अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2330, कुल 2600 में से
संदर्भ में पढ़ें७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० २ अ० ३ सू० ८. एवं प्रासङ्गिकमुक्त्वा प्रकृतं परामृश्यते । 'सोऽध्यक्ष' इति सूत्रेण पुष्टि- मार्गीयभक्तसङ्घातस्य भगवत्येव लय इत्युक्तम् । अग्रिमेण तेन मर्यादामार्गीयभक्त- सङ्घातस्य भूतेषु लयमुक्त्वा, प्रभानन्तरं शुद्धजीवस्य तस्य मुक्तिरेव भवतीति वक्तव्ये सति, 'आहर सौम्य हस्त'मित्यादिना स्वाशयमन्येष्वप्रकटयन्तौ कर्म यन्निरूपितवन्तौ, तत्कुत इत्याशङ्क्य तयोराशयं निगूढं प्रकटयति । तदापीतेः संसारव्यपदेशात् ॥ ८ ॥ तदा नित्यलीलान्तःपातलक्षणपुष्टिमार्गीयमुक्तिदशायां मर्यादामार्गी- याया अपीतेर्मुक्तेः संसारत्वाभावेऽपि पुरुषोत्तमभजनानन्दानुभवाभावात् संसार इत्येव पुष्टिमार्गे व्यपदेशो यतः क्रियते, अतस्तदभिसन्धाय तया रीत्या भा