अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2335, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७९ त्त्वानुमानमपि निरस्तं वेदितव्यम् । लौकिक एव दुःखे तज्जन्यत्वनियमात् ॥ १२ ॥ स्पष्टो ह्येकेषाम् ॥ १३ ॥ एकेषां शाखिनां भगवत्स्वरूपलाभानन्तरं दुःखतन्निवर्तनलक्षणोऽर्थः स्पष्टः पठ्यते । तथाहि । 'रसो वै सः, रसꣳ ह्येवायं लब्ध्वानन्दीभवति, को ह्येवान्यात्, कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, एष ह्येवानन्दयाति' । अत्र रसात्मकभगवत्स्वरूपलाभे सत्यानन्दवत्त्वमुक्त्वा, तस्यैव जीवनहेतुत्वं परमानन्दहेतुत्वं चोच्यते । मरणहेतूपस्थित्यभावे जीवनहेतुत्वं न वदेत् । स रसस्तु संयोगविप्रयोगभावाभ्यामेव पूर्णो भवत्यनुभूतः, नैकतरेण । तत्र विरहतापस्यात्युपमर्दकत्वेन तदा प्राणस्थितिरपि न स्यात्, यदि रसात्मको भगवान् हृदि न स्यादित्याशयेनाह, 'को ह्येवान्या'दिति । यत् यदि एष हृदि स्फुरद्रूप आकाशो भगवान् स्यात्, कस्तदाऽन्याद्, अन प्राणने, को वा जीव- भाष्यप्रकाशः। न्तरवदिति साधने, सुखत्वेन हेतुना मोक्षसुखस्यापि तथात्वापत्तेस्तत्परिहाराय तत्र लौकिक- त्वसोपाधित्वं वाच्यम् । तच्चात्रापि तुल्यमिति लौकिक एव दुःखे कर्मजन्यत्वनियमाद् उपपत्तेरेव निरस्तमित्यर्थः ॥ १२ ॥ स्पष्टो ह्येकेषाम् ॥ १३ ॥ पुष्टिमार्गीयस्य भगवद्विरहजं यद्दुःखं तन्न कर्मजन्यमित्यत्र प्रमाणापेक्षायां तद्बोधनायेदं सूत्रमित्याशयेन सूत्रं पठित्वा व्याचक्षते एकेषामित्यादि । शाखि- नामिति । तैत्तिरीयाणाम् । श्रुतिमुपन्यस्य तदर्थं व्याख्यातुं गृह्णन्ति अत्रेत्यादि । विभजन्ते स रस रश्मिः। क्तहेतोः सङ्ग्रहसूचनम्, तथा दुःखत्वेनेत्यादिभाष्येण भगवद्विरहेत्याद्युक्तम् । सुखत्वेनेत्यादि । मोक्षसुखं कर्मजन्यम्, सुखत्वात् सुखान्तरवदित्यनुमानेन सुखत्वेन हेतुना मोक्षसुखस्यापि तथा- त्वापत्तेः कर्मजन्यत्वापत्तेः । तत्परीति । मोक्षसुखस्य कर्मजन्यत्वपरिहाराय । अत्रापीति । दुःखत्वलिङ्गकानुमानेपि । लौकिक इति भाष्यं विवृण्वन्ति स्म लौकिक इति । एवेति । अयमलौकिकसुखदुःखयोगव्यवच्छेदकः । उपेति सूत्रेऽनुवृत्तोपपत्तेरेव न तत्सूत्रश्रुतेरित्यर्थः । उपाधित्वं तु साध्यव्यापकत्वे सति साधनाव्यापकत्वम् । तत्र साध्यसमानाधिकरणः कर्मजन्यत्वसमानाधिकरणो यो लौकिकत्वात्यन्ताभावो दुःखान्तरे नास्ति, किन्तु घटाभावस्तादृशाभावप्रतियोगित्वं घटे अप्रति- योगित्वं लौकिकत्व इति साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वमिति लक्षण- समन्वयः एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वमित्थम् । साधनवद् दुःखत्ववद् अलौकिक- दुःखम् । तन्निष्ठो योऽत्यन्ताभावः लौकिकत्वात्यन्ताभावः तादृशाभावप्रतियोगित्वं लौकिकत्वेन त्ववधृते घटाभावे प्रतियोगी घट इति साधनवनिष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वमिति लक्षणसमन्वयः ॥ १२ ॥ स्पष्टो ह्येकेषाम् ॥ १३ ॥ अलौकिकदुःखसत्त्वे पुनः प्रमाणमत्र । विभजन्त इति । विभागं व्याख्यानं कुर्वते । स रस इत्यादीति । एवकारव्यवच्छेद्यमाहुः नैकतरेणेति । संयो- गेन विप्रयोगेण वा । साधनैकदेशत्वात् । क इति । कर्तृसामान्यपदम् । भाष्ये । 2197