अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 777, कुल 2600 में से
संदर्भ में पढ़ें४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ५ सू० १९ रश्मिः । सर्वधातुभ्य इन् इतीन् अव्ययादाप् सुप इति सूत्रेण अव्ययत्वात् सुपो लुक् । पति पिपर्ति पृणोति परति पारयतीति वा परि । मानं माने । माङ् माने शब्दे च स्पष्टम् । शब्दः आ आता वि वीप्रजन- कान्त्यादिषु सुट् आविष्काराद्येकः कारः कृतिः कालः । पर्यर्यस मानं आशिः पूरणं एतदादिकर्ता वर्तनं कुर्यात् परं स्पष्टं ज्योतिः द्युत दीप्तौ दीप दीप्तौ सूर्यनारायणं मुख्याधिकारिणं नारायणमात्रं वा । 'ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः' ॥ इति वाक्यात् । दीप्तियुक्तं वा विशेषानुपलम्भेः धातुपाठे उपसंपद्येति स्पष्टम् । स्वेन खन् शब्दे खनति यत्नः सर्वभावः 'स सर्वविद्भजति मां सर्वभावेन भारत' इति पुरुषोत्तमयोगाध्याय- वाक्यात् अत्र श्रुतौ उत्तमः पुरुष इत्युक्तेः अत्र सर्वभावः सर्वात्मभावोपि यथा 'सर्वदा सर्वभावेन भजनीयो व्रजाधिपः' इत्याचार्यचतुःश्लोक्यां तथा श्रीगोस्वामिनां 'सदा सर्वात्मभावेन भजनीयो व्रजाधिपः' इति ग्रन्थेस्ति तेन रूपेण यदि चोत्तमः पुरुष इति श्रुतौ श्रुतत्त्वपुरुषत्वयोः जीवधर्मत्वं तदा यत्नो ज्ञानभक्त्यादिरूपः यद्वा सु शब्दोपतापयोः ड प्रत्ययः स्वं अन्यत् पूर्ववत् । रूपेणेति स्पष्टम् । अभिनिष्पद्यते भयाभावस्तस्य संबन्धी । अभयो वा । निरुपसर्गार्थः स्फुटः निस वा अर्थः कल्पनीयः स्फुटमन्यत् । जीवन्मुक्तादिविषये पुराणं प्रसिद्धमिति दिक् । यतोऽनुक्तमप्यूहते पण्डितो जनः । प्रकृतमनुसर्यते । एवं प्रतिपादयति उत्तमावस्थाम् । तस्मादिति तदाहेत्यत्र तदित्यव्ययं पञ्चम्यन्तं तस्यार्थः प्रकारमिति कर्माध्याहारः । अत्र शंकराचार्याः आविर्भूतं ब्रह्मस्वरूपं यस्येति जीवब्रह्मवादमाश्रित्याहुः तन्न ब्रह्मजीवविभागस्य ब्रह्मेच्छाकृतत्वव्युत्पादनात् जीवत्वस्य वास्तविकत्वा- दित्याहुः तथेत्याविर्भूतस्वरूपत्वेन । स्वाप्ययेत्यादीति एतच्च स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हीति सूत्रे फलाध्यायोपन्यासस्ये वक्ष्यते । अनुगम्येति प्रथमपादेऽन्तिमाधिकरणे । उपेति आदिपदेनो- पासना । यदत्र शंकराचार्याः । विवेकज्ञानाभावादनविर्भूतस्वरूपः सन् विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते न चान्यादृशाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपादेवेत्याहुः तन्न तथासति गम्येवेति वाक्यान्तरेऽधिकरणत्वेन जीवोक्त्यसंभवापत्तिरित्याशयेन द्वितीयं स्थलमुक्तम् । एतेन नृसिंहोपासनेत्यादिभाष्यं विवृतं ज्ञेयम् । तथेति अमृतत्वामयत्वरूपेण । भाष्ये । तथेति स्वात्मत्वेनैव । प्रकृते । अन्यथेति । उच्चशरावे उदकयुक्ते शरावे । तस्य जीवस्य जाग्रत्साक्षित्वं इन्द्रियैर्विषयग्रहणलक्षणजाग्रदवस्थासाक्षित्वं तच्च ज्ञानज्ञेयानामाविर्भावतिरोभावज्ञानात्तत्स्वयमेवमा- विर्भावतिरोभावहीनः स्वयं ज्योतिः स साक्षीत्युच्यते इति सर्वोपनिषच्छ्रुतेः स्वयं ज्योतिष्ट्वं तदाविर्भूतस्वरूपत्वेन जीवस्यास्त्येव । एवं स्वप्नः सुषुप्तस्य विज्ञाने तत्साक्षित्वम् । सुषुप्तिस्तु अकामरूपो भगवान् तत्साक्षित्वं तदन्वेतदमृतमभयमेतद् ब्रह्मेति श्रुतिभिः सर्वत्रावस्थात्रयेषु तस्य जीवस्यामृत- रूपत्वमेव निरूप्यावस्थानामतातत्त्विकत्वं शरीरस्य नाशमनु एष नश्यति नाहमत्र भोग्यं पश्यामीत्ये- वमवस्थात्रये विजातीयश्रुत्योक्त्या उपसंपद्येत्यत्रोपसर्गं व्याख्याते क्रीड विहार इत्यस्य व्याख्याने प्रजनादिकर्ता हारो हरणं चोक्तम् । तच्च पुष्टिमार्गीयमुख्याधिकारिण्युक्तम् । अत्र तु पूरुषस्याविर्भूतत्वात् अ-पूरुषः जनः प्रादुर्भावकर्तृत्वाद्विलक्षणः तस्य गतिकर्ता प्रेरणकर्ता साधनेषु मनसः कर्मज्ञानभक्ति- योगेषु कर्मणि योगः 'योगः कर्मसु कौशलम्' इति कर्मयोगाध्यायात् कर्मयोगः कर्मसु कौशलम् । ज्ञाने योगः आत्मदर्शनफलम् 'अयं हि परमो योगो यद्योगेनात्मदर्शनम्' इति वाक्यात् । भक्तौ 684