ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 230, कुल 304 में से
संदर्भ में पढ़ेंअध्या० २ ख० ६ (१२)] ऐतरेयारण्यकम् । २२५
सादृश्यमेव न तु मुख्यमाच्छादकत्वमित्यभिप्रेत्योपमार्थो नकारः पठितः । कुलीदन्तै- र्वज्रर्वद्धनीभूतैरन्तरालच्छिद्ररहितैर्दन्तैः परिवृता परितो वेष्टिता वाग्देवता । दन्तानां विरलत्वे सत्युच्चार्यमाणा वर्णा आभासा भवन्ति । पंविव्र्जप्रवृत्तीक्षणशब्दोच्चारणेऽत्यन्तं पट्वी देवतेत्यर्थः । अथवौष्ठेत्यादिविशेषणैर्देवता न प्रशस्यते, किं तु स्वकीयवाचि दोष उद्भाव्यते । अस्मिन्पक्षे नकारो निषेधार्थः । येयं मदीया वाक्सेयमोष्ठाभ्यां बहिराच्छादिताऽतः कुलीदन्तैः परिवृता वेष्टिताऽतो बहिर्निर्गता सभां रञ्जयितुं<sup>३</sup> न पविर्नात्यन्तं पटुरतः कारणाद्वाग्देवते सर्वस्या इत्यादिना त्वामहं प्रार्थये । इत्येव- मुक्तो यो मन्त्रः सोऽयं वाग्रसः सर्वस्या वाचः सारभूतोऽवगन्तव्यः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ (११)
अथ षष्ठः खण्डः । (द्वादशः)
उपासनान्तरं विधातुं प्रजापतिवृत्तान्तमवतारयति— अथ हास्मा एतत्कृष्णहारितो वाग्ब्राह्मणमिवोपोदाहरति, इति । अथ यथोक्तसर्वसंहितोपास्तिकथनानन्तरं न्यूनातिरिक्तदोषसमीकरणार्थं किंचित्सं- हिताविषयमुपासनमुच्यत इति शेषः । यथा प्रधानेयागं<sup>४</sup>ष्वनुष्ठितेषु पश्चात्स्विष्टकृदनु- ष्ठीयते तद्वदिदं द्रष्टव्यम् । हरितस्य पुत्रो हारीतः स च कृष्णवर्णस्तादृशः कश्चिन्म- हर्षिरस्मै स्वपुत्राय शिष्यार्थं वैतद्दृश्यमाणं<sup>६</sup> वाग्ब्राह्मणं वाग्रूपसंहितोपास्तिविशेषवि- धायकं ब्राह्मणवाक्यमुपोदाहरति । रहस्यत्वेन समीपमागत्य कर्णे कथयति । इवश- ब्दोऽवधारणार्थोऽनर्थको वा । संहिताविषयमेव ब्राह्मणं न त्वन्यदित्यर्थः ।
प्रतिज्ञातं<sup>७</sup> प्रजापतिवृत्तान्तप्रतिपादकं ब्राह्मणं दर्शयति— प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः स च्छन्दोभिरा- त्मानं समदधाद्यच्छन्दोभिरात्मानं समदधात्तस्मात्संहिता, इति । संवत्सरः प्रजापतिः कालात्मकः परमेश्वरो देवतिर्यङ्मनुष्यरूपाः प्रजाः सृष्ट्वा व्यस्रंसत श्रमेण विस्रस्तावयवोऽभूत् । स पुनश्छन्दोभिर्वेदैरात्मानं सर्वावयवसंघात- रूपं स्वशरीरं समदधात्सम्यग्धारितवान्वेद्दोक्तमन्त्रपाठसामर्थ्येन स्वावयवपाटवं संपा- दितवानित्यर्थः । यस्मादयं छन्दोभिः स्वशरीरं समाहितवांस्तस्मात्समाधानहेतुत्वा- च्छन्दःपाठः संहितेत्युच्यते ।
१ घ. ङ. °वद्भिरलैर° । २ क. ख. पविः पविव्र° । ३ क. ख. °तुं नात्यन्तं प° । ४ घ. ङ. °गेऽनु° । ५ घ. ङ. °ते प° । ६ क. ख. °य चैत° । ७ क. ख. घ. ङ. °ज्ञातप्र° ।
२९