सामग्री पर जाएँ
भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2594, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2594

इत्येकादशसर्वस्वे भगवान् स्वयमुक्तवान् । आत्मानं हि स्वयं वेद तस्मादन्यवचो मृषा' इति सर्वनिर्णयोपान्ते प्रवृत्तनिवृत्तोत्सर्गेण भगवत्सङ्गजसर्वात्मभावेन 'मां याही'त्युक्ते सर्वात्म- भावस्य प्रदानसाध्यत्वात् प्रवृत्तनिवृत्तोत्सर्गेण । 'मत्सङ्गान्मामुपागता' इति श्लोकोक्तमत्सङ्गं निबन्धत्वाभावार्थं गुरूणामाहुः वृन्देति । वृन्दारण्यगतं रासरसोन्मत्तमतं गजम् । बबन्ध गोपबालैका बहु शृङ्खलया निशि ॥ १ ॥ रासरसोन्मत्तमतं रासे रससमूहे भक्तिरसेनोन्मत्तमपि मतं पूजितं संमतम्, वा गोपाल- तापिनीये 'बलवीनयनाम्भोजमालिने नृत्यशालिने नम' इति ब्राह्मणस्य 'श्रीकृष्ण रुक्मिणीकान्त गोपीजन- मनोहर । संसारसागरे मग्नं मामुद्धर जगद्गुरो' इति च ब्राह्मणस्य । गजं गजमिवात्तगजेन्द्रलीलम् । एका मुख्या। आत्मवशीकरणसमर्थभक्तिमत्या शृङ्खलया प्रेम्णा 'पराकाष्ठा प्रेम्णः पशुपतरुणीना'मिति परिवृढाष्टकात् । बहु यथा भवति तथा पुष्टिमार्गीयसर्वात्मभावेन बहुरूपम् । मध्ये विरहाङ्गीकारात् । बह्वा । बह्वी च शृङ्खला बहुशृङ्खला तया एकत्वमविवक्षितम् । बहुविलासेन प्रेम्णा । हरितुर्यप्रियाभक्तिमाहुः । हरितुर्यप्रिये कृष्णे प्रेम्णा भोज्यं मदर्पितम् । अङ्गीकुरुष्व कृपया सफलं जन्म मे कुरु ॥ २ ॥ एतस्या नाम कृष्णा, तस्याः सम्बोधने कृष्णे इति । भोज्यं खाद्यलेह्यचोष्यपेयरूपं वस्त्रामरणमालाधूपदीपजलपात्राचमनमुखवस्त्रताम्बूलयमुनाष्टकपाठानामुपलक्षकम् । भक्तिदानेन वैराग्य- रूपफलेन सह वर्तमानं जन्म मम 'जनयत्याशु वैराग्य' मिति वाक्यात् । वन्दनं पूजायां न निविशत इत्यत्र भक्तावपि पृथगेवाहुः नम इति । नमस्ते सच्चिदानन्दरसरूपिणि सूरजे । कुमारीष्विव मे देहि श्रीकृष्णे भावमुत्तमम् ॥ ३ ॥ पूर्वोक्तं रूपं पद्मपुराणयमुनामाहात्म्ये 'त्रयी रसमयी सौरी ब्रह्मविद्या सुघावहा । नारायणी- शरी ब्राही धर्ममूर्तिः कृपावती'ति वाक्यात् । सूरो मिहिरस्तज्जे, मे मह्यम्, यद्यप्युत्तमं भावं व्यसनात्मको भावः साधनप्रकरणे 'उत्तमः फलपर्यन्त' इत्यत्र कारिकायां विवृतः, तथापि स न सूर्यजायै दत्तोऽपि तु भवाय दत्तः, अतः सूर्यजादत्तो भावः उत्तमः कुमारीषु फलसहितो भाव उत्तमस्तद्वत् फलसहितं भावे देहीति । यमुनायाः कालिन्दीले तु कलिं द्यतीति व्युत्पत्त्यान्योन्य- कलहखण्डनं भगवता सह कलहावखण्डनं कलिकालदोषावखण्डनं च भावं देहीति । तिष्ठे- तेत्यात्मनेपदेन 'प्रकाशनस्थेयाख्यायोश्चे'ति सूत्रेण लकारार्थप्रक्रियात्वेन जातेन 'गोपी कृष्णं तिष्ठत' इत्युदाहरणवत् । स्वाशयं प्रकाशयांमभूवुः त्वदीयेति । त्वदीयमधुसूक्तिभिर्भ्रतजनेशतसङ्गाशया मनोजशरपीडिताः कथमपि स्थिता मेऽसवः । अतः परमये यदि प्रियतमाङ्गसङ्गो भवेत् तदैव मम जीवितं विरहितावशाहीकरम् ॥ १ ॥ १. सत्सङ्गान्मामित्येकादशीयपाठः ।

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 2594, कुल 2600 में से · BharatKosha