अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1116, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । [१६७]
भाष्यप्रकाशः ।
एवं सति गौरनाद्यन्तवतीत्यादौ, 'प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि' इत्यादौ च यदनादित्वा- दिकथनं, तच्चतुर्मुखाऽजत्रिदशाऽमरन्यायेन जगत्साधारणोत्पत्तिनाशनिषेधपरमित्येव मन्तव्यम् । 'तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभवद् बृहत् ॥ तयोरेकतरो ह्यर्थः प्रकृतिः सोमयात्मिका । ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते' ॥ इत्यादिपुराणवाक्येभ्यश्च । तेन, यस्तन्तुनाम इति वाक्यमपि प्रधानोत्पत्त्यनन्तरकाल- दृष्टान्तबोधकमेवेत्येव निश्चयः । एषैव परमाण्वादिकारणवादानामपि गतिर्बोद्ध्या । कालः स्वभाव इतिश्रुत्यैव तेषामनादरणीयत्वस्योक्तत्वादिति । तस्मात् केवलस्यैव ब्रह्मणः समवायित्वमिति निश्चयः । एवं सत्येकविज्ञानेन यत् सर्वं विज्ञातं तन्न योगजधर्मादिना, न वा अविनाभाव-
रश्मिः ।
सांकर्यप्रसङ्ग इति भेद आश्रित कार्यात्मना इत्येव । एवं च न त्रैलोक्यसांकर्यप्रसङ्गः इति मतम् । तत्र विक्षिप्तगुणः प्रकृतिः परिणामः । विक्षिप्तगुणा प्रकृतिरित्यादिपदानां विक्षिप्तगुणप्रधानं तस्य स्थितिः द्वितीयादिशब्दार्थभूतमुपाधिदृष्टान्तो जलचन्द्रेषु जलं तद्वत् । एवं चेति गौः प्रकृतिः । अनादित्वादीति । आदिशब्देनान्तर्विकृतत्वं च 'विकारांश्च गुणांश्चापि विद्धि प्रकृतिसंभवान्' इत्युत्तरार्धात् । चतुर्मुखे चतुर्मुखश्चासावजश्च त्रिदशाश्च तेऽमराश्चेत्यनेन न्यायेन । अत्र अजशब्देनोत्पत्तिनिषेधो जगत्साधारणः परब्रह्मणस्तूत्पत्तिरस्त्येव नारायणाद् ब्रह्माऽजायत इति श्रुतेश्च । अमरशब्देन नाशनेषेधः सोपि जगत्साधारणः त्रिदशानां प्रलये नाशात् । यथा पश्चाच्छायी प्रथमप्रबोधी तं प्रति लोको वक्ति न स्वपितीति तद्वत् । मन्तव्यमिति शंकररामानुजभास्करादि- मतानुसारिभिर्मन्तव्यं कुत इत्यतो हेतुमाहुः तन्मायेति । मायाफलं प्रतिबिम्बादि शंकरभास्करमतयोः । मायाचित् फलं चित् ताभ्यां रूप्यते व्यवह्रियत इति इति रामानुजाचार्यमतोर्थकः । शैवमतेपि चकारादुक्तवाक्यानि । तेनेति उपाधिचिदचित्तां विवक्षणेन । एषैवेति सांख्यमतस्य कारण- त्वांशेऽवैदिकत्वप्रतिपादनेन समीपतरवर्तिनि कारणत्वांशेऽवैदिकत्वादिरूपा सा सामान्यतोग्रेधिकरणे विशेषतो द्वितीयाध्याये सदा । परमाण्वादयः कारणानि तेषां वादानामित्यत्र परमाणवः आदये येषां कालादीनामित्यतद्गुणसंविज्ञानोपीत्याशयेनाहुः काल इति । इयं श्वेताश्वतरेस्ति । तद्गुणसंवि- ज्ञानपक्षे परमाण्वादय उपलक्षणविधया ज्ञेयाः 'कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः' ॥ इति । सिद्धमाहुस्तस्मादिति प्रकृतेः स्वरूपत्वेनोपाध्याभावात् । सिद्धान्ते तु प्रकृतिं पुरुषं चेति स्मृतादित्थम् । श्लोकानन्तरम् 'कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते' ॥ इत्यादिकं द्वितीयस्कन्धनवमाध्यायोक्तरीत्योपपाद्य तन्मायाफलरूपेणेत्यादिसांख्यमतेन वेदान्ते इति च न तदर्थं उच्यते । न योगजेत्यादि नैयायिकादिमते भेदवादे ऽविनाभाव...