सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2538, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2538

आसुरभावः पुरुषोत्तमप्रकरणे शरणमार्गानन्तरमात्मनिवेदनमुक्तं कठिनमितीन्द्रियाणि जुहोतीति श्रुत्युक्तात्मनिवेदनप्रतिबन्धकपदार्थ आसुरभावः । श्रीरामचन्द्रगुणोपसंहारस्तावदेव भक्तमनोरथकाल एव पश्चात् मूलस्वरूपमेव विचिन्तयेदित्याहुः दर्शनमिति। इदं मूलरूपमिति विद्वन्मण्डने 'श्रुतय ऊचु'रित्यादिना प्रोक्तम् । देहि, इति पूर्ववत् । दीपोत्सवः । अत्रापि पूर्वं रासोत्सवधनत्रयोदशीरूपचतुर्दश्यो मन्तव्याः । रासोत्सवो गोपाळतापनीये विद्वन्मण्डने च, इतरयोर्द्वयोरेक उत्सवः क्वचिद् द्रष्टव्यः, अपरः स्मार्त उत्सवप्रताने । यथेति । यथा श्रीमन्नन्दकृतदीपावलिविधानकम् । लौकिकं स्वीकृतं स्वात्मप्रवेशार्थं व्रजेश्वर ॥ १ ॥ लौकिकं हैतुकम् । ननु 'वने वृन्दावने' इति श्रुतौ गोपपदेन नन्दस्यापि सङ्ग्रहान्नन्देन क्रीडन्निति वचनव्यक्तेर्न हैतुकं किन्तु वैदिकमिति चेन्न । तौ तु बालभावेनैव भावितवन्ताविति सुबो- धिन्याः बालक्रीडानुपयोगिनो दीपदानस्य हैतुकत्वात् । तदपि स्वीकृतं दीपदानं स्नेहं मनसः स्वस्य च परिस्पन्दात् । स्वस्य ब्रह्मण आत्मा व्रजो निलयलीलास्थानं तत्प्रवेशार्थम् । यद्वा । स्वस्मिन्नात्मनो मनसः प्रवेशार्थं दीपदानाद्रुषं वारयितुं श्रीनन्दमनोनिरोधो यतः अतः सम्बोधनं व्रजेति । व्रजस्य ईश्वरः कर्तुमकर्तुमन्यथा कर्तुं समर्थ ईश्वरः । श्रीनन्दनिरोधार्थं हेमेलपदवाच्यालङ्कारौ धारणीयौ । श्रीनन्दस्य बालभावेन भावनात् । 'लोकवत्तु लीलाकैवल्यमि'ति सूत्रात् । अत एव सुवर्णोक्तसूत्रवस्त्राणि नो धारणीयानि किन्तु निर्गुणबोधकरूप्याक्तवस्त्राणि धारणीयानि श्रीनन्दस्य ग्रामीणत्वेन निर्गुण- निष्ठत्वात्तत्रानुरागबोधकानि कानिचित् सूयनेति प्रसिद्धं गोकर्णकटिवस्त्रगोक्रीडनवस्त्राण्याभरणानि चान्नकूटदिनधार्याण्यपि । गोकर्णो शाबरभाष्ये चतुर्थस्य तृतीयाधिकरणे उक्तौ 'गोलक्षणान्यप्ये- वमेव कर्तरीकर्ण्यः कर्तव्या एवमादीनी'ति । तदीयं यथा स्वीकृतं मदीयं तथाङ्गीकुर्वित्याहुः कृपयेतिकृपया स्वीयतासिद्धयै पूर्वविस्मारणेन हि । तथा दीपादिकं सर्वमङ्गीकुरु मदर्पितम् ॥ २ ॥ पूर्वस्य स्मार्तस्य स्वशरीरादेर्निबन्धनाभावमुद्दिश्य कृतस्य मूत्राद्युच्चारादेर्विस्मारणेन किन्तु 'कायेन वाचा मनसे'ति श्लोके विवृतस्य यथोपरोधेन पूजादिकरणेऽपचारः स्यादिति बुद्ध्या मूत्राद्युच्चारो न स्वशरीरादेर्निबन्धनाभावमुद्दिश्येत्यायुक्तस्य स्मारणेन । ननु श्रौतधर्मैर्मोक्षसिद्ध्या इति वक्तव्ये कुतः कृपया स्वीयतासिद्ध्या इत्युक्तमिति चेन्न तृतीयाध्यायचतुर्थचरणे 'अतस्त्वितरज्यायो लिङ्गाच्चे'ति सूत्रे 'इतरत्तदीयत्वमेव ज्याय' इति भाष्यात् । मोक्षोपादानापेक्षया स्वीयतोपादानस्य युक्तत्वात् । न च तदीयत्वं भक्तिमार्गान्तर्गतभक्तिमार्गीयोक्तदृढावस्थास्वरूपं साधनरूपमेवेति कथं मोक्षोपादानापेक्षया स्वीयतोपादानस्य युक्तत्वमिति शङ्क्यम् । अस्याः शङ्कायास्तत्रैव तद्भूतसूत्रे निरासात् । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मे'ति वाक्यं तत्र कृपयेति साधनत्वाय 'कृपाविष्टः साधन'मिति । पूर्वोक्तलौकिकभिन्नालौकिकं दीपादिकमङ्गीकुर्विति पूर्ववत् । इदानीमपि तथा दृश्यते । आदिपदेनापणद्यूतारात्रिकोपायनानि, महाराजोपचाराणां मुख्यत्वात् । ननु बालभावस्योक्तत्वात्कुतस्त- द्विरुद्धमहाराजोपचारा इति चेन्न । विरुद्धधर्माधारत्वाद्भगवतः । 'सर्वसामर्थ्यसहित' इति कृष्णाश्रयात् ।