदुच्यते—“महाँ इन्द्रो य ओजसा” [ ऋ० सं० म० ८ सू० ७ ऋ० १ ] इत्यादिका येयं गायत्री तृचाशीतिर्या च “मा चिदन्यत्” [ ऋ० सं० म० ८ सू० १ ऋ० १ ] इत्यादिका बार्हती तृचाशीतिर्याऽपि “य इन्द्र सोम [पातम:]” [ ऋ० सं० म० ८ सू० १२ ऋ० १ ] इत्यादिकौष्णिही तृचाशीतिस्तास्तिस्रस्तृचाशीतयः । शस्त्रपक्षिणोऽन्नरूपास्ताभ्यः प्राचीनमात्मशिरःपक्षादिभागरूपं यन्मन्त्रजातमस्ति सेयमेका विधा । तृचाशीतयस्तु त्रि(तिस्रो)विधाः । ताभ्य ऊर्ध्वमुदरभागश्चेत्येवंरूपं यन्मन्त्रजातमस्ति सा पञ्चमी विधा । तदेतच्छस्त्रस्य पञ्चविधत्वं ध्यायेत् ।
तदेतच्छस्त्रगतं पञ्चविधत्वं प्रशंसति—
तदेतत्सहस्रं तत्सर्वं तानि दश दशेति वै सर्वमेतावत्या
हि संख्या दश दशतस्तच्छतं दश शतानि तत्सहस्रं
तत्सर्वं तानि त्रीणि च्छन्दांसि भवन्ति त्रेधा विहितं
वा इदमन्नमशनं पानं खादस्तदेतैराप्नोति , इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १६ )
यथोक्तपञ्चविधे शस्त्रे यदेतन्मन्त्रजातमस्ति तत्सर्वं मिलित्वा बुद्धिकौशलेनाक्षरगणनया बृहतीसहस्रं संपद्यते । पूर्वोक्तस्तोभद्वारा बृहतीद्वारा च यत्सहस्रं संपन्नं तत्सर्वम् । नहि सहस्रव्यतिरेकेण किंचिज्जगदस्ति, अशेषसंख्यायाः सहस्रेऽन्तर्भावात् । संख्येयस्य च वस्तुजातस्य संख्यायामन्तर्भावात् । कथमशेषसंख्यायाः सहस्रेऽन्तर्भाव इति चेदुच्यते—तानि संख्यापर्वाणि दश दशेत्येव व्यवह्रियन्तेऽतः संख्याजातं सर्वं सहस्रेऽस्ति । दशशब्देन यावत्युच्यत एतावत्येव लोके विद्यमाना सर्वा संख्या न त्वितोऽधिका काचिदस्ति । तथा हि—एकं द्वे त्रीणीत्येवं गणनायां दशपर्यन्ता नूतनाः संख्यास्तत ऊर्ध्वं तस्या एव संख्याया आवृत्तिर्गण्यते । एकादश
^१ घ. ङ. ‘भागैषु तत्त’।
^२ क. ‘र्थी च य’।
^३ क. ख. ‘वं य’।
^४ क. सेयं।
^५ क. ख. घ. ‘न्नेति । द’।
१३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
द्वादशेत्येवं दशकादूर्ध्वमेकादिसंख्याया एव व्यवह्रियमाणत्वात् । शतं सहस्रमयुतमित्यादिकं संख्यान्तरं विद्यत इति चेन्न । तस्याप्यावृत्तायां दशसंख्यायामन्तर्भावात् । दश दशत् इत्यादिनाऽन्तर्भाव एवोदाहृत्य प्रदर्श्यते । तकारान्तो दशच्छब्दो दशानां समूहं ब्रूते । “पञ्चद्दशतो वर्गे वा” [ पा० सू० अ० ५ पा० १ सू० ६० ] इति पाणिनिना सूत्रितत्वात् । दशसंख्याकानि वर्गरूपाणि दशकानि यानि सन्ति तानि मिलित्वा शतशब्देनोच्यन्ते । तथा दशसंख्याकानि शतानि यानि सन्ति तानि मिलित्वा सहस्रशब्देनोच्यन्ते । एवं दशत्वसंख्यावृत्तित्वादेवापुतलक्षादिनिष्पत्तेस्तत्सर्वं संख्याजातं यथोक्तेष्वेव दशशतसहस्ररूपेषु संख्यापर्वस्वन्तर्भवति । यद्यपि दशसंख्यायामेवान्तर्भावस्तथाऽपि तदुत्पत्तये शतसंख्या