भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 831, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 831

एवाधिदैविकः । न वा पूर्वकल्पेन निर्णयः । तथा सति तेषामभावादनुपा- स्यत्वम् । अनित्यता च वेदस्य स्यात् । तस्माद् देवानामध्यधिकार इति शब्दबलविचार एव युक्त इति सिद्धम् ॥ ३३ ॥ इति प्रथमाध्याये तृतीयपादे अष्टमं तदुपर्यप्यधिकरणम् ॥ ८ ॥ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥ ३४ ॥ इदानीं शूद्रस्याधिकारो निराक्रियते । यथा कर्मणि न तथा निष्पादकत्वेऽपि भाष्यप्रकाशः। आहुः न वेत्यादि । अनित्यतेति एतेषामेवोपास्यत्वे अनित्यतेत्यर्थः । एवमत्र देवादीनामपि कर्माद्यधिकारस्थापनेन तेषामपि हृद्यङ्गुष्ठमात्ररूपेण स्थितिरित्यपि साधितम् ॥ ३३ ॥ इति अष्टमं तदुपर्यप्यधिकरणम् ॥ ८ ॥ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥ ३४ ॥ अनुप्रसङ्गरूपां संगतिं बोधयितुमाहुः इदानीमित्यादि । जैमिन्यनभिप्रेते देवाधिकारे स्थापिते तद्वदत्र शूद्राधिकारोऽपि संभाव्यत इत्याशङ्कायां स निराक्रियत इत्यर्थः । ननूपनयनाभावेन वैदिककर्मादावनधिकारस्य तस्मिन् सिद्धत्वात् संभावनेव कुत इति चेन्न । ब्रह्मविद्याया उपनयनानपेक्षत्वात् । वैश्वानरवि- द्यायां तान्हायमुपनीयैवैतदुवाचेति श्रावणात् । नच तत्र प्राचीनशालादीनां ब्राह्मणत्वेन तस्योत्सर्ग- सिद्धत्वाद् वैशेषिकस्यैव तत्रानपेक्षा, न त्वौत्सर्गिकस्येति वाच्यम् । तथा सति तस्य प्रतिनियत- वर्णोचितशास्त्रीयसंस्कारत्वे पर्यवसानात् सम्बूत्रे च तदुचितस्य तस्य सत्त्वेनेवाधिकारसिद्धेः । रश्मिः। तिरिक्तो भवतु इति भावः । देवोपासने इव योऽर्थः प्रतीयते स भगवदंशः यद्वा प्रथमान्ताद्वतिः योज्यत्वं देवानामुपासनं उपास्योपासकव्यतिरिक्तं तद्वत्प्रतीयते उपासकादिराध्यात्मिकः आधिदैविक इति 'यस्तु आध्यात्मिकः प्रोक्तः सोऽसावेवाधिदैविकः' इति वाक्यात् ब्रह्मण एतादृक्त्वात् । न न वेत्यादीति पूर्वकल्पः पूर्वपक्षः । तेषामिति उपासकानामभावात् उपासकलनिरूपितोपास्यत्वाभाव इति भाष्यार्थः । ननु शंकरभाष्ये योगिवद्देवानामुपास्योपासकत्वं रूपान्तरग्रहणेनोपपादितमेवेत्यत आहुः भाष्ये निल- तेत्याशयेनाहुः एतेषामिति । अनित्यसंयोगापत्त्यादनित्यतेति भावः ॥ ३३ ॥ इति अष्टममधिकरणम् ॥ ८ ॥ शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि ॥ ३४ ॥ अन्विति तेन पूर्वाधिकरणे प्रसङ्गसंगतिर्बोधिता । पूर्वत्र मनुष्याधिकारविचारेण स्मृते देवाधिकारे विचारिते जैमि- न्यनभिप्रेते प्रसङ्गसंगतिः देवाधिकारेण स्मृते तदेवात्र शूद्राधिकारनिराकरणे उपेक्षानर्हत्वादुत्प्र- सङ्गः । शूद्राधिकार इति जैमिन्यनभिप्रेतः । तस्मिन्निति अपशूद्राधिकरणे षष्ठस्य प्रथमे पादे । शान् हेति छान्दोग्यसप्तमप्रपाठकेति । तान् प्राचीनशालादीन् । केकयराजोवाच । वैशेषिकेति छान्दोग्यटीकाप्रकाशकत्वात् विशेषेण संसृष्टस्य नमस्काररूपोपनयनस्य । औत्सर्गिकस्येति षोडश संस्कारान्तर्गतस्योपनयनस्य । तथा सतीति उपनयनस्य नमस्काररूपत्वे प्रकारे सति 'उपनीय' इत्यस्य टीकायां पादयोः पतनमकारयित्वेत्यर्थात् । तस्येति वैशेषिकस्य । प्रतीति । ननु प्रतिवर्णो- चितेति वक्तव्ये नियतपदमधिकमिति चेन्न शूद्रेषु सञ्चरग्रहणार्थं नियतपदस्यावश्यकत्वात् । प्रतिनियता वर्णा ब्राह्मणक्षत्रियवैश्यशूद्रा इत्येवं तेषामुचिता ये शास्त्रीयाः संस्कारास्तत्त्वे । सम्बूत्रे

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 831, कुल 2600 में से · BharatKosha