अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1136, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १८७ एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥ (१।४।९) ब्रह्मवादव्यतिरिक्ताः सर्वे वादा अवैदिका वेदविरुद्धाश्चेत्याह । एतेन ब्रह्मवादस्थापनपूर्वकसांख्यमतनिराकरणेन सर्वे पातञ्जलादिवादा व्याख्याताः । अवैदिका अनुपयुक्ताश्च । वैदिकानां हि वेदः प्रमाणम् । तस्मिन्नव्याकुले भ्रान्तिप्रतिपन्ना एव सर्वे वादा इति । एतत् सौकर्यार्थं विस्तरेणाग्रे वक्ष्यते । आवृत्तिरध्यायसमाप्तिबोधिका ॥ २८ ॥ इति प्रथमाध्यायचतुर्थपादे नवममेकसूत्रं व्याख्यानाधिकरणम् ॥ ९ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये प्रथमाध्यायस्य चतुर्थः पादः ॥ १ ॥ ४ ॥ ॥ प्रथमोऽध्यायः समाप्तः ॥ भाष्यप्रकाशः । एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥ सूत्रमवतारयन्ति ब्रह्मवादेत्यादि । एतेन सांख्यमतस्याश्र