अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 832, कुल 2600 में से
संदर्भ में पढ़ें· भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७३९ याजयेत् सा हि तस्येष्टिरिति श्रुतेर्निषादस्थपतिवच्छूद्रस्येति लिङ्गाद् दोहादौ च शूद्रस्याधिकारः । एवमिहापि संवर्गविद्यायां शूद्रस्याधिकार इति तन्निरा- करणार्थमिदमधिकरणमारभ्यते । एवं श्रूयते । जानश्रुतिर्ह पौत्रायण इत्यत्र हंसवाक्यश्रवणानन्तरं सयुग्वानं रयिक्वस्य समीपं गतः जानश्रुतिः पौत्रायण रयिकैमानि षट्शतानि गवांमित्या- भाष्यप्रकाशः। अथ तस्य सामर्थ्यार्थित्वयोरभावः शङ्क्यः । विद्यायां बौद्धसामर्थ्यस्यैवापेक्षणात् । तस्य च प्राक्तनपु- ण्येनैव सिद्धेः । 'भावयेच्चतुरो वर्णान्' इति पुराणभाषणविधानात् तच्छ्रवणेऽर्थित्वस्यापि सिद्धेः । तर्हि विद्याभाव एव बाधकोऽस्त्विति चेत् तत्राहः यथेत्यादि । संवर्गविद्यायां कथमधिकार इति शङ्