अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1826, कुल 2600 में से
संदर्भ में पढ़ेंजीवप्राज्ञाभेदाभ्यास एव नियमेन प्रमाणानुपलम्भात् । वेदान्तेषु तयोर्भेदस्येव भेदस्याप्यभ्यास- दर्शनाच्च । यदप्युभयव्यपदेशादिसूत्रद्वयमेकदेशिमतीयत्वेन व्याख्याय, 'पूर्ववद्दे'ति सूत्रव्याख्याने तद्दूषणमुक्तम् । जीवात्मनः परमात्मसंस्थानभूतत्वे एकदेशभूतत्वे वाङ्गीक्रियमाणे बन्धस्य पारमा- र्थिकत्वेनातिरस्कार्यत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमिति । तदपि तथा । 'बहु स्यां प्रजायेये'तीच्छाभ्यां भेदस्यागन्तुकत्वावगमाद्बन्धस्य पारमार्थिकत्वेपि तथात्वात् पल्यूलनेन वस्त्रमालिन्यस्येव शास्त्री- यसाधनैर्बन्धनाशसम्भवेन शास्त्रवैयर्थ्याभावात् । एवं प्रतिषेधसूत्रे 'नान्योऽतोऽस्ति द्रष्टे'ति चेतना- न्तरनिषेधो य उक्तः, सोपि द्रष्टुर्ब्रह्माभिन्नत्वं वदति, न तु ब्रह्मणो द्रष्टृभिन्नत्वम्, अतो न तद्व्यव- सायसाफल्याय । 'नेति नेती'ति वाक्यं 'तदेतद्ब्रह्मापूर्व'मिति वाक्यं च यथायथं प्रपञ्चस्य ब्रह्माभि- न्नत्वं ब्रह्मणः सर्वाकारत्वं च वदतीति प्रागेवोपपादितम् । अतोऽन्यनिषेधो यो वर्तते, स सर्वं ब्रह्मणोऽन्तर्निवेश्येतरं निषेधति, न तु सर्वं मिथ्याकृत्येति सुधीभिरवधेयम् । भास्कराचार्यास्तु । विंशतिसूत्रमेकमेवाधिकरणमङ्गीकृत्य, सगुणासु शाण्डिल्यविद्यादिषु सगुणोपासितस्य प्रतिप्रकरणं चोदनासामर्थ्येन निर्णीतत्वात् तत्र नायं विचारः, किन्तु निर्गुणब्र- ह्मचोदनायां साकारं निराकारं च ब्रह्मोपास्यम्, उतैकतरमिति जिज्ञासायाम्, यथास्थितवस्तूपासनस्य युक्तत्वात् कारणात्मना प्रपञ्चात्मना चावस्थितमुपास्यमिति प्राप्तेऽभिधीयते । नोभयलिङ्गमूपास्यम् । कुतः । अस्थूलादिवाक्यैः समस्तप्रपञ्चाकारस्य निवर्तितत्वात् । स्वतश्च कारणस्य कूटस्थनित्यस्यैक- स्याद्वितीयत्वात् । पाश्चात्यस्य कार्यरूपस्य कादाचित्कत्वात् । ननु कारणस्य विकारात्मकत्वा- रूपत्वमेवात्मनः । कुतः । अभ्यासात् । 'तत्त्वमसी'त्याद्यभेदश्रुत्यभ्यासादित्यर्थ इति । अवैशेष्ये दार्ष्टा- न्तिके यः स दृष्टान्तयोरपीति । एवेति । नतु कर्मप्रकाशयोरित्येवकारार्थः । तयोरिति । जीवप्राज्ञयोः । भेदस्यापीति । अपिसंराधनसूत्रेऽस्मद्भाष्योक्तरीत्याभ्यासदर्शनात् । परमात्मेति । अहिकुण्डल- न्यायेन परमात्मनः संस्थानभूत इत्युक्तप्रकारेण । प्रकाशाश्रयन्यायेन एकदेशभूतत्वे । पारमार्थि- कत्वेनेति । संस्थानभूतस्यैकदेशभूतस्य परमार्थस्य धर्मः पारमार्थिको बन्ध इति । तथेति । शिथिलम् । तथात्वादिति । तिरस्कार्यत्वात् । पल्यूलनेनेति । वस्त्रमालिन्यनाशसाधनेन । बन्धनाशेति । बन्धतिरोभावसम्भवेन । अतो ब्रह्मणोऽन्यो भिन्नो न द्रष्टास्तीति योजनामाहुः सोपीति । 'अधिकं तु भेदनिर्देशा'दिति सूत्रादाहुः नत्विति । तद्व्यवेति । ब्रह्माद्वितीयत्वरूपफलेन सर्वमिथ्यात्वव्यवसायस्य साफल्यं मिथ्या तस्मा इत्यर्थः । प्रागेवेति । 'दर्शयति चे'ति सूत्रे ब्रह्माभिन्नत्वं स्पष्टम् । 'तदेतद्ब्रह्मे'- त्यपि तत्र स्पष्टम् । अन्तरिति । 'खसूक्ष्ममिदमापीये'ति वाक्यात् । इतरमिति । प्रपञ्चम् । सुधीभि- रिति । शोभना ब्रह्मगोपनाभावेन मोक्षार्था धीर्येषां तैः । विंशतीति । 'न स्थानतोपी'तिसूत्रमारभ्य 'प्रतिषेधाच्चे'त्यन्तम् । एवेति । न तु द्वयमिति द्वययोग्यव्यवच्छेदक एवेति । शाण्डिल्येति । छान्दोग्यपञ्चमप्रपाठकेऽस्ति 'सर्वं खल्विदं ब्रह्मे'त्यादि- शाण्डिल्यविद्या । 'इति ह स्माह शाण्डिल्यः शाण्डिल्य'इति श्रुतेः । आदिना कोशविज्ञानम् । 'अन्त- रिक्षोदरः कोश'इत्यादिश्रुतेः । तदग्रे कोशविद्या । तदग्रे यज्ञसम्पादनं 'पुरुषो वाव यज्ञ' इत्यादिना । चोदनेति । 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीते'त्यत्रोपासीतेत्युपासनाचोदना । कोशविज्ञाने चोदना । 'सामवेदं प्रपद्य' इतिलेडाश्रयणात् । 'य एवं वेदे'ति यज्ञसम्पादने चोदनालेडाश्रयणात् । नोभ- २१ ब्र० सू० २०