अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2595, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम् । ९९ 'ऋषिपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे । भर्तारं च जगद्योनिं वासुदेवमजं विभु'मिति वाक्यादेवं भावः । वस्तुतस्तु साधनप्रकरणे 'प्रसादरूपा शक्तिः स्त्री भवती'ति सुबोधिन्याः स्त्रीत्वं प्रसाद्मापिरे । भर्तारं धारकं पोषकं वा । कामाद्धारणमप्रच्युतं भवतीति । काम इच्छा प्रेमेच्छेति स्थितमिति सुधीभिराकलनीयम् । कथमपि हृदि प्रकटेनाकाशरूपानन्देन । आकाशवद्वदिति प्रत्ययादाकाशरूपानन्दस्य प्रकारता । अये विषादे विरहात् । कथमपि स्थितानामसूनां स्थिति- विचारस्त्वया कर्तव्य इति । श्रीयमुनाजिदुक्तावाहुः श्रीति । श्रीगोकुलनाथोऽस्माकैहिकं पारलौकिकं च । स्वयमेव जातोस्तीति किमस्माकं विचारणीयमस्ति ॥ २ ॥ अत्र द्वितीयतुरीयपादयोर्व्यत्ययः, आर्यान्तरत्वात् । 'यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थके सार्ये'ति । अत्रा'स्माकमैहिकं पारलौकिकं च श्रीगोकुल- नाथः स्वयमेव जातोऽस्ती'त्यन्वयात् सखण्डब्रह्मज्ञानं सर्वस्मिन्नात्मभावो यत्र स सर्वात्मभाव इति व्युत्पत्तिकसर्वात्मभावरूपम् । एवं च व्रजभक्तानां भ्रमरगीते उद्धवद्वारा ज्ञानोपदेशवदत्रापि स्वयमेव ज्ञानोपदेशं कारयिष्यतीति नास्माकं विचारणीयं किमप्यस्ति । तदुक्तं स्वप्नदर्शनाख्यग्रन्थे 'एवमुरुधास्तं विलपन्ती मूर्च्छिता- हमासं ततश्चिरेण श्रुतिपथागतप्रियवंशीनिनादैर्मन्त्रैरिव विगतमूर्छाहमभवमि'ति । तर्ह्यस्माभिः कथमपि स्थितानामसूनां स्थितिश्चिन्ता कार्येत्यत्र नेत्याहुः चिन्तेति । 'चिन्ता कापि न कार्या, गोवर्धननाथोऽस्मत्कुल- पतिरसद्धितमेव करिष्यति ॥ ३ ॥ 'चिन्ता कापि न कार्या निवेदितात्मभिः कदापि । भगवानपि पुष्टिस्यो न करिष्यति लौकिकी च गति' मिति नवरत्नात् । आश्यान्तरं प्रकाशयन्ति स्म । किं ब्रुवाणि सखि प्रेष्ठविरहानलवाहिता । जीवामीत्येतदेवालं निरपत्रपतास्पदम् ॥ ४ ॥ हे सखि निरपत्रपतास्पदं यथा भवति तथा जीवामीति यत् तत् तस्मै जीवनायालं 'नमःस्वस्ती'ति सूत्रेण चतुर्थी तस्याः 'अव्ययादाप्सुप' इति सूत्रेण लुक् । वेदान्तिनां ज्ञाननिष्ठत्वेन क्रियाकृपाप्रश्नं चक्रुः सखीति । सख्येतल्लेखनीयं त्वयाऽतियत्नेन राधिका ( कान्तः ) । किं कृपयिष्यत्यथवा मनोरथेनैव जन्मनिर्वाहः ॥ ५ ॥ हे सखि यमुनाजित् । एतद् वक्ष्यमाणं पत्रे लेखनीयं प्रश्नविषयम् । राधिका क्रिया 'क्रिया सा राधिका देवी'ति वचनात् मनोरथेन इच्छया जन्म आत्मतया शरीरस्वीकारो निर्वाहः निर्गतो वाहाद् वाञ्छाया एतादृशः । 'वाहस्तु मतभेदे वृषेभयो'रिति विश्वः । 'ईहा तृणमवाञ्छयो' रिति च विश्वः । किमिति प्रश्ने मनोरथेनैव जन्मनिर्वाहः किमिति प्रश्नः । कृपयिष्यतीत्यत्र कृपा कृपाभावाभावरूपापि सम्भवति अभावज्ञाने प्रतियोगिज्ञानं कारणमिति । 2457