सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2334, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2334

७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० २ अ० १ सू० १२. नियमतस्तत्प्राप्तिश्च भवति, न त्वतथाभूतस्येत्यन्वयव्यतिरेकाभ्यामुक्तस्तस्यैवैष धर्म इति निश्चीयते । तस्य वस्तुन एव तथात्वात् स तापोऽपि रसात्मक एव ॥ ११ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥ ननु 'न पश्यो मृत्युं पश्यति न रोगं नोत दुःख'मितिश्रुत्या दुःखप्रति- षेधस्तादृशे भक्ते क्रियत इति तस्य दुःखित्वं न वक्तुं शक्यमित्याशङ्क्य प्रतिषेधति नेति । कुतः । शारीरात् । शरीरसम्बन्धिनो हेतोर्यद् दुःखं कर्मजनितमिति यावत्, तस्यैव श्रुतौ प्रतिषेधान्नानुपपत्तिरित्यर्थः । एतेन दुःखत्वेन कर्मजन्य- भाष्यप्रकाशः । प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥ अत्र पूर्वपक्षसिद्धान्तयोर्दुरूहत्वात् पूर्वपक्षे, उपमर्दसूत्राच्चशब्दं, तस्यैवेतिसूत्रात्तस्यैवोष्मेति पदत्रयं चानुवर्त्य, सिद्धान्ते चोपपत्तेरिति पद- मनुवर्त्येदं व्याख्यात इत्याशयेन पूर्वभागं व्याकुर्वन्ति नन्वित्यादि । तस्य दुःखित्वं न वक्तुं शक्यमिति । तस्य भगवत्स्वरूपलाभवतो भक्तस्य दुःखित्वं तस्यैवोष्मेत्यनेनोक्तो विरहतापो न वक्तुं शक्यः । प्रतिषेधतीति । प्रतिषेधस्य कर्मजन्यत्वं बोधयंस्तत्कथना- शक्यत्वं प्रतिषेधति । सिद्धान्तभागं व्याकुर्वन्ति नेत्यादि । तस्यैवेति । शरीरसम्बन्धिनोर्मृत्यु- रोगयोरनन्तरं तत्प्रायपाठे पठितस्य तादृशस्यैव दुःखाभावस्य पूर्वसूत्रोक्तहेतोः संग्रहं सूचयन्ति एतेनेत्यादि । एतेनेति । सिद्धान्तभागेन । तथा च भगवद्विरहदुःखं कर्मजन्यं दुःखत्वाद् दुःखा- रश्मिः। त्यादीति । विरोधेति । आनन्दानुभवविरहतापयोर्विरोधपरिहाराय । अन्वयेति । स्थायिभावा- त्मकरसरूपभगवत्प्रादुर्भावसत्त्वे विरहतापः, उक्तप्रादुर्भावाभावे विरहतापाभाव इत्यन्वयव्यतिरेकौ ताभ्याम् । यत्सत्त्वे यत्सत्त्वमन्वयः, यदभावे यदभावो व्यतिरेक इति ॥ ११ ॥ प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥ दुरूहत्वादिति । अनुवर्तनीयपदाज्ञानात् पूर्वपक्षस्य, स्वरूपतः सिद्धान्तस्य दुरूहत्वं बोध्यम् । तेनायं सूत्रार्थः । अस्य भक्तस्यैव ऊष्मा दुःखित्वं न, प्रतिषेधात् । इति चेन्न । शारीरात् । शरीरसम्बन्धिनः कर्मजनितदुःखात् हेतोः, तं हेतुं प्रकृत्योपपत्तेरिति । उपपत्तिस्तु कर्मजनितदुःखस्यैव प्रतिषेधादिति । नन्वित्यादीति । दुःखतां दुःखसत्ताम् । तस्यैवेति । अत्रास्यैवेति सूत्रादस्यैवोष्मेतिपदत्रयमिति पाठः । तस्यैवोष्मेति । तस्यैव तदप्राप्तिजस्ताप इति भाष्येण । लाघवादूष्मपदोपादानम् । प्रतीति । दुःखस्य । बोधयन्निति । व्यासः । तत्कथनेति । भक्तस्योष्मकथनाशक्यत्वम् । 'न पश्य' इति श्रुतिमनुसन्धाय्याहुः शरीरसम्बन्धिनोरिति । तथा चायं भाष्यार्थः । शरीरसम्बन्धिनो हेतो- रिति । शरीरसम्बन्धिनः यस्य दुःखस्य हेतोः कर्मणः इत्यर्थः । एतदेवाहू यद्दुःखमिति । प्रतिषेधादिति । आवृत्त्योपपत्तिहेतुत्वेनोक्तः । अनुवृत्तसोपपत्तिपदस्यार्थमाहुः नेत्यादि । अत्र भक्तस्योष्मणि । दुःखत्वेनेति भाष्यं विवृण्वन्ति स्म तथेत्यादि । यथा सिद्धान्तभागेन पूर्वसूत्रो- 2196