अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 826, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३३ करणं, तत्रापि तेषामधिकारोऽङ्गीकर्तव्यः । हि युक्तोऽयमर्थः । एते हि वसव आधिदैविकभगवदवयवभूताः । अनशनात् । अन्यथा वसुत्वादिविरोधः । भाष्यप्रकाशः। स्फुटार्थम् । तत्र बाधकस्य सत्त्वात् कथं युक्त इत्यत आहुः एते हीत्यादि । साधकं हेतुमुक्त्वा बाधकं तर्कमाहुः अन्यथेत्यादि । अतिरिक्तानङ्गीकारे पूर्वपक्षोक्तरीत्या वसुत्वादिविरोधः । रश्मिः । डित् खनेर्मुद चोदात्त इति सूत्रेणान् अल् च डित्त्वात् । धातोर्मुद स चोदात्तः इति वृत्तिः खन्यते खनति वा तन्मुखं प्रथमममृतमाचार्यो वा अस्मदीयः वसुशिराचार्याः खन्यन्ते पूर्वं पश्चादुपजीवन्ति इति तेन हेतुना । इदमुक्तं भवति-अव रक्षणप्रवेशतुष्टिकान्तिगतिक्रीडादीप्तिप्रीत्यवगमसाम्यर्थ्य- याचनश्रवणहिंसेच्छाद्व्याप्तिलिङ्गनावाप्तिदहनभावेषु भ्वा.प.सेट् एभ्यः दारुं भयं तत्कर्ता ह भये भ्वा.प.से.अवदारणार्थकखनतिना । नाश्नन्ति अश भोजने क्र्या.प.से. भोजनविनाशं कुर्वन्ति पानस्य गमनस्य विनाशं कुर्वन्ति पा पाने भ्वा.प.अ., पा रक्षणे अ.प.अ., रक्ष पालने भ्वा.प.से., पल रक्षाय चु.प.से. अन्योन्याश्रयभियैतं विहाय पल गतौ भ्वा.प.सेटो ग्रहणम् । एतदिति गन्तृ एव इण् गतौ इण्शीभ्यां वन्निति वन् । अयनममृतं न म्रियतेऽनेन । दृष्ट्वा दृशिर् प्रेक्षणे । तृप्यन्ति तृप प्रीतौ दि.प.वेट् प्रीञ् तुष्टिकान्त्योः क्रय.उ.अ. कामयन्ते च । कमु कान्तौ भ्वा.आ.से. कमेर्णिङ् स्वार्थे । त इति विस्तारकाः । एतद्वन्तु एव अयनं तेन । रूपं व्याख्यातं मी विनाशाय प्र पूरकं रूपं पूरकः सन्वा सम् विशन्ति एतत्साङ्गनुरूपात् रूपकरणकर्तुः उच्छब्दकर्तारो यन्ति गच्छन्तीत्यर्थः । देवान्तर्गता द्योतन्ते तेषां तृप्तीच्छयोरुक्तेः पूरकत्वविषयिणी अभिसंवेशविषयिणी उद्यनविषयिणी चेच्छासत्त्वाद् भक्त्यांधिकारोऽङ्गीकर्तव्य इत्यर्थः । बाधकस्येति अनुपासकस्वरूपस्य कृतार्थस्वरूपस्य च । एते हीत्यादीति वस्त्रादिपञ्चगणसंख्याः । 'वसवश्चाष्ट संख्याताः षट्त्रिंशत्तुषिता मताः । अभास्वराश्चतुःषष्टिर्वार्ता पञ्चाशदूनकाः ॥ महाराजिकानामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः' ॥ इति । पञ्चातिरिक्तानां यथासंभवं पञ्चस्वान्तर्भावः पञ्चमप्रपाठके पञ्चविधदेवोक्तेः । आधिभौतिकानां खखनमङ्गीहिन्द्र प्रक्षिते मा इवीपीत्यत्र । तर्कं व्याकुर्वन्ति सा अतीति । अतिरिक्तत्वेन प्रकारेणान- ङ्गीकारे यद्यतिरिक्ता न स्युराधिभौतिकादिषु न वसेयुरित्यन्यथाज्ञानं तर्कः । ननु 'विरोधः कर्मणीति चेन्न' इति सूत्रशंकरभाष्येऽतिरिक्ताङ्गीकारोऽस्तीति चेत्तत्राहुः पूर्वेति । मध्वादिसूत्रोक्तपूर्वपक्षरी- त्यातिरिक्तत्वेन प्रकारेणानङ्गीकारे वसुत्वेति वक्ष्यमाणरीत्या तु हेतुर्वसुत्वादिविरोधः । ज्ञानेना- दित्यत्वप्राप्तेः प्राप्तत्वात् । अत्र तु वसूनामेवैको भूत्वेति श्रूयते । यद्वा । अन्यथा अनाधिदैविकत्वे प्रकारे वसतीति व्युत्पत्त्या निवासकर्तृत्वस्यादिपदेन 'वासवं सामाभिगायति' इत्यत्र 'सास्य देवता' इति सूत्रेण देवतायैश्वर्य्याविरोधः । वसवो देवता यस्य साम्न इति वासवमित्यस्य व्युत्पत्तेः । यद्वा तथेति छान्दोग्ये चतुर्थप्रपाठके ब्रह्मवादिनो वदन्ति यद्धस्तां प्रातःसवन ५ रुद्राणां माध्यन्दिन५- सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनं क्व बर्हि यजमानस्य लोक इति स यस्ताह १. कम्यन्ताधिकरणम् ।