अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1449, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४३ भाष्यप्रकाशः। बन्धेनेति देहसंबन्धेन । एवमेव वेदेऽपि समानन्यायाद् बोध्यम् । एवं च चराचरव्यपा- श्रयस्तु स्यादिति भिन्नं वाक्यं, शिष्टं वाक्यान्तरम् । भास्कराचार्यास्तु चरे अचर उद्गत इति गौणत्वसिद्धिरित्यर्थं वदन्तश्चरे अचरस्य व्यपाश्रय इत्येवं समासं कृत्वा, अन्ये तु, चराचरं व्यपाश्रयो यस्येति बहुव्रीहिं कृत्वा चरा- चरव्यपाश्रयपदं उत्पत्तिनाशव्यपदेशस्य भाक्तत्वे हेतुत्वेन व्याकुर्वन्ति । तद्भावभावित्वा- दिति तु शरीरसद्भावे जन्ममरणयोर्भावित्वादित्येवं ताच्छील्ये णिनिमङ्गीकृत्य व्याकुर्वन्ति, तथा सति तद्भावभावित्वाच्चराचरव्यपाश्रयस्तद्व्यपदेशो भाक्तः स्यादित्येकमेव वाक्यं भवति । तन्न सूत्रकृतोऽभिप्रेतमिति प्रतिभाति । स्यात्पदस्य मध्ये पाठात्, अभिमानेन वा समागमेन वा जीवशरीरयोः संबन्धस्य सर्वेषामनावश्यकत्वाच्च वाक्यद्वयपक्ष एव साधीयानिति । रश्मिः। व्याप्तीति । यत्सत्त्वे यत्सत्त्वमन्वयः । यदभावे यदभावो व्यतिरेकः । किंच । शरीरस्यान्वयः सम- वायी रेतआदिः । व्यतिरेको निमित्तम्, देहकारणव्यतिरिक्तं वा परमाण्वादि, ताभ्यामेव जीवस्य तद्भावित्वं देहाभिमानित्वं देहाध्यास इति भाष्यार्थः । 'चरमः सद्विशेषाणामनेकः संयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥' इति वाक्यात् । अर्थस्तु उभयथापि न कर्मातस्तदभाव इति सूत्र उक्तः । समानेति समानन्यायादिति । समानन्यायाभावेऽतिदेशाधिकरणानवतारान्मीमांसायाम स प्रसिद्धिः । नादात्मना सकलदेहेषु वेदस्य नित्यस्य विद्यमानत्वाज्जीवसमानन्यायोऽवतरति तस्मादित्यर्थः । एवं चेति । स्यादित्यन्ते पूर्वपक्षे च भिन्नं वाक्यमिति । स्यादिति तिङसाहित्यादिति भावः । एकतिङ्वाक्यमिति लक्षणात् । एकवाक्यतापक्षे त्वग्रे दूषयिष्यन्ति । एकवाक्यतया व्याख्यातृनन्यथा पर्यनुयुञ्जते स्म भास्करेति । चर इत्यादि चरे जीवेऽचरो जड उद्गतो जातः । इत्यर्थमिति चरा- चरव्यपाश्रय इति सूत्रांशार्थं वदन्त इत्यर्थः । अन्ये त्विति शांकराः । यस्येति उत्पत्तिनाश- व्यपदेशस्य । हेतुत्वेनेति भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः । किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इत्यत उच्यते । चराचरव्यपाश्रयो जातो देवदत्तो मृतो देवदत्त इत्यत्र लोके स्थावर- जङ्गमशरीरविषयौ जन्ममरणशब्दौ । स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्त- द्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते इत्येवं भाक्तत्वे लक्षणायां हेतुः । शक्तं पदम्, तत्त्वं च शक्यार्थस्तेन व्याकुर्वन्तीत्यर्थः । भावित्वादिति भवतस्तच्छीले भाविनौ, तयोर्भावो भावित्वं तस्मात् । तद्भावेति । शरीरान्वयव्यतिरेकाच्चराचरव्यपाश्रयो जन्ममरणधर्म- व्यपदेशोतः शक्यार्थलाभात्तस्य धर्मस्य व्यपदेशो जीवे भाक्तः स्यादित्यर्थः । मध्य इति । तथा च स्वारसिकान्वयाभावो दूरान्वयश्च दोषौ स्यातामिति भावः । अतो नाभिप्रेतम् । अभीति देहे समागमज्ञानतिरोभावकेन । समेति । मुक्तदेहे प्रकटत्वादुभयत्र भेदेनोक्तिः । संबन्धस्येति अभिमानरूपस्य, अध्यासस्येति यावत् । आवश्यकेति देवदत्तो जातो मृतश्चेत्यादावावश्यकत्वात् । यतश्चरवाचकपदस्य शरीरे संबन्ध एव तद्धर्मयोर्जन्ममरणयोर्जीवे व्यपदेशः स च भाक्तः । यथा गङ्गापदार्थसंबन्धादेवं गङ्गापदस्य तीरे प्रयोगः । तदर्थधर्मस्य शैत्यपावनत्वादेर्व्यपदेशो भाक्तश्च भवति । एवेति । पूर्वपक्षपोषकसूत्रे संभावनार्थकलिङन्तधातुप्रयोगानावश्यकत्वात् । सिद्धान्त- 1339