सहस्रसंख्या चोदाहरणीया, तस्मात्तानि संख्यापर्वाणि त्रीणि च्छन्दांसि च्छादकानि सर्वसंख्याव्यापकानि भवन्ति । तच्च पर्वत्रयं त्रेधेत्यादिना प्रशस्यते । लोके प्राणिभिर्भुज्यमानं यदिदमन्नमस्ति तच्च त्रेधा विहितमशनमोदनरूपं पानं जलक्षीरादिरूपं खादो लड्डुकादि । तैच्च त्रिविधमन्नमेतैर्दश शतं सहस्रमित्येवंरूपैस्त्रिभिः संख्यापर्वभिः प्राप्नोति । फलेन प्रशस्यमानत्वात्पर्वत्रयं ध्यातव्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १६ )
अथ पञ्चमः खण्डः । ( सप्तदशः )
उक्थस्य पञ्चविधत्वादिध्यानमभिधाय बृहतीसहस्ररूपत्वध्यानं विधत्ते— तद्वा इदं बृहतीसहस्रं संपन्नम्, इति । यन्निष्केवल्यशस्त्रमुपासनायां प्रतीकत्वेन प्रकृतं तदेवेदमक्षरगणनया बृहतीछन्दस्कानाम्ऋचां सहस्रं संपन्नमिति ध्यायेत् । तदेतत्स्वमतं प्रशंसितुं परमतमुपन्यस्यति— तद्धैतदेके नानाच्छन्दसां सहस्रं प्रतिजानते किमन्यत्सदन्यद्ब्रूयामेति , इति । एके शाखिनो नानाविधानां छन्दसां सहस्ररूपं निष्केवल्यशस्त्रमिति प्रतिज्ञां कुर्वन्ति । तत्र सहस्रसंपादन एव नियमो न बृहतीच्छन्दंसीति तेषामभिप्रायः । ते हि
१ क. ख. ग. 'यां सहस्रसं' । २ क. 'ते तथा "प° । ३ क. °ति च भ° । ४ क. ख. घ. ङ. तद्यत्रिर्वि° । ५ ग. न तु बृ° । ६ क. °न्दसामिति ।
अध्या० ३ ख० ९(१७)] ऐतरेयारण्यकम् । १३९
परस्परं विचार्य निश्चिन्वन्ति । प्रकृताद्बृहतीसहस्रादन्यच्छन्दोन्तरयुक्तं सहस्रं किं तत्समीचीनमित्येवमेकस्य प्रश्नः । अत्रेतरस्योत्तरार्थं सच्छन्द आवर्तनीयः । प्रश्नोत्तराभ्यां मतान्तरस्य सम्यक्त्वनिश्चयाद्बृहतीसहस्रादन्यच्छन्दोन्तरयुक्तं सहस्रं ब्रूयामेति परस्परमुक्तवन्तः ।
अन्यत्र पक्षेऽप्यवान्तरमतभेदान्दर्शयति—
त्रिष्टुप्त्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्त्सहस्रमेके, इति ।
तत्रानुष्टुब्वादिनः स्वमतप्रशंसार्थं मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
स च मन्त्रः संहितायामेवमाम्नातः—
“बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ” इति ॥
[ ऋ० सं० म० १० सू० १२४, ऋ० ९ ]
योऽयमिन्द्रोऽस्ति तमिन्द्रमभिज्ञाः पुरुषा हंसमाहुः । हन्ति वर्षणाय मेघं भिनत्तीति हंसः । कीदृशमिन्द्रं दिव्यानां द्युलोकवर्तिमेघस्थितानामपां सख्ये चरन्तम् । आपो हि स्वप्रवर्तकत्वेनेन्द्रं सखायं मन्यन्ते । कीदृशीनामपां बीभत्सूनाम् । संबन्धमिच्छवो बीभत्सवः । मेघगता ह्यापः स्थावरजङ्गमप्राणिनामुपकारं कर्तुं तैः प्राणिभिः सह भूमौ संबन्धमिच्छन्ति । अतस्तादृशीनामपां भूमौ प्रेरणायेन्द्रस्ताभिरद्भिः सह युज्यते । तादृशं सयुजमाहुरित्यन्वयः । अनुष्टुप्शब्देन मेघगर्जनरूपा वागुपलक्ष्यते “ वाग्वा अनुष्टुप् ” [ नृ० पू० १ । १ ] इति श्रुतेः । तादृशीमनुष्टुप्शब्दोपलक्षितां गर्जनरूपां वाचमनुसृत्य चर्चूर्यमाणं पुनः पुनश्चरन्तमिन्द्रं परमैश्वर्ययुक्तं प्राणदेवं कवयो मेधाविन उपासका मनीषा मननेन विवेकज्ञानेन निचिक्युर्नितरामुपासितवन्तः । ध्यातवन्त इत्यर्थः ।
