अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2331, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिबृंहितम् । ७५ निरूपणम् । अत एव श्रीभागवते श्रीशिववचनं गीयते । "नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन' इति । श्रीभगवद्गीता- स्वपि । 'देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपी'ति वाक्येन मर्यादा- मार्गीयभक्तमुक्तेरितरसाधारण्यमुच्यते ॥ ८ ॥ ननु संसारबन्धमुक्तेरपि हेयत्वं यत्र, तादृशं चेत् पुष्टिमार्गीयं तत्त्वम्, तदा मुक्तेः पुरुषार्थत्वबोधिकायाः श्रुतेः प्रतारकत्वमापततीति तद्बोधकप्रमाणानां तत्स्तुतिमात्रपरत्वमेवेति प्राप्त आह । सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥ पुष्टिमार्गीयं तत्त्वं सूक्ष्मं दुर्ज्ञेयमित्यर्थः । अत्रायमाशयः । पुष्टिमर्यादामप्यतिक्रम्य पुष्टिपुष्टौ प्रवेशे तत्तत्त्वमनुभव- विषयो भवति, नान्यथा । तत्र प्रवेशस्त्वतिदुरापोऽतिशयितानुग्रहेतरासाध्यत्वात्, अत उक्तेतराज्ञेयमेव तद्भवति । तेषां तु मुक्तिरेव फलम् । तस्या एवेष्टत्वात् । भाष्यप्रकाशः पुष्टिमार्गीयमुक्त्यपेक्षया मर्यादामार्गीयमुक्तेः साधनसाध्याया न्यूनत्वबोधनाय मुक्तिहेतुत्वेन प्रशंसनीयस्यापि मार्गरूपस्य कर्मण एकान्ते गत्वा जीवाश्रयत्वेन निरूपणम् । तथा च तस्य सद्योमुक्तिप्रकारत्वदृढीकरणार्थं पुष्टिमार्गीयापेक्षया न्यूनत्वज्ञापनार्थं च पुनर्विचार इत्यर्थः । इदं चोपबृंहणाभावे मनसि न विशतीत्यतस्तदाहुः अत एवेत्यादि । तथा चात्र मुक्तेरितर- साधारण्यकथनाच्चेत्यर्थः ॥ ८ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥ सूत्रमवतारयन्ति नन्वित्यादि । तद्बोधक- प्रमाणानामिति । भजनानन्दोत्कर्षप्रमाणानाम् । सूत्रं व्याकुर्वन्ति पुष्टीत्यादि । ननु पुष्टि- तत्त्वस्य दुर्ज्ञेयत्वे श्रुतेः प्रतारकत्वं कथं निवर्तेतामित्यतस्तदाशयमाहुः अत्रायमित्यादि । तत्त्व- मिति । पुष्टिमार्गीयतत्त्वम् । उक्तेतराज्ञेयमिति । अतिशयितानुग्रहभाजनातिरिक्ताज्ञेयम् । रश्मिः। याज्ञवल्क्यार्तभागयोः । एकान्तेति । आदिनाऽऽहर सौम्य हस्तम् । आर्तभागेति होवाच तौ होत्क्रम्य मन्त्रयांचक्रतुः तौ ह यदूचतुः कर्मैव तदूचतुरित्यत्रोत्क्रम्येत्युत्क्रम्य सतीवत् 'मुक्तोपसृप्यव्यपदेशादि'ति सूत्रात् । तथा च तावित्यस्य जीवावित्यर्थः । इत्युत्क्रम्यपदाशयः । तथेत्यादीति । नित्येति । व्रजभक्तसजातीयभावः कारणं पुष्टिमुक्तौ । एकान्त इति । एतस्य शरीरे संख्याप्योत्क्रमणेनैकान्त इत्यप्यौ भगवन्माहात्म्यज्ञापकः । जीवाश्रयत्वं जीवस्याश्रयत्वं बाणस्याश्रयत्वं यथा कर्मणः । तेन । पुनरिति । फलत्वेन पुनर्विचारः । यथा एकनगरेत्याद्युक्तरीत्या मार्गत्वेन निरूपणाङ्गतेत्यर्थ- वत्त्वसूत्रादिविचारितस्य पुनर्विचारः ॥ ८ ॥ सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥ श्रुतेरिति । मुक्तेः पुरुषार्थत्वबोधिकायाः 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति श्रुतेः । पुष्टिमार्गीयतत्त्वमिति । ननु ज्ञानकाण्डत्वाज् ज्ञानमार्गीयं तत्त्वं तत्र तदुक्तं 'तथा तथा पश्यति 2193