अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 778, कुल 2600 में से
संदर्भ में पढ़ेंप्रजापतिः । अन्यथा प्रतिबिम्बादावमृतत्वाद्यवचनं मिथ्या स्यात् । इन्द्रे त्वावि- र्भावाभावात् प्रजापत्यसन्निधाने विपरीतं पश्यति । अतस्तावन्मात्रदोषपरि- हारायान्योपदेशः । स्वप्नादिषु तथा प्रकृतेऽपि । सुषुप्तावस्थायां भगवदा- विर्भावात् तथा वचनम् । तस्मादुभयमपि भगवत्प्रकरणमेव । एवमन्यत्रापि भगवदावेशकृता भगवद्धर्माभिलापा ऊह्याः । तस्माद्दरः परमात्मैव ॥ १९ ॥ भाष्यप्रकाशः । अन्यथेत्यादि । प्रतिबिम्बादावित्यत्रादिपदेन शरीरसंग्रहः । तथाच यदि पुरःस्फूर्तिकमाद्रियेत, तदा बाधितार्थत्वप्रसङ्गः । यदि चैतं त्वेव त इत्यादिवाक्यानुरोधात् प्राकरणिकमाद्रियेत, तदा तु प्रजापतिना स्वाभिसंहितस्य परमात्मन एवानुव्याख्येयत्वकथनादिन्द्रस्य तदबोधेन तत्र जीवो- क्तिमिति तन्निवृत्त्यर्थं तस्य परं ज्योति