अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2597, कुल 2600 में से
संदर्भ में पढ़ेंपरिशिष्टम्। १०१ तदा समागमिष्यामि दुःखं मा कुरुत प्रियाः । दुःखं विरहदुःखम् । वस्तुतस्तु विरहो नास्तीत्याहुः सर्वेति । सर्वेशे गोकुलाधीशे शरणा एव सर्वतः ॥ १० ॥ शरणा इत्यत्र ‘शरणं गृहरक्षित्रो’रिति कोशः । ‘भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् । आत्मत्वाद् भक्तवश्यत्वात् सत्यवाक्त्वात् खमात्रवत्’ इति वाक्यात् । ‘रक्षतीत्येव विश्वासः षड्विधा शरणागति’रिति पञ्चरात्रे । अत इति । अतश्चिन्ता न कर्तव्या भवद्भिः कृष्णसात्कृतैः ॥ ११ ॥ उक्ताद् दृश्यमानात् सन्दर्भाच्च चिन्ता केच्छा, ईश्वरः क, यद्येश्वरं प्रादुर्भावित इति ‘उत्कर्ष- श्चापि वैराग्ये’ ममेश्वरोऽङ्गीकृतवान् किमुदासीनः क्लिष्टः किं व्यापको वा क्लिष्टः काहम् केश्वर इत्यादि चिन्ता न कर्तव्या कृष्णसात्कृतैः कृत्स्ना यूयं कृष्णाः संपद्यन्ते तथा कृताः कृष्णसात्कृताः यतः । अस्मिन्मार्गे ‘सच्चिदानन्दता स्वत’ इति निरोधलक्षणे । किञ्च । श्रीगोकुलजीवनः सर्वं भद्रमेव करिष्यति । श्रीगोकुलस्य निःसाधनस्य जीवनो जीवयिता, यूयं तु कृततपस्काः कुतः सन्देहो जीवनेपि। किञ्च । अहं यथा शीघ्रं दर्शनं प्राप्नोमि तथा विधेयं प्रत्यहम् ॥ १२ ॥ भवन्तौ भगवांश्च विसदृशीः लीलाः परित्यज्य चित्तदोषजनकलीलाः कुर्वीतचेदिष्टं चित्तदोषेषु भक्त्यभावाद् दर्शनं न प्राप्स्यामि । ‘अदूरे विप्रकर्षे वा यथा चित्तं न दुष्यती’ति वाक्यात् । ततः स्वेषु चित्तदोषजनकलीलारूपं विशेषणं विधेयमिति भावः, तदपि प्रत्यहम् । उपसंहरति शरणमार्गमैहिकेति । ऐहिके पारलोके च सर्वथा शरणं हरिः । संपत्स्वापत्स्वपि सदा शरणं हरिरेव हि ॥ १३ ॥ स्पष्टम् । एवं तत्तद्रूपसन्निधानमेव तत्तत्फलदानादिप्रयोजकमित्यर्थः समासेन न तु व्यासेन । 2459