अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1135, कुल 2600 में से
संदर्भ में पढ़ें९८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० ८ सू० २७ भाष्यप्रकाशः । तदपि श्रद्धाजाड्यमात्रम् । सूत्रव्याख्यानसैवासंगततायाः प्रदर्शितत्वादिति । यदपि ब्रह्मणः परिणामोक्तिरसंगतैव । एतदध्यायस्याशेषशास्त्रस्य ब्रह्मणि समन्वयप्रतिपादनाय प्रवृत्तत्वादित्याह । तदप्यसंगतम् । अशेषशास्त्रमध्ये, 'स आत्मानं स्वयमकुरुत,' 'खल्विदं, ब्रह्म, तज्जलान् इति', 'स आत्मानमेव द्वेधापातयत्, ततः पतिश्च पत्नी चाभवताम्,' 'हन्ताहं मदेव मन्मात्रं सर्वं यस्मिन्नाकाश ओतश्च' इत्यादिश्रुतीनां, 'विश्वं वै ब्रह्मतन्मात्रम्- 'नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे, । ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः' ॥ 'त्वय्यग्र आसीत्' इत्यादिस्मृतीनां च प्रविष्टत्वात् तासां समन्वयस्यावश्यं प्रतिपाद्यत्वा