अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1824, कुल 2600 में से
संदर्भ में पढ़ेंश्शादेतावतेत्यत्राभिप्रेतस्य परिच्छेदकस्यालाभेनासङ्गतिः । नच लौकिकप्रमाणमेव तथेति वाच्यम् । जन्मादिसूत्रव्याख्याने 'मनसाप्यचिन्त्यरचनारूपस्ये'ति श्लोकस्य प्रपञ्चविशेषणस्य विरोधेन तथा वक्तुमशक्यत्वाच्च । किञ्च, अत्र मूर्तामूर्तं रूपद्वयं यत्प्रकृतत्वेन विवक्षितं तत्प्राधान्यमालम्ब्य । तत् तस्य किं स्वेन रूपेण ब्राह्मरूपत्वेन वा । नाद्यः । ब्रह्मणो रूपे इति विशेषणवैयर्थ्यप्रसङ्गात् । द्वितीये तु ब्रह्मण एव प्राधान्यम् । ब्रह्मपरिचायनार्थमेव रूपद्वयस्य कथनात् । ब्रह्मण एवात्रोपदे- श्यत्वाच्च । नच सम्बन्धषष्ठ्यन्तपदेन बोधनाद्ब्रह्मणोऽप्राधान्यमिति युक्तम् । 'राहोः शिर' इति- वदभेदेपि षष्ठीभवनेन सम्बन्धषष्ठ्या प्राधान्याबाधात् । 'आनन्दं ब्रह्मणो विद्वा'नित्यत्र स्वयम- प्यभेदे षष्ठ्याः स्वीकृतत्वात् । कार्ये कारणानन्यत्वस्य भगवता सूत्रकारेणोक्ततया 'द्वे वा व ब्रह्मणो रूपे' इत्यत्र ब्रह्माभिन्ने रूपे इत्यर्थस्य वक्तुमुचितत्वाच्च । अतो ब्रह्मणः प्राधान्यस्याविधा- तात् 'ब्रह्म ते ब्रवाणि'ति वाक्योपन्यासेन स्वयमेवोपक्रान्तत्वाङ्गीकारादग्रे उपदेश्यत्वाच्च ब्रह्मणः प्रकृतत्वसिद्धौ तस्मिन्नेतावत्त्वं परिच्छिन्नत्वं प्रतिषेधतीत्येव व्याख्यातव्यम् । एतावच्छब्दस्य परि- च्छिन्नवाचकतायाः प्रसिद्धत्वात् । तथाच मूर्तामूर्तमात्रत्वं ब्रह्मणि नास्तीत्यर्थः सिध्यति, न तु प्रकृतं यदेतावता परिच्छिन्नमिति सिध्यति । एवञ्च, 'नेति नेती'ति श्रुतिव्याख्याने नञ्द्वयेन यथा- संख्यं मूर्तामूर्तनिषेधे वासनाशेषात् तद्विहाय भूतराशीवासनाराश्योर्निषेधाङ्गीकारे परिगणितनि- षेधेन, यदि नेदं ब्रह्म, किमन्यद्ब्रह्मेति शङ्कापत्तेस्तदपि विहाय वीप्सया यावत्प्रपञ्चजातनिषेधो यदङ्गीकृतः, सोपि तथा । भूतराशिनिषेधे कैमुतिकादेव वासनाराशिनिषेधसम्भवेन तदर्थं निषे- धापेक्षाभावात् । त्यक्ते यथासंख्ये वासनानिषेधावतारकप्रमाणाभावात्, वासनाया अनुक्तत्वेन तन्निषेधस्याप्ययुक्तत्वाच्च । अत एव न यावनिषेधोपि युक्तः । यदपि 'न ह्येतस्मा'दिति 'नेत्यन्यत् परमस्ती'त्यस्य योजनाद्वयम् । तत्र प्रथमयोजनायां निषेध- वीप्सया ब्रह्मव्यतिरिक्ताभाव उच्यते, न पुनर्ब्रह्माभावः, तदेव दर्शयति'अन्यत्परमस्ती'ति व्याख्यातम् । एतावत्त्वमिति षष्ठ्यन्तविगृहीतसार्थमात्रकथनम् । अभीति । अभेदसंसर्गेणाभिप्रेतस्य मूर्तामूर्तरूपस्य परिच्छेदकस्यालाभेन एकस्य परिच्छेदकपरिच्छिन्नभावायोगात् परिच्छिन्नपरिच्छेदकभावासंगतिरित्यर्थः । लौकिकेति । यादृशपरिच्छेदकेन मूर्तामूर्तेन यादृशं मूर्तामूर्तं परिच्छिन्नमिति लौकिकप्रमाणं चक्षुरादि तदैव नतु अलौकिकं प्रमाणं तथा संगतिप्रयोजकम् । भाष्ये प्रकृते ब्रह्मणि यदेतावत्त्वं लौकिकधर्मवत्त्वं तत्समर्थयितुमाहुः किञ्च, अत्रेति । प्राधान्येति । मूर्तामूर्तयोः प्राधान्यमालम्ब्य तत्तस्य प्राधान्यं तस्य मूर्तामूर्तस्य । स्वेन मूर्तामूर्तरूपेण । ब्राह्म(ण) इति । मूर्तामूर्तं ब्राह्मणामिति ब्रह्मसम्बन्धिविशेषणरूपत्वेन । विशेषणस्य ब्रह्मणो वैयर्थ्यप्रसङ्गात् । ब्रह्मण एवेति । नतु मूर्तामूर्तयोरिति मूर्तामूर्तान्ययोगव्यवच्छेदक एवेति । एवेति । प्रसिद्धेरेवकारः । ब्रह्मण एवेति । 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रमात् । 'तेषामेष सत्य'मित्युपसंहाराच्चैवकारः । स्वयमिति । श्रुत्या । तदनन्यत्वसूत्रकारेण । ब्रह्म ते ब्रवाणीत्यादि । तथाच तद्भाष्यं प्रकृतसूत्रस्य । 'ब्रह्म ते ब्रवाणि'त्याद्युपक्रमविरोधात् । 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दित्यादिनिन्दाविरोधादिति । अग्रे इति । उपसंहारे 'तेषामेष सत्य'मित्यनया । प्रतीति । प्रतिषेधत्येवेति व्याख्येयम् । अयोगव्यवच्छेदक एवकारः । एतावतेति । परिच्छिन्नत्वेन धर्मेण परिच्छिन्नं ब्रह्मेत्यर्थः । त्यक्त इति । वासनानिषेधापेक्षाभावात्त्यक्ते द्वितीयपक्षोक्ते यथासंख्ये । यद्वा । पूर्वप्रतिषेधो भूतराशि निषेधस्तूत्तरस्तु वासनाराशिमिति । अत एवेति । भूतराशिनिषेधेन कैमुति-