सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2581, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2581

समर्पणे कीर्तनभक्तिमाधुर्य्येति । यथा गोवर्धने भुक्तं फलमूलादिकं हरे । रामेण सखिभिः सार्धं पुलिन्दीभिः समर्पितम् ॥ ८० ॥ तथा फलादिकं सर्वं भुङ्क्ष भावार्पितं मया । पुलिन्दीवद्भावदानात् सार्थकं जन्म मे कुरु ॥ ८१ ॥ गोवर्धने श्रीगोवर्धनसमीपे 'वटे गावः सुशेरते' इतिवत्सामीप्ये सप्तमी । पुलिन्दीभिरिति । 'पूर्णाः पुलिन्द्य' इत्यत्र व्याख्याने ता अप्युपभुक्ता इत्युक्त्या सान्निध्यात् । 'हन्तायमद्रि'रित्यत्र कन्द- फलमूलादिकं पुलिन्दीभिराहृतं श्रीगोवर्धने स्थितं तदादिभिः समर्पितं प्रकरणाच्च 'उभयाकाङ्क्षा हि प्रकरणम्' प्रमाणमिति पूर्वतन्त्रकाराः । पुलिन्दीनां पूर्णत्वेन फलाद्याहार्याकाङ्क्षा फलादीनामाहारकाकाङ्क्षा एवं च साहचर्यादुभयोरङ्गाङ्गिभावः । भावार्पितमित्यत्र भावः क इत्यपेक्षायामाहुः पुलिन्दी-