ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
२९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
तथा च मनुना स्मर्यते— “श्रावण्यां पौर्णमास्यां च चोपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ” इति ॥ आपस्तम्बोऽप्याह-“श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेदधैपञ्चमांश्चतुरो मासानित्येके ” इति । श्रावणी-पौष्योः पौर्णमास्योर्मध्यकालेऽपि प्रतिदिनं पूर्वाह्ने च शरीरवृक्षादिच्छायासु संभि-न्नासु मिलितासु सतीषु नाधीयीत । प्रातःकाले सूर्योदये सति छायासु पृथक्पृथग-भिव्यक्तासु प्रारभेत । सायंकाले सूर्यास्तमयात्पूर्वं छायासु विविक्तासु सतीष्वेवा-ध्ययनं परित्यजेत् । यदा मेघोऽध्युहूह्ल आधिक्येन प्रसृतः सान्द्रो भवति तदा नाधी-यीत । अपर्तावित्यत्रापशब्दो वर्जनार्थः । स्वकीयमृतुं श्रावणभाद्रपदमासद्वयरूपं वर्ज-यित्वा प्रवृत्तोऽपर्तुः । तादृशे वर्षे प्रवृत्ते सत्यकालवृष्टिं निमित्तीकृत्य त्रिरात्रं वैदि-केनाध्यायेन वेदपाठेनान्तरियात् । तिसृषु रात्रिषु वेदपाठस्यान्तरायः कर्तव्यः । वैदिकेनेति विशेषणादार्षाणां व्याकरणादीनामङ्गानामध्ययनमभ्यनुज्ञायते । अत्र स्मृति-कारा आर्द्रादिज्येष्ठान्तस्य त्रयोदशनक्षत्रपरिमितस्य कालस्य वृष्टिकालत्वमभ्युपेत्य ततोऽन्यत्र वृष्टौ सत्यामकालवृष्टिनिमित्तं त्रिरात्राध्ययनवर्जनमिच्छन्ति । अस्मिन्नधी-यमाने स्वाध्याये कथां [ न ] वदेत लौकिकवार्तां न कुर्यात् । यद्वाऽस्मिन्प्रकृते महाव्रताध्ययनकाले लौकिकवार्तां परित्यजेत् । किंचास्य महाव्रतस्य पाठं रात्रौ न कुर्यात् । किंच महाव्रताभिज्ञोऽहमित्येवं जनमध्ये कीर्तिमपि नेच्छेत् । महाव्रतस्य गोप्यत्वात्तद्विषयाभिज्ञानमपि न प्रकटयेत् । उक्तनियमेनाध्ययने फलमाह—
तदिति वा एतस्य महतो भूतस्य नाम भवति योऽस्यै- तदेवं नाम वेद ब्रह्म भवति ब्रह्म भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १४ )
इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयोऽध्यायः ॥ ३ ॥
इति वै पूर्वोक्तेनैव नियमेनाधीतं तत्कृत्स्नस्वाध्यायवाक्यं महाव्रतवाक्यं वैतस्य प्रकृतस्य कृत्स्नवेदप्रतिपाद्यस्य महतः सर्वगतस्य भूतस्य नित्यसिद्धस्य परमात्मनो नाम भवति । कृत्स्नस्य वेदस्य परमात्मप्रतिपादकत्वात्तन्नामत्वं युक्तम् । तत्प्रतिपाद-
१ ग. ॰थगं ।
अध्या० ३ ख० ३ (१४)] ऐतरेयारण्यकम् । २९५
कत्वं च कठैराम्नायते—“सर्वे वेदा यत्पदमामनन्ति” इति । विदन्त्यनेन परमा- त्मानमिति व्युत्पत्त्या वेदशब्दोऽपि तत्प्रतिपादकमेव ग्रन्थमाचष्टे । अतः कृत्स्नवेदस्य परमात्मनामत्येनात्यन्तरहस्यमन्त्ररूपत्वाद्वहुविधनियमपुरःसरमध्ययनं युक्तम् । यः पुमानेतत्स्वाध्यायवाक्यं सर्वमेवमुक्तेनास्य परमात्मनो नामेति वेद विदित्वा च नियमेनैवाधीते स पुमानधीतवेदमुखेन परमात्मानं विदित्वा स्वस्य ब्रह्मत्वाधारकाज्ञान- निवृत्त्या स ब्रह्म भवति । वाक्याभ्यासस्तृतीयाध्यायसमाप्त्यर्थः पञ्चमारण्यकसमा- प्त्यर्थः कृत्स्नारण्यककाण्डसमाप्त्यर्थश्च ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये पञ्चमारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १४ )
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यककाण्डभाष्ये पञ्चमारण्यके तृतीयोऽध्यायः ॥ ३ ॥
अथ शान्तिः ।
ॐ उदि॑तः शु॒क्रियं॑ दधे । तम॒हमा॒त्मनि॑ दधे । अनु॑ मामै॑त्विन्द्रि॒यम् । मयि॒ श्रीम॑यि॒ यशः॑ । सर्वः॑ सप्राणः॑ सं॑ब॒लः । उत्ति॑ष्ठाम्यनु॒ श्रीः । उत्ति॑ष्ठत्वनु॒ माऽऽय॑न्तु दे॒वताः॑ । अद॑ब्धं॒ चक्षु॒रिषि॑तं॒ मनः॑ । सूर्यो॒ ज्योति॑षां॒ श्रेष्ठो॑ दी॒क्षे मा मा॑ हिꣳसीः । तच्चक्षु॑र्दे॒व हि॑तं शु॒क्रमु॒च्चर॑त् । पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तम् । त्वम॑ग्ने व्र॒तपा अ॑सि दे॒व आ मर्त्ये॑ष्वा । त्वं य॒ज्ञेष्वीड्यः॑ । आव॑- दंस्त्वं श॑कुने भ॒द्रमाव॑द तू॒ष्णीमासी॑नः सु॒मतिं॑ चि॑किद्धि नः । यदु॒त्पत॑न्न्वद॑सि कर्करि॒र्यथा॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।
२९६ [५पञ्चमारण्यकम्]
*शतधा॑रमुत्स॒मक्षी॑यमाणं॒ विप॑श्चितं पि॒तरं॑ वक्त्वा॑नाम् ।
मे॒ळिं मद॑न्तं पि॒त्रोरुपस्थे॒ तं रो॑दसी पिपृ॒तं स॒त्यवा॑चम् ।
वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरा-
वीर्म एधि वेदस्य म आणी स्थ॑ श्रुतं मे मा प्रहासीरनेना-
धीतेन । अहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदि-
ष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु
वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ।
इत्युत्तरशान्तिः ॥
इति बह्वृचब्राह्मणारण्यककाण्डे पञ्चममारण्यकं
समाप्तम् ॥ ५ ॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य वैदिकमार्गप्रवर्तकस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन
विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्ड-
भाष्ये पञ्चममारण्यकं समाप्तम् ॥ ५ ॥
(आदितः समष्ट्यङ्काः—आर० ५ अध्या० १८ ख० ७५ )
समाप्तिमगमदिदं सभाष्यमैतरेयारण्यककाण्डम् ।
* इयमृक्कचित्पुस्तकेऽत्र नास्ति, सा च वाङ्मे इत्यादिमन्त्रादनन्तरं लिखिताऽस्ति ।
The provided image is completely blank and contains no text to transcribe.
The provided image is completely blank and contains no text to transcribe.
The provided image is completely blank and contains no text to transcribe.