अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 262, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । १७५ संदेहमात्रवारकत्वाज्जिज्ञासयोः । न स्वलौकिकार्थसाधकत्वम् । तथा सति वेदानामन्याधीनत्वेनाप्रामाण्यं स्याद् वेदजिज्ञासेत्येवोक्तं स्यात् । भाष्यप्रकाशः । तामपि प्रतिजानीयात् । तस्या अपि शास्त्रपूर्त्यर्थमवश्यमपेक्षितत्वात् । अतः कर्तृभेदाद् भिन्ने एवोभे अपि जिज्ञासे । ते च पूर्वोत्तरकाण्डाभ्यां प्रमिते धर्मे ब्रह्मणि च मन्दमध्यमयोर्बुद्धिदोषात् संदेहसंभवामालोच्यैव कृते, न त्वन्योन्यमतदूषणाय । जैमिन्युक्तानामभ्यासादीनां व्यास- पादैरूपन्यासाद् व्यासाभिप्रेतस्यानपेक्षत्वस्य जैमिनिनोपन्यासात् । नापि धर्मब्रह्मप्रमितिजन- नाय । यदि तथा स्यात् तदा मीमांसाऽधीने वेदस्य प्रमितिजनकत्वे उभावपि वेदस्य प्रामाण्येऽ- नपेक्षत्वं न ब्रूयाताम् । अत इदमपि सर्वस्य वेदस्याक्रियार्थत्वगमकम् । तदेतदुक्तं संदेहेत्यादि, अप्रामाण्यं स्यादित्यन्तेन । अथ यदि कर्मार्थतैव वेदस्य जैमिन्यभिप्रेता स्यात् तदा बाद- रायणमतं जानानेन तदनादराय वेदजिज्ञासेत्येवं प्रतिज्ञावाक्यमुक्तं स्यात् । अतः उक्तहेतुत्रयात् सर्वस्य वेदस्य क्रियार्थत्वं न जैमिन्यभिप्रेतम् । किं चाम्नायस्येति तु पूर्वपक्षसूत्रं, तद्भूतसूत्रं क्रियार्थपदं तु तिङन्तवाचकं, न तु साध्यार्थपरम् । तेन तदर्थं जैमिनिसूत्रानुसारणमपार्थमेवेति । रश्मिः । चतुर्थेऽध्याये 'अथातः क्रत्वर्थपुरुषार्थयोः जिज्ञासा' इति सूत्रेणेत्यर्थः । अवान्तरेत्यादि अङ्गविशेष- विषयत्वमित्यर्थः । नास्तिक्यनिराकरणाय ब्रह्मत्वार्थं च कर्मणि ब्रह्मज्ञानसापेक्षित्वादिति भावः । तामिति ब्रह्मजिज्ञासामित्यर्थः । संदेहेत्यादि 'संदेहवारकं शास्त्रं बुद्धिदोषात्तदुद्भवः' इति पूर्व कारिकोक्तम् । जैमिन्युक्तानामिति द्वितीयस्य द्वितीयपादे उक्तानामित्यर्थः । उपन्यासा- दिति 'आनन्दमयोऽभ्यासात्' इति सूत्र उपन्यासादित्यर्थः । आदिशब्देन श्रुत्यादि । व्यासा- त्यादि अत्रैव तृतीयेपादे 'शब्द इति चेन्न' इत्यादिसूत्रेऽभिप्रेतमित्यर्थः । उपन्यासादिति 'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशो व्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्या- नपेक्षत्वात्' इति सूत्रे इत्यर्थः । तथा च शाबरभाष्यं बादरायणग्रहणं बादरायणस्येदं मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुमिति । न त्वित्यादि भाष्यं विवृण्वन्ति नापी- त्यादि । श्लोकेत्यादिः अलौकिकार्थेत्यस्यार्थः । प्रमितीत्यादिः साधकत्वमित्यस्यार्थः । जिज्ञासे इति बोध्यम् । तथेत्यादिति भाष्यं विवृण्वन्ति यदीत्यादि । उभाविति व्यासजैमिनी इत्यर्थः । इदमपीति भिन्नकर्तृकत्वमपीत्यर्थः । तदेतदिति न च ब्रह्मजिज्ञासाया इत्यारभ्योपपादितमि- त्यर्थः । वेदेत्यादिभाष्यं विवृण्वन्ति अथेत्यादि । उक्तेत्यादि जैमिनेर्व्यासशिष्यत्वात्, मीमां- सयोर्भिन्नकर्तृकत्वात्, अथातो वेदजिज्ञासेत्यप्रतिज्ञानाच्चेति हेतुत्रयादित्यर्थः । उक्ते धर्मे समन्वयेऽ- पिकां युक्तिमाहुः किंचेत्यादि । तदेतद्भाष्यशास्त्रदीपिकादौ प्रसिद्धम् । सिद्धान्तसूत्रं तु 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः' इति । तिङन्तेत्यादि 'तद्भूतानां क्रियार्थेन समाम्नायोऽ- र्थस्य तन्निमित्तत्वात्' इति सूत्रम् । तेष्वेव पदार्थेषु भूतानां वर्तमानानां पदानां क्रियार्थेन तिङन्तेन समुच्चारणमर्थस्य पदनिमित्तत्वादिति सूत्रार्थः । साध्यार्थेत्यादि साध्योऽर्थो जन्ययागस्तत्परत्वं नेत्यर्थः । अयमर्थः लिङादिप्रयोगे धात्वर्थात्तल्लिङत्वाभ्यां भावनैवोच्यते । सा च भवितुर्भवनानुकूलो भावकव्यापारविशेषः तत्र शाब्दी भावना आर्थी भावना च । पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः शाब्दी भावना लिङ्वाच्या, अयं मां प्रवर्तयति प्रवृत्त्यनुकूलव्यापारवानयमिति लिङ्श्रवणे प्रवृ- 175