अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2596, कुल 2600 में से
संदर्भ में पढ़ेंप्रतियोगिनं कृपाभावं व्यक्तीकुर्वन्ति स्म मदिति । मदन्तःस्नेहवशतो मच्छरीरव्यवस्थितिम् । जानन्तोपि न जानन्ति तत्तूचिततरं हि वः ॥ ६ ॥ ममन्तःस्नेहो मनोजशरपीडाजन्यविविधभावोपशामकत्वेन आत्मविषयः । मच्छरीरव्यव- स्थितिः पूर्वोक्ता विरहसामयिकी ताम् । जानन्तः 'शरीरेन्द्रियासुहीनानां वैकुण्ठपुरवासिनां' स्त्रीत्वं भगवत्सेवानुकूलत्वलक्षणं न सम्भवतीति भगवत्सेवानुकूलत्वलक्षणपुंस्त्वविशिष्टास्ता इति पुंस्त्वेन निर्देशः । यूथाभिप्रायेण बहुवचनम् । न जानन्ति अग्निकुमारत्वेन भर्तृभावात् ताः प्रत्यज्ञानम् । भक्तेच्छयैतादृशलीलाप्राकट्यादुचिततरं वो युष्माकं भगवता लीलाविशेषेऽङ्गीकृतानाम् । अन्यथा कुतो न लीलायां प्रविष्टे येन कृपाभावो न भवेदिति चेत्, तत्राहुः यथेति । यथा नर्तयति स्वामी वस्तुतस्त्वपराधिनम् । मां तथाहं