अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1079, कुल 2600 में से
संदर्भ में पढ़ें९१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० ६ सू० १८ ऽव्याख्यानम् । न हि नाडीर्ज्ञापयितुं व्याख्याति, किं तु प्रतिज्ञातं ब्रह्म । कथमे- तदवगम्यते, नाडीव्यतिरिक्त आत्मा ज्ञाप्यत इति तन्नाह एवमेके । एके शाखिनो वाजसनेयिनः । तत्रापि दृप्तबालाकिब्राह्मणे, 'स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञान- मादाय, य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इत्यत्र आकाशशब्दं ब्रह्म सता सोम्य तदा संपन्नो भवतीति च । स्वं ह्यपीतो भवतीति च । तस्मादाधार- भूतब्रह्मज्ञापनायैत्वाज्जीवमुख्यप्राणलिङ्गात् प्रकृतिवाद इत्यसंगतम् ॥ १८ ॥ इति प्रथमाध्यायचतुर्थपादे षष्ठं त्रिसूत्रं जगद्वाचित्वाधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । उपक्रमेत्यादि । फलमिति उपसंहारे निर्दिष्टं फलम् । जीवस्य ज्ञातत्वादिति । एष इति पदेन बालाकिज्ञातपदार्थस्यैव निर्देशाद् तथेत्यर्थः । शेषं स्फुटम् ॥ १८ ॥ इति षष्ठमधिकरणम् ॥ ६ ॥ रश्मिः । मंजत्वादन्यथेत्यर्थे प्रयुज्यते तत्र किं चेत्यनुक्त्वा एतत्रयोगः सूचयति सूत्रान्वयान्तरम् । प्रश्न- व्याख्यानाभ्यामप्येवमेवैके शाखिनश्चेति तदाहुरपि चेत्यनेनेति हेतुमिति । उपक्रमोपसंहाररूपम् । तमुभयार्थकेनापि नायं हेतुः समुचित इति भावः । उपसंहार इति सर्वान्पाप्मनोपहतेत्यादिनोक्त- स्तस्मिन् । भाष्ये । अमुष्ये साक्षात्प्राणाश्रये जीवेऽङ्गीकृते सति संभवत्यपि तु परंपराश्रये ब्रह्मण्यङ्गीकृते सति संभवति । सूचितार्थं व्याख्याय भाष्यार्थं वक्तुमाहुः अपि चेति । अन्यथेत्यर्थक- मव्ययम् । मनोरमायां खरादेराकृतिगणत्वात् । केलन्न किंमः सप्तम्यन्तात् किमोडिति अत्रत्यत्या- दधिकरणसप्तम्या अधिकरणविषयकः प्रश्नः इत्याहुः तत्रेति । प्रकृते । बालाकिज्ञातेति ज्ञातवन् शास्त्रदृष्ट्या प्रत्यक्षं वा । अधिकरणं न ज्ञानमिति जीवाधिकरणं किमिति प्रश्नः । शेषमिति उत्तरल पदधर्मप्रकारकव्यद्विषयी प्रश्नः तद्धर्मावच्छिन्नत्वतदुद्देश्यकं तल्लक्षणादिनिरूपणमिति व्युत्पत्त्या को यतः कम्बुग्रीवादिमान् घट इत्यत्र दर्शनेन तादृशत्वाच्छ्रुत्यन्तरसिद्धमाकाशशब्दोपरयतीत्याहुः यत्रैष इति यत्रेत्यसाकाङ्क्षशब्दब्रह्मणि इत्यर्थः । ननु श्रुत्यन्तरे पुरीतति शेते इति यत्रेत्यस्य पुरीतति इत्यर्थः । कुतो नेति चेत्तत्राहुः नहीति । आकाशेति आकाशः शब्दो यस्य प्रतिपादकस्तदाकाशशब्दं ब्रह्म । यत्रैष जीवः सुप्तोभूत् एतज्जगत्सुप्तोभूत् । स्वयं विवृणोति य एष इति विज्ञानमयो जीवः प्राणाना- मिन्द्रियाणां विज्ञानं प्रकाशनसामर्थ्यम् । करणे ल्युटा स्वविज्ञानेन प्रत्यग्रप्रणास्यामङ्गीकृतेनादाय गृहीत्वा हृदय इत्याकाशविशेषणम् । सप्तम्यन्तं न हृदयग्रहणोक्तमब्रह्महृदयमिति नपुंसक- शब्दात् । अत उक्तमाकाशशब्दं ब्रह्मेति । अन्यच्च सतेति सता ग्रहणा तदा सुषुप्तौ । खमिति समासमानमपि इतः प्राप्तो भवति । सिद्धमाहुः तस्मादिति जीवसुप्तेरत्र स्वप्तोपे पञ्चमी आधारभूतब्रह्मज्ञापनाथेत्वात् जीवमुख्यप्राणलिङ्गाभाव पूर्वसूत्रोक्तरीत्या प्रकृतिवाद इत्यसंगत- मित्यर्थः । संगतिस्तु निर्वाहकभूपा प्रत्यधिकरणम् ॥ १८ ॥ इति षष्ठाधिकरणम् ॥ ६ ॥ 982