अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1117, कुल 2600 में से
संदर्भ में पढ़ें१६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० ८ सू० २३ कार्यकारणयोर्भेदाभेदमतनिराकरणाय पिण्डमणिनखनिकृन्तनग्रहणम् । तथा सति यत्र कचिद् भगवान् ज्ञातः सर्वत्र ज्ञातो भवति । सर्वं च ज्ञातं भवति भाष्यप्रकाशः। महिम्ना, नाप्यविभागादिमहिम्ना श्रुत्यभिप्रतं, किंतु दृष्टेनैव द्वारेणेति सिद्धम् । अतः परं दृष्टान्ते पिण्डादिपदग्रहणस्य प्रयोजनं विचारयन्ति कार्यकारणयोरित्यादि । कार्यकारणयोरभेदे त्रैलोक्यव्यवहारः संकीर्येत । अत्यन्तभेदे चैकविज्ञानेन सर्वविज्ञानं बाध्यत । अतस्तयोर्भेदा- भेद एवास्थेयः । दृश्यते च तथा । तन्तव एव ज्ञातता वितताश्च सन्तो लोके पटत्वेन व्यव- ह्रियन्ते, प्राव्रियन्ते, पटत्वजातिं च बिभ्रति । एवं च प्रतिज्ञादृष्टान्तयोरुभयोरप्युपपत्तिरिति मतनिराकरणाय पिण्डादित्रयग्रहणम् । यदि हि भेदाभेद आद्रियेत, तदा येन रूपेण भेदस्त- द्रूपं कारणज्ञानेन न ज्ञातं भवेत् । ततो भिन्नत्वात् । अथ ज्ञायते तर्हि न तद्रूपं भिन्नमित्यभेद एवास्थेयः, कृतं भेदेन । न च सर्वथा अभेदे व्यवहारसांकर्यप्रसङ्गः । अवस्थाभेदादेव तन्निष्टत्तेः । अतः कृपाचिद्वलस्यावस्थितं कारणमेव कार्यं न तु ततो भिन्नाभिन्नमिति बोधनायावस्था- रूपाणां पिण्डादीनां ग्रहणमित्यर्थः । एवमङ्गीकारे गुणमाहुः तथा सतीत्यादि । कार्यस्यैव- रश्मिः। सामान्यलक्षणा चालौकिक्यः प्रत्यासत्तयः उपाधिवादिनामविनाभावोपि पूर्वं व्याख्यातः । विशिष्टा- द्वैतवादिनामविभागादिः । भिक्षुमतेपि । दृष्टेनैवेति शास्त्रदृष्टेन मनसा मक्तिसहकारिकारणकेन भक्तिरेव वा मनःकल्पनरूपा । तथा च बृहदारण्यके मनसैवानुद्रष्टव्यो नेह नानास्ति किंचन । गोपालिकापनीये भक्ती रहस्यमजनं तदिहामुत्रफलभोगनैराश्येनामुष्मिन् मनःकल्पनमेतदेव च नै- ष्कर्म्यमिति । यद्वा दृष्टेन समवाय्येकदेशमृत्पिण्डादिप्रत्यक्षेण द्वारेण । भेदाभेद इति । न भेदाभेदा- वित्युक्तम् । अत्यन्तभेदस्य प्रतीयमानस्याविवक्षणात् ततः 'समर्थः पदविधिः' इत्यस्याप्राप्तिः । अतः भेदयुक्तोऽभेद इति समासः स त्वत्यन्तभेदे बाधितः । अत्यन्तभिन्नघटनिष्ठभेदेन युक्तो घटप्रतियोगिक- भेदाभावो नास्तीति । अतस्त्रैलोक्यव्यवहारसांकर्यनिवृत्तिमात्रप्रयोजकः सुवर्णं कटकं नेत्यादिरूप- भेदस्तेन युक्तोऽभेदः कटकं सुवर्णमित्यादिरूपस्तद्वत्त्वाच्छक्यपदैः समासस्स्नेहेः । ननु द्वन्द्वनियामकोऽवास्त्ववे भेद इति मुक्तावल्यां विश्वनाथ इति चेन्न भास्कराचार्यमतेऽस्य वास्तवत्वात् । अन्यथाकविज्ञानेन सर्वविज्ञानबाधापत्तेः । जयरामकृतसमासवादे च समासत्वं विभक्तिशून्यपूर्वपदकनामसमुदायत्वम् । अत्र विभक्तिशून्यपूर्वपदकत्वं विभक्तिशून्यपदघटितशाब्दबोधप्रयोजकानुपूर्वीमत्त्वम् । शाब्दबोधे तु ल्लन्तमदस्राभावाद्भेदाभेदाविति द्वन्द्वे कृतेऽप्यासिरतो भेदयुक्तोऽभेद इति समासान्तरं युक्तम् । देवपूजको ब्राह्मणो देवब्राह्मण इतिवत् । भेदसामेदो भेदाभेद इति वा सहिष्णुत्वं षष्ठ्यर्थः । भेदसहिष्णुरभेदो भेदाभेद इत्यर्थः । प्रतिज्ञादृष्टान्तयोरिति आत्मा कर्ता प्रधानं समवायि तां शक्ति विक्षिपत्ति यथा सूर्यो रश्मीनां विक्षेपं करोति तद्वदेव संहरति अत एव प्रतिज्ञा 'उत तमादेशम्' इत्यादिः दृष्टान्तो मृत्पिण्डादिस्तयोरित्यर्थः । उपपत्तिरिति अभेदे प्रतिज्ञोपपत्तिः कार्यकारणयोः सूर्यरश्म्यादिरूपयोर्भेदे पिण्डादिदृष्टान्तोपपत्तिः । अवस्थेति धर्मरूपेणाविर्भवतीति द्वितीय नवमाध्याये इति साऽवस्था तेन भेदाभेदवादे भेदाभेदोप्यनया दिशा समर्थनीय इति सूचितम् । न त्वन्तर्यामि- षात्मकोक्तपृथिव्यादिशरीरज्ञानेन किं तु तदेकदेशपिण्डादिज्ञानेन सर्वविज्ञानमिति । यद्वा भेदाभेद- 1020