अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2332, कुल 2600 में से
संदर्भ में पढ़ें७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० २ अ० ३ सू० ९. रागिणां स्वर्गादिवत् । इष्टफलाप्राप्तौ हि प्रतारकत्वम्, अन्यथा प्रवृत्तिमार्गीय- फलबोधिकाया अपि श्रुतेः प्रतारकत्वं स्यात् । इच्छा चाधिकारानुसारिणीति नानुपपन्नं किञ्चिदिति । नन्वेवंविधार्थास्तित्वे किं मानमित्याकाङ्क्षायामाह प्रमाणत इत्यादि । प्रमाणं श्रुतिः । सा तु, 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चने'ति । 'एतꣳह वा व न तपति किमहं साधु नाकरवं किमहं पापमकरव'मिति । अत्र पूर्वार्धेन दुर्ज्ञेयत्वम्, उत्तरार्धेन तत्सत्ता च बोध्यते । अन्यथा मनसो- ऽप्यप्राप्यस्य वेदनकथनं विरुद्धं स्यात्, अतो दुर्ज्ञेयत्वेनैव धर्मिग्राहकमानसिद्धं तदित्यर्थः । चकारात्तादृशानामनुभवः परिगृह्यते ॥ ९ ॥ भाष्यप्रकाशः। तेषामिति । अतिशयितानुग्रहभाजनातिरिक्तानां भक्तानां शुष्कज्ञानानां च । इच्छेति । स्वर्गा- दिविषयिणी मोक्षविषयिणी च । इति नानुपपन्नं किञ्चिदिति । इति हेतोः, यथा स्वर्गादि- कामिनः प्रति निवृत्तिमार्गतत्त्वं दुर्ज्ञेयमधिकारराहित्यादेवं मोक्षकामिनः प्रति पुष्टिमार्गतत्त्वमपीति तत्तच्छ्रुतीनां तं तं प्रति फलबोधकत्वान्न प्रतारकत्वमतो हेतोर्य उत्कृष्टाधिकारिनस्तान् प्रति भजनानन्दोत्कर्षबोधकतया न स्तुतिमात्रत्वमतः पूर्वोक्तं ह्युपपन्नमित्यर्थः । सूत्रशेषमवतारयन्ति नन्वेवमित्यादि । एवंविधार्थास्तित्व इति । अतादृशसर्वदुर्ज्ञेयार्थसद्भावे । शेषं स्फुटम् ॥९॥ रश्मिः। वस्तुसूक्ष्ममि'ति वाक्येनेति चेन्न । असन्दिग्धमिदं ज्ञानकाण्डेऽविचार्यामति । पुष्टिप्राप्ये सूक्ष्मपदं गीतायां त्रयोदशे 'ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते । सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखं । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् । अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् । इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते' इत्यत्र । 'यतो वाच' इति श्रुत्या सह निर्णयः । तथाहि । गीतायाम् । अहं परो यस्येति मत्परः । अग्रे विरुद्धधर्माश्रयः । अग्रे सूक्ष्मत्वात्तदविज्ञेयमुक्तम् । तत्र कर्ममार्गीयगीताया उपनिषत्त्वात् । नापि ज्ञानमार्गीयम् । ज्ञानगम्यत्वात् । नापि मर्यादामार्गिकमार्गीयम् । 'भक्त्या जानाति चाव्यय'मिति श्रुतेः । नापि पुष्टिमर्यादायाम् । मर्यादांशेन ज्ञेयत्वात् । अतः पुष्टिपुष्टावेव सूक्ष्मत्वात्तदविज्ञेयम् । 'यतो वाच' इति श्रुतेः । तर्हि वस्त्वभावसिद्धिः । नेत्युच्यते । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने' इति वाक्यात्, 'पूर्णा भगवदीयास्ते शेषव्यासाभिमारुता' इति वाक्याच्च वस्तुसिद्धेरिति । अग्रे दूरस्थमित्यादिसमानम् । अग्रे भक्ते विशेषः 'मद्भक्त एतद्विज्ञाये'ति । अतिशयितेति । 'भगवान्भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोग'मिति वाक्यात् । न च भक्तियोगो मर्यादामिकिरपि । भजतामित्यनेन तत्सङ्ग्रहात् । प्रवृत्तीति । अकाम्यमानस्य प्रवृत्तिकोच्या । अतादृशेति । अनधिकारिणः सर्वे तेषां दुर्ज्ञेयार्थसद्भावे ॥ ९ ॥ 2194