श्रीमदानन्द रामायण (९ काण्ड संपूर्ण - हिन्दी अनुवाद सहित)
Srimad Ananda Ramayana Hindi
महर्षि वाल्मीकि / अज्ञात द्वारा
स्रोत: Srimad Ananda Ramayana Complete 9 Kandas with Hindi Translation (उद्गम)
पृष्ठ 685, कुल 811 में से
संदर्भ में पढ़ेंसर्गः ९ ] मनोहरकाण्डम् ६६९
एवं दत्त्वा चैत्रमासे नवम्यां भूसुराय हि । दानं देयं प्रयत्नेन रामसंतुष्टिहेतवे ॥१३१॥
अन्यद्विशेषं वक्ष्यामि चैत्रे मासि शृणुष्व तत् । चैत्रस्य शुक्लपक्षेऽथ दोलकर्म शृणूत्तमम् ॥१३२॥
पूजयेन्मारुतीं भक्त्या आम्रवृक्षतले स्थितम् । चैत्रमप्युभयशुक्लपामपेकादश्यां तु वैष्णवैः ॥१३३॥
आंदोलनीयो देवेशः सलक्ष्मीको महोत्सवैः । द्वाभ्यां चैत्रमासस्य शुक्लाभ्यां दमनोत्सवः ॥१३४॥
बोधायनादिभि प्रोक्तः कर्तव्यः प्रतिवत्सरम् ।
ऊर्जे व्रतं मधौ दोला श्रावणे तंतुसूत्रकम्, चैत्रे च दमनाख्यमङ्कुरार्पणं विवर्जयेत् ॥१३५॥
वह्निविरिंचो गिरिजा गणेशाः फणी विशाखो दिनकृन्महेशः ।
दुर्गाऽन्तको विधहरिः स्मरश्च शर्वः शशी वै तिथिषु प्रपूज्याः ॥१३६॥
अथ चैत्रपौर्णिमायां भक्त्या रामं प्रपूजयेत्