अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1134, कुल 2600 में से
संदर्भ में पढ़ेंइति नारदीयवाक्यं च तदुपष्टम्भायोदाहरन्ति । तच्चिन्त्यम् । श्रुतेरप्रसिद्धत्वात् । तादृश्या अपि कथंचित् प्रामाण्योपगमेऽप्यस्या आत्मनो बहुधाकरणबोधकतयाऽऽत्मकृतिबोधकत्वाभा- वेन विषयतयोपन्यासायोगाच्च । हन्त तमित्यारभ्य विश्वरूप इत्यन्तासु खोपन्यस्तासु श्रुतिषु सर्वशब्दवाच्यत्वस्य सर्वरूपत्वस्य च छत एव बोधनेन तासां पूर्वकालीनव्यवस्थाबोधकतया, माहवेयश्रुतौ चाथशब्देन पाश्चात्यबोधकतयाः स्फुटं मानेन कालभेदकृतविषयभेदस्य स्फुटत- यैतदनुरोधेन तदर्थनिर्णयस्याप्ययुक्तत्वाच्च । ध्यायतीति ब्रह्माण्डवाक्ये ऐश्वर्ययोगेन विरुद्धार्थतया सर्वरूपत्वादेरिष्टतया उक्ततया सर्वानुपपत्तिपरिहारसंभवे प्रकृतिशब्दयोगादरेण रूढ्युपष्टम्भस्य व्यर्थत्वाच्च । यत्तु जयतीर्थः-ब्रह्मणो जगदुपादानत्वे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मृत्पिण्डादि- दृष्टान्तोक्तेश्च न प्रमाणत्वम् । तस्या अन्यार्थत्वस्य सूत्रव्याख्याने सम्यग्व्याख्यातत्वादित्याह । किंर्वां कर्तरि । श्रुतेरिति माहवेयश्रुतेः समाकर्षादित्यधिकरणे विचारितत्वाच्च । आत्मनो बहुधेति आत्मानं बहुधा चकारेति श्रुतौ विषयभूतायाम् । अत्र कर्ताप्यात्माऽत आत्मनः स्वस्याः प्रकृतेः कृतिः आत्मकृतिसूत्रोक्ता तस्या विषयवाक्ये बोधकत्वाभावेन । विषयतयेति अनेनास्मिन्नधिकरणे 'सोऽकामयत बहु स्यां प्रजायेय इति स तपोऽतप्यत स तपस्तप्त्वा इदं सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत् यदिदं किंच तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानं स्वयमकुरुत तस्मात्तत्सुकृतमुच्यते' इति विषयवाक्यम् । संशयस्तु परिणामः भवति न वेति श्रुतिः अद्वैतस्थापकत्वविशिष्टा चेयमेवेति संशयबीजं नेति पूर्वपक्षः प्रकृतिप्रवेशे सगुणत्वापत्तिः न यत्र मायेति निषेधाच्चेति प्राप्ते सिद्धान्तः । प्रकृतिश्चेति प्रकृतिः स्वरूपमिति न सगुणत्वापत्तिः 'योगमायामुपाश्रितः' इति न मायाविरोधः माये- न्द्रियाणि वा सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितमिति ब्रह्मप्रकरणे गीता । यतः इति खमतेऽधि- करणरचना द्योतिता । उपन्यासायोगादिति । ननु सत्यमात्मकृतिबोधकत्वाभावः परं त्वपरो हेतुर्भवति तस्मात्तत्कृतिरित्युच्यते इत्यत्रात्मा प्रकृतिरित्यभिधानात् । तथाच प्रकृतिश्चेति सूत्रमाभ्यां माध्यानां प्रकृतिशब्दवाच्योपि स एवेति तथाच कुतो ह्युपन्यासायोग इति चेन्न तयाप्युपन्यासा- योगात् । प्रकृतिशब्दवाच्यत्वस्याप्युक्ताधिकरणेनैव लाभात् खार्थाल्पभावान्नस्त्रात्रापि सत्त्वात् । विषयवाक्य एव नामरूपविश्रात्मकत्वश्रावणे समवायित्वं भाष्य एव आश्वितं भवति इत्याशयेनाहुः सततमित्यारभ्येति । खोपन्यस्तास्विति साक्षात्सूत्रमभिव्याप्योपन्यस्तासु । पूर्वकालीनेति प्रकृतिप्रवेशपूर्वकालीनेत्यर्थः । पाश्चात्येति आनन्तर्यवाचकत्वमथेत्यस्येति भावः । कालभेदेति प्रकृतिप्रवेशात्पूर्वकाल उत्तरकालश्च । एतदन्विति माहवेयश्रुत्यनुरोधेन । तदर्थेति प्रकृति- प्रवेशोत्तरकालीनप्रकृतिशब्दवाच्यस्वरूपो यः प्रकृतिश्चेत्यादित्रिसूत्रीविषयवाक्यार्थस्तस्य निर्णयस् । अयुक्तत्वेति तत्रा चास्मदीयोर्थः स्फुट इति स युक्त इति भावः । अतः समवायित्वनिरूपणम् । एवं प्रथमसूत्रविषय उक्त्वा अभिध्यासूत्र आहुः ध्यायतीति । विरुद्धेति ध्यानाभावस्येपि ध्याने रूपत्वरूपविरुद्धार्थतया सर्वानुपपत्तिः सर्वशब्दवाच्यत्वानुपपत्तिः । रूढ्युपेति इच्छायां रूढिः