भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 232, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 232

अध्या० २ ख० ६(१२)] ऐतरेयारण्यकम्। २२७

यमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ता-
विति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति ।

तां तां संहितां ध्यातव्यामनुप्राप्य वर्तत इति णकारषकारध्यानमनुसंहितमित्युच्यते । तच्चानुसंहितमनुसंदधानास्ते प्रसिद्धा वयं ह्रस्वदेहा माण्डूकेयनामका उपासका ऋचोऽधीमहे संहितां पठाम इति यदस्ति । किंच माण्डूकेयीयं शूरवीरेण माण्डूकेयेन प्रोक्तं निर्भुजादिध्यानस्य प्राणवंशध्यानस्य च प्रतिपादकं पूर्वोक्तमध्यायं ग्रन्थविशेषं प्रब्रूमः प्रकृष्टध्यानसहितं यथा भवति तथा पठाम इति च यदस्ति तेनोभयेन सर्वसंहिताध्यानेन विशेषतो निर्भुजप्राणवंशध्यानेन च नोऽस्माकं ह्रस्वानां माण्डूकेयानां णकारषकारौ बलप्राणरूपौ वायुषो वा हेतू उपाप्तौ सामीप्येन प्राप्तावित्येवं माण्डूकेयस्य वचनम् ।

तद्वच्छाकल्यवचनमप्युदाहरति—

अथ यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयी-
यमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ता-
विति ह स्माऽऽह स्थविरः शाकल्यः, इति ।

ह्रस्वमाण्डूकेयवाक्यवद्व्याख्येयम् । तदिदं णकारषकारध्यानं सर्वेषु यागेषु स्विष्टकृद्धोम इव सर्वासु संहितोपासनास्वनुसंधेयमिति तात्पर्यार्थः ।

ननु साक्षात्कारपर्यन्तासु सर्वासूपासनासु नैरन्तर्येणोपासनीयत्वान्नित्यनैमित्तिककर्मानुष्ठानलोपे प्रत्यवायः स्यादित्याशङ्क्योपासकव्यतिरिक्तविषयं तत्प्रत्यवायशास्त्रमुपासकस्य तूपासनमेव सर्वकर्मफलप्रापकमित्येतद्दर्शयति—

एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः काव-
षेयाः किमर्था वयमध्येष्यामहे किमर्था
वयं यक्ष्यामहे वाचि हि प्राणं जुहुमः प्राणे
वा वाचं यो ह्येव प्रभवः स एवाप्ययः, इति ।

कवषस्य पुत्राः कावषेया बहवस्तेषां मध्ये केचित्तदेतद्विद्वांसः पूर्वोक्तसंहितास्वरूपमुपासीना अन्ये केचिच्छाखान्तरप्रसिद्धं तदेतत्समगुणं ब्रह्मोपासीना अपरे तु तदेतत्सर्वेवेदान्तप्रसिद्धं ब्रह्मतत्त्वं साक्षात्कृतवन्तस्ते च सर्वे मिलित्वा परस्परमिदमाहुः । वयं सर्वे यथोक्तोपासनेन ब्रह्मज्ञानेन च कृतकृत्याः सन्त इतः परं किं प्रयोजनमुद्दिश्य ब्रह्मयज्ञाध्ययनादिकं वा ज्योतिष्टोमादियागान्वा करिष्यामः । सर्वस्यापि पुरुषार्थस्य


१ ग. वर्तन्त । २ न. ॰रूपौ बलप्राणहेतुत्वादुपा° । ३ घ. ङ. ॰पायु° । ४ ग. ॰सनायां नित्य° । घ. ङ. ॰सनस्य नियतत्वा° । ५ क. ख. ॰रमा° । ६ क. ख. ॰यं च स° ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 232, कुल 304 में से · BharatKosha