सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1698, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1698

सुकृतदुष्कृते एव विहितनिषिद्धकर्मणी अनुशय इति बादरिराचार्यो मन्यते । तेन मोक्षपर्यन्तमनुशयोऽनुवर्तिष्यत इति सूत्रफलम् । तुशब्देन निरनु- शयपक्षशङ्कैव नास्तीत्युक्तम् । एवं द्वितीयाहुतिर्निर्धारिता ॥ ११ ॥ इति तृतीयाध्याये प्रथमपादे द्वितीयमनुशयाधिकरणम् ॥ २ ॥

भाष्यप्रकाशः । अपि कर्मसम्बन्ध इत्याकारकमन्तसंयोगपक्षं बादरेरेकदेशित्वज्ञापनायाहेत्यर्थः । एकदेशित्वं त्वनुशयमात्राङ्गीकाराज्ज्ञेयम् । सूत्रं व्याकुर्वन्ति सुकृतेत्यादि । अमुक्तफले ते इत्यर्थः । शेषोऽर्थस्तु निगदव्याख्यात एव । अन्ये तु चरणसूत्रे उपलक्षणार्थेत्यस्य चरणश्रुतिर्लक्षणया कर्मबोधिकेत्यर्थमाहुः । अग्रिमे तु, तर्हि चरणानर्थक्यमितिचेन्न, कर्मण आचारापेक्षत्वादित्यर्थमाहुः । तृतीये तु, 'धर्मं चरती'त्यादिप्र- योगाच्चरणशब्देन सुकृतदुष्कृते एवोच्येते इत्यर्थमाहुः । तत्राप्यन्ततो गत्वैक एवार्थः । सिद्धं निगमयन्ति एवमित्यादि । अत्रेदं हृदयम् । निष्कामकर्मणि न स्वर्गादिजनकानि, किन्तु पावनान्येवेति तत्रकारबोध- नाय पञ्चाग्निविद्याप्रवृत्तिं ज्ञापयितुमयं पादः । अन्यथा चन्द्रगतेः सर्वसाधारण्यादेतद्भोगवैयर्थ्यमेव स्यात् । अतो निष्कामकर्मणि द्युलोके यजमानमानीय तिरोदधति । तदनन्तरकार्यं तु तद्व्या- पारभूता देवा एव कुर्वन्तीति न तत्र कर्मानुशयः, अपि तु फलानुशय एव । यः पुनः सकामकर्मा- त्मको मार्गः, तत्र तु कर्मानुशय एव । अत एवैकादशे 'आत्मा च कर्मानुशयं विधूये'ति भगव- तोक्तम् । अतस्तन्मार्गीयानुशयं संग्रहीतुं मतान्तरोपन्यासः । अतो द्वितीया सोमाहुतिरेवमुक्त- प्रकारेणानुशयवत एव वृष्टिभावं जनयति । अनुशयश्च योग्यदेहसम्पत्तिपर्यन्तमनुवर्तते इति प्रकारेण निर्धारिता, न तु मतान्तररोक्तप्रकारेणेत्यर्थः ॥ ११ ॥ इति द्वितीयमनुशयाधिकरणम् ॥ २ ॥

रश्मिः । अन्नेति । आन्तं मोक्षावधीत्यत्र व्याख्यातं पूर्वम् । अनुशयेति । व्यासस्वीकृतानुशयेऽनुशयमात्रं कर्म- मात्रं तस्याङ्गीकारात् । निगदेति । सूत्रेति । शेषरहितोऽनुशय इति कार्ष्णाजिनिमताद्वितीयमतं सूत्र- फलम् । एवेति । निरनुशयपक्षव्यवच्छेदकः । एवं निगदव्याख्यातः । एवकारस्तु एतद्विषयकदृढवास- नायाः । धर्ममिति । आदिनाऽधर्मं चरतीति प्रयोगः । तस्मात् । एवेति । सौत्रत्वादुक्तः । अन्तत इति । युगपद्वृत्तिद्वयविरोधेन तात्पर्यवृत्त्यङ्गीकारेपि तादृशकर्मबोधिका । 'विशिष्टं शुद्धान्नातिरिच्यत' इत्यु- क्तेरेवकारः । पावनान्येवेति । एवकारस्तु 'तमेतं वेदानुवचनेने'ति श्रुतेः । 'ययानुष्ठीयमानेने'त्येकाद- शस्कन्धाच्च । विविदिषायाः भक्तेश्च चित्तशुद्धिरूपपावनं विनासम्भवात् । एवेति । अवैयर्थ्यव्यवच्छेदकः । तद्व्यापारेति । कर्मणो भगवत्स्वरूपत्वेनापि सव्यापारत्वम् । देवा एवेति । निष्कामकर्मव्यवच्छेदकः । तिरोहितत्वात् । न तत्रेति । देवकृताहुतौ न । फलेति । सामग्रीलेशरूपः । एवेति । 'दुःसहप्रेष्ठविरह- तीव्रतापधुताशुभा' इति वाक्यात् । कर्मेति । बादरिकाष्णाजिनिमतयोः । एवकारो विशेषधूननदर्शनात् । अत एवेति । कर्मात्मकानुशयादेव । एवकारः सामग्रीलेशव्यवच्छेदकः । अत इति । समाधिभाषापो- षकमतान्तरभाषारूपत्वात् । एतेन सामग्रीलेशो नानुष्टम्भ इति शङ्कापास्ता । भाष्यं विवृण्वन्ति स्म अतो द्वीति । आभासोक्तं निगमनमाहुः एवमुक्तेति । निगमनस्य हेतुघटितत्वाद्धेतुतृतीयान्तम् । तस्मात् पर्वतो वह्निमानिति निगमनमिति । एवेति । उक्तोपपादनात् । योग्यति । गार्भोपि देहः सङ्गृहीतो योग्यशब्देन । सामग्रीलेशरूपेणानुवर्तते ॥ ११ ॥ इति द्वितीयमनुशयाधिकरणम् ॥ २ ॥