सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2333, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2333

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७७ तर्हि ब्रह्मविदामिव तादृशानां भक्तानामपि स्वमार्गोपदेशनं कश्चिच्छ्रूयेत, न चैवम्, अतः पूर्वोक्तं न साधीय इति भातीत्युत्सूत्रमाशङ्क्य तत्र हेतुमाह । नोपमर्देनातः ॥ १० ॥ उपदेशनं तदा स्यात्, यदि ब्रह्मविदामिव तेषां स्वास्थ्यं स्यात्, यतस्तेषां विरहदशा प्रियसङ्गमदशा चेति दशाद्वयमेव भवति, नान्या । पूर्वस्यास्तस्या- स्त्वतिदुःसहत्वेन सर्वेषां भावानामुपमर्देन तिरोधानेनोपदेशो न भवतीत्यर्थः । सङ्गमे तु, अतः, पुरःप्रकटपरमानन्दरूपसाक्षाद्भगवत एव हेतोरुपदेशोऽन्यस्मै न भवतीत्यर्थः । न हि भगवदग्रे स सम्भवतीति भावः ॥ १० ॥ ननु 'रसो वै सः रस१ ह्येवायं लब्ध्वानन्दी भवती'त्युपक्रम्य 'एष ह्येवा- नन्दयाती'ति श्रुतेरुक्तरूपानन्दप्राप्तौ दुःसहविरहतापोऽशक्यवचनः । आनन्द- तिरोधान एव तत्सम्भवात् । तद्धेतोरसम्भवात्, सम्भवे तु तत्प्राप्तिरेव न स्यादिति प्राप्ते, उत्तरं पठति । अस्यैव चोपपत्तेरुष्मा ॥ ११ ॥ आनन्दात्मकरसात्मकस्यास्यैव भगवत एव धर्म ऊष्मा विरहताप इत्यर्थः । विशेषपरिहारायाह उपपत्तेरिति । इदमुक्तं भवति । भगवद्विरहस्य सर्वसाधारणत्वेपि स्थायिभावात्मक- रसरूपभगवत्प्रादुर्भावो यस्य हृदि भवति, तस्यैव तत्प्राप्तिजस्तापः, तदनन्तरं भाष्यप्रकाशः । नोपमर्देनातः ॥ १० ॥ सूत्रमवतारयन्ति तर्हीत्यादि । तत्रेति । तादृशमार्गानुपदेशे । सूत्रं व्याकुर्वन्ति उपदेशनमित्यादि । अर्थस्तु स्फुटः ॥ १० ॥ अस्यैव चोपपत्तेरुष्मा ॥ ११ ॥ उपमर्दे प्रत्यवस्थानं वारयितुमग्रिमसूत्रमवतारयन्ति ननु रस इत्यादि । तद्धेतोरित्यादि । तद्धेतोरानन्दतिरोधायकहेतोर्विद्याकामकर्मरूपस्य उत्कटभक्तिभावे सत्यसम्भवात् उत्कटभक्तिदशायामप्यविद्यादिसम्भवे तु तत्प्राप्तिर्भगवत्- प्राप्तिरेव न स्यात् । सा च तेषामस्ति । अत उपमर्दासम्भवादनुपदेशोऽसङ्गत इति प्राप्ते । सूत्रं व्याकुर्वन्ति आनन्देत्यादि । तथा चान्तःप्राप्तिबाह्याप्राप्तिभ्यामानन्दानुभवविरहतापाविति द्वय- मप्युपपद्यत इत्यर्थः ॥ ११ ॥ रश्मिः । नोपमर्देनातः ॥ १० ॥ स्फुट इति । अतः इति सौत्रं व्याख्येयम् । पुर इत्यादि व्याख्यानम् । सम्भवतीति । दासानामाज्ञां विना सम्भवतीति । एवं स्फुटः ॥ १० ॥ अस्यैव चोपपत्तेरुष्मा ॥ ११ ॥ प्रत्यवेति । आनन्दरूपत्वाद्ब्रह्मणः सन्देहादिभि- र्नोपमर्द इति प्रत्यवस्थानम् । सम्भवे त्वित्यादिभाष्यं विवृण्वन्ति स्म उत्कटेति । अनुपदेशः असङ्गत इति । एङः पदान्तादतीति न भवति, वाक्ये विवक्षाभावेन संहिताभावात् । आनन्दे- 2195