अस्य मन्त्रस्योत्तरार्धं प्रकृतस्यानुष्टुप्पक्षस्योपयुक्तं व्याचष्टे—
अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति
वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति, इति ।
अनुष्टुप्शब्दोपलक्षितायां वाच्येव तदोपासनकाले प्राणमिन्द्रसंबन्धिनं न्यचायन्नितरां ध्यातवन्तः । इत्येतदर्थजातं तत्तेनोत्तरार्धेनोक्तं भवति ।
अस्मिन्पक्षे पूर्ववादिनोऽभिप्रेतं गुणं दर्शयति—
स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः, इति ।
१ ग. 'र्षणमयं मे' । २ ग. 'नां बन्धनं दृक्संब' ।
१४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [२द्वितीयारण्यके-
सोऽनुष्टुप्सहस्रेण शंसिता होता यशोयुक्तः पुण्यकीर्तियुक्तश्च भवितोरीश्वरो भवितुं प्रभवति । यशो धनादिनिमित्तं लौकिकम् । कल्याणकीर्तियागादिनिमित्ता वैदिकी । त्रिष्टुब्जगत्यपक्षयोरप्ययं गुणो द्रष्टव्यः ।
इदानीं सिद्धान्ती तस्मिन्ननुष्टुप्पक्षे दोषं दर्शयति—
ईश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह
स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि
प्राणे न मनसेऽस्यमानो वाचा नानुभवति, इति ।
तुशब्देनानुष्टुप्पक्षो निराक्रियते । अनुष्टुप्सहस्रेण शंसन्होता कृतादायुषः पुरा प्रैतोरीश्वरो भवति । मर्तुं प्रभुर्भवति । अपमृत्युना म्रियत इत्यर्थः । इत्येवमभिज्ञः पुरुष आह स्म । युक्तं चैतदभिज्ञस्य वचनम् । अनुष्टुब्रूपस्याऽऽत्मनोऽकृत्स्नत्वात् । कथमकृत्स्नत्वमिति चेत्तदुच्यते—यद्यदा वागभि हि वाग्रूपत्वेन स्तुतामनुष्टुभमेवाभिलक्ष्य शस्त्रे प्रवर्तते न तु प्राणत्वेन स्तुते बृहतीसहस्रे प्रवर्तते । “वाग्वा अनुष्टुप्पाणो बृहती” इत्येवं हि तत्तद्रूपेण स्तुतिः। तदानीं प्राणरूपां बृहतीमुपेक्ष्य वाग्रूपायामनुष्टुभ्येव मनसेऽस्यमानः स्वचित्तेनास्यमानः प्रेर्यमाणो होता स्वकीयया वाचा तच्छस्त्रं नानुभवति । न हि प्राणशक्तिसहायमन्तरेण केवलं मानसमात्रेण होता वाचा शस्त्रं वक्तुं क्षमते, सर्वस्येन्द्रियव्यापारस्य प्राणाधीनत्वात् ।
एवमकृत्स्नत्वदोषेणेतरपक्षं निन्दित्वा स्वपक्षं समर्थयते—
बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती, इति ।
अक्षरगणनया बृहतीं संपाद्य यदा ध्यायेत्तदानीं बृहतीति यदस्ति प्राणरूप एष एव प्राणः कृत्स्नः संपूर्ण आत्मा । “प्राणो बृहती ” इत्युक्तत्वाद्वृहत्याः प्राणरूपत्वम् । प्राणस्या(श्चा)भिवदनादिसर्वेन्द्रियव्यापारनिष्पादकत्वात्संपूर्ण आत्मा ।
