अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1574, कुल 2600 में से
संदर्भ में पढ़ें१६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० ४ अ० २ सू० ६ भाष्यप्रकाशः। स्वफलेनात्मसत्ताज्ञापकत्वं वेति लक्षणस्य संभवात् । यद्वा इन्द्रियत्वमनिन्द्रियत्वं चेत्युभयमप्यस्तु । नच भावाभावविरोधः । अनिन्द्रियत्वस्य अविद्यावद्धर्मान्तरत्वेनाप्युपगन्तुं शक्यत्वात् । यमे देवत्वपितृत्वयोरिव मनसि क्रियाज्ञानमयत्वयोरिवैतयोरप्युभयोर्निवेशे बाधकाभावात् । विशेष- रश्मिः। शृणोतीत्येवं प्रतीयते' इति । इदं लक्षणं देहेऽतिव्याप्तम् । स्वं देहः तस्य फलं भवाय नाशाय च कर्मकरणं तेनोपाध्यवच्छिन्न आत्मास्तीत्यात्मसत्तां ज्ञापयति सः । अतोप्युक्तम् । तथात्वे सतीति विशेषणम् । देहस्थत्वं प्राणादावतिव्याप्तमतो विशेष्यम् । अथापि देहस्थत्वे परमात्मनः सत्त्वे कारणत्वे च सत्यप्यकरणत्वान्न तत्रातिव्याप्तिः । प्रस्थानरत्नाकरे व्यापारवदसाधारण- कारणस्य करणत्वात् । आविर्भावकशक्त्याधारस्य च कारणत्वात् । अनन्यथासिद्धत्वे सति कार्य- नियतपूर्ववर्ति कारणमिति लक्षणस्यान्योन्याश्रयग्रस्तत्वम् । पूर्ववर्तित्वस्य कार्यापेक्षत्वात् कार्यस्य च नियतपश्चाद्भावित्वात् । बाह्यात्मान्तरात्मपरमात्मलक्षणान्यात्मोपनिषदि विद्यन्ते । ननु लक्षणद्वयस्य किं प्रयोजनमिति चेन्न । एकस्य सर्वसिद्धान्तन्तर्गतत्वाद्वितीयस्य शास्त्रार्थवत्त्वात् । 'सर्वसिद्धान्त- गुम्फिता' इति तृतीयस्कन्धसुबोधिन्यन्ते तृतीयस्कन्धविवृतिविशेषणात् । 'भक्तेषु शास्त्रहृदयेषु निवेदयामि शास्त्रार्थतो यदि हरिर्भवतामभीष्टः' इति द्वितीयस्कन्धान्ते कारिकायाः । ज्ञान- क्रियेत्यादिलक्षणद्वयं तु 'तत्त्वानि दशापि भिन्नानीति नैकं लक्षणं निर्दिष्टम्' इति तत्रैव सुबोधिनी- प्राप्तस्वरसम् । इदानीमेकादशैवेन्द्रियाणीति भाष्यमिन्द्रियत्वांऽशपरं वाक्येषु द्वैविध्यात्तथैव स्व- प्रस्थानरत्नाकरे प्रत्यपादि ह्यत आहुः यद्वेति । अविद्यावदित्यादि । यथाऽविद्याऽज्ञानं न ज्ञानाभावः, किंतु ज्ञानविरुद्धा संपत्तद्वदनिन्द्रियत्वस्येन्द्रियविरुद्धसंपद्भावरूपत्वेनोपगन्तुं शक्य- त्वादित्यर्थः । यम इत्यादि श्रीभागवते । क्रियेत्यादि । ज्ञानकर्मेन्द्रियनियामकत्वात् क्रिया- ज्ञानमयत्वे मनसो बोध्ये । 'उभयं मनः' इति भगवद्वाक्यात् । विशेषेत्यादि । प्रमेयप्रकरणे तैजसाहंकारोपादेयत्वे सति ज्ञानक्रियान्यतरकारणमिन्द्रियमिति गौणलक्षणमुक्त्वा देहसंयुक्तत्वे सति स्वफलेनात्मज्ञापकत्वं मुख्यं लक्षणमुक्तम् । साक्षात्त्वाच्चरणेपि सत्त्वात् । तत्र तैजसाहंकारोपादे- यत्वाभेदेन पूर्वलक्षणस्य गौणत्वात् । मीमांसकास्तु यत्सं प्रयुक्तेर्थे विशदवभासं ज्ञानं जनयति तदिन्द्रियमिति । संप्रयुक्ते संयोगादिसंबन्धेन संबन्धिन्यर्थे विशत् । तैजसवेशः प्रवेशः प्रसिद्धः । तद्वत्तदिन्द्रियस्येत्येवमन्यत्रोन्नेयम् । नैयायिकास्तु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञान- कारणमनःसंयोगाश्रयत्वमिन्द्रियत्वमाहुः । तदनन्तरविशेषलक्षणानि । तत्र व्यवहारजनकमिन्द्रियं वह्निदेवताकमिन्द्रियं वा वाक् । शिल्पजनकमिन्द्रियमिन्द्रदेवताकमिन्द्रियं वा दोः । आनन्दजनक- मिन्द्रियं प्रजापतिदेवताकमिन्द्रियं वा मेढ्रम् । गतिजनकमिन्द्रियं विष्णुदेवताकमिन्द्रियं वाङ्घ्रिः । विसर्गजनकमिन्द्रियं मित्रदेवताकमिन्द्रियं वा पायुः । गोलकान्येषां प्रसिद्धानि । एतावान्वरं विशेषः । दोरादिचतुष्कमन्यदेवतावच्छेदेनापि कार्यं जनयति । अन्यथा मल्लविद्याकुशलानां खञ्जानां च हस्ताभ्यां चलनम् । विषयेन्द्रियसंयोगाच्छूरादिष्वानन्दः । पद्धयां तालादिवादनम् । नेत्राभ्यामश्रु शरीरे च स्वेदरोमहर्षादयो न स्युः । वागिन्द्रियं तु न तथेति । ज्ञानेन्द्रियलक्षणानि कर्मेन्द्रियेभ्यः पश्चात् । तत्र नभोगुणविशेषत्वेन शब्दग्राहकमिन्द्रियं वा दिग्देवताकमिन्द्रियं वा श्रोत्रम् । वायुविशेषगुणविशेषत्वेन स्पर्शग्राहकमिन्द्रियं वायुदेवताकं वा त्वक्, एवमग्रेपि । पार्थिवेषु 1464