लौकिकजीवात्मदृष्टान्तेनै बृहतीं प्रशंसति—
सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः
शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता, इति ।
देहमध्यवर्ती लौकिकप्रसिद्धो यो जीवात्मा सोऽयं [सर्वतः शरीरैः] परिवृतः सर्वासु दिक्षु शरीरावयवैर्वेष्टितो वर्तते । तत्तथा सति जीवात्मवदेव बृहत्यपि सहस्रत्वेन संपादिता सती सर्वतः शस्त्रमध्ये सर्वेषु स्थानेषु च्छन्दोभिरध्ययनकालीनैस्तत्तदृग्गतैर्गायत्र्यादिभिः सर्वतो वेष्टिता ।
१ क. ख. ग. धननि° । २ क. ख. °ष्टुब्युक्तस्याऽऽ° । ३ क. ख. ग. °शक्ति स° । ४ ख. ग. °वलमनसेच्छामा’ । ५ ग °न तु बृ° ।
अध्या० ३ ख० ६ ( १८ )] ऐतरेयारण्यकम् । १४१
जीवात्मदृष्टान्तेन प्रशस्य मध्यशरीरदृष्टान्तेनापि प्रशंसति—
मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहती , इति ।
जीवात्मनोऽवस्थानप्रदेशत्वाद्वृदयरूपो मध्यदेहभागो वाऽऽत्मशब्देन विवक्षितः । स चाङ्गानामितरेषां हस्तपादादीनां मध्यं भवति । तथा छन्दसां मध्ये बृहती मध्यं न्यूनानां गायत्र्यादीनामधिकानां त्रिष्टुबादीनां च बृहत्या अभितो विद्यमानत्वात् ।
अनुष्टुप्पक्षोक्तदोषं स्वमते तत्परिहारं चानूद्य स्वमतमुपसंहरति—
स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि संपादयेत्, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १७ )
यथा बृहतीसहस्रं संपाद्य ध्यानमुक्तं तथैवानुष्टुप्संपादनेनापि ध्यानमुच्यते ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १७ )
अथ षष्ठः खण्डः । ( अष्टादशः )
यद्वाऽनुष्टुवन्तर्भावसंपादनेन बृहती प्रशस्यते—
तद्वा इदं बृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहती- सहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पञ्चविंशतिश्चानुष्टुभ आप्तं वै भूयसा कनीयः, इति ।
षट्त्रिंशदक्षरायामेकैकस्यां बृहत्यां द्वात्रिंशदक्षराया अनुष्टुभ ऊर्ध्वमक्षराणि चत्वा- र्यतिरिच्यन्ते । तेषां चातिरिक्तानामक्षराणां कृत्स्नेऽपि शस्त्रे सहस्रचतुष्टयं भवति । तत्रानुष्टुप्त्सम्पादने सति पञ्चविंशत्युत्तरशतसंख्याका अनुष्टुभो भवन्ति । लोकेऽपि भूयसाऽधिकेन संख्याविशेषेण न्यूनं संख्यास्वरूपमाप्तं वै स्वीकृतमेव व्याप्तमेव । तद्यथा शते पञ्चाशत्संख्याऽन्तर्भवति । सहस्रादौ शतादिसंख्याऽन्तर्भवति । तस्मात्ष- ट्त्रिंशदक्षरायां बृहत्यां द्वात्रिंशदक्षराया अनुष्टुभोऽन्तर्भावो युक्त इत्यर्थः ।
बृहत्यामनुष्टुभ्वन्तर्भावे कंचिन्मन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
१ ग. °भागोऽन्त्राऽऽत्म° । २ ख. ग. घ. ङ. °नामेतेषां ।