अपराजितपृच्छा (भुवनदेवाचार्य - प्राचीन मन्दिर, प्रासाद, कला एवं वास्तु महाग्रन्थ सटीक)
Aparajitapriccha of Bhuvanadeva with Commentary by Shrikrishna Jugnu
भुवनदेवाचार्य (टीकाकार: डॉ. श्रीकृष्ण 'जुगनू') द्वारा
पृष्ठ 341, कुल 535 में से
संदर्भ में पढ़ेंसूत्र-५६ 295 चरकी, विदारी, पूतना, पापराक्षसी, पिलिपिच्छा तथा जृम्भा, स्कन्द एवं अर्यमा, दिशा के प्रति, विदिक्षु दिक्षु संस्थाने ह्यष्टौ कुर्याच्च शासनीः । आसां पदविधिर्नास्ति पूजां गृह्णन्ति केवलम् ॥ 15 ॥ विदिशा और दिशा के संस्थानों में— ये आठों ही शासन करते हैं। इनकी कोई पद विधि (इसके अतिरिक्त) नहीं है; ये केवल पूजा ही ग्रहण करते हैं। इत्येवं च समाख्याता देवतानामनुक्रमात् । निघण्टुपरिभाषाश्च वास्तुवेदसमुद्भवाः ॥ 16 ॥ इतने में ही सब देवताओं के अनुक्रम से निघण्टु परिभाषा वास्तुवेद से समुद्भव होने वाली के बारे में कह दिया गया है।¹ एतान् वास्तुपुरुषस्य अङ्गपदेनदेवताः । इत्यमनन्तर ब्रूमोऽथ वास्तुक्षेत्रामरायनम् ॥ 17 ॥² ये समस्त वास्तुपुरुष के अङ्गीय पदों पर स्थापित होने वाले देवताओं का रहस्य है। इसके बाद, मैं वास्तुक्षेत्र में देवतायतन के विषय में कहता हूँ। इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां वास्तुदेवतानिघण्ट्वधिकारो नाम षट्पञ्चाशं सूत्रम् ॥ 56 ॥ इस प्रकार भुवनदेवाचार्य कृत सूत्रसन्तानगुणकीर्ति प्रकाश या अपराजितपृच्छा में वास्तुदेवता निघण्टु अधिकार नामक छप्पनवाँ सूत्र पूर्ण हुआ ॥ 56 ॥
- यह वास्तुनिघण्टु समराङ्गणसूत्रधार से प्रेरित है। इन श्लोकों में भी पर्याप्त समानता है। यथा— योऽयं वह्निरिहोक्तः स सर्वभूताहरो हरः। पर्जन्यानामा यश्चार्यं वृष्टिमन्म्बुदाधिपः ॥ जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः । महेन्द्रस्तु सुराधीशो दनुजानां विमर्दनः ॥ आदित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम् । सत्यो भूतहितो धर्मो भृशः कामोऽथ मन्मथः ॥ योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम् । मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥ अधर्मो वितथाख्यः स्यात् कलेरप्रतिमः सुतः । गृहक्षतः पुनर्योत्र स चन्द्रतनयो बुधः ॥ प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः। गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥ भृङ्गराजमिहेच्छन्ति राक्षसं निर्ऋतेः सुतम् । यो मृगोऽस्मिन्नन्तः स स्वयंभूर्धर्म इत्यपि ॥ आदिः प्रजापतिः स्रष्टा मनुः सुग्रीव ईरितः । पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥ वरुणः पाथसां नाथो लोकपालः स कीर्तितः । असुरो राहुर्केन्दुर्मर्दनः सिंहिकात्मजः ॥ शोषस्तु भगवानेषु सूर्यपुत्रः शनैश्चरः । पापयक्ष्मा क्षयः प्रोक्ता रोगस्तु कथितो ज्वरः ॥ भुजङ्गमानामधिपः श्रीमान् नागस्तु वासुकिः। त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥ चन्द्रो भल्लाट इत्युक्तः कुबेरः सोमसंज्ञितः । चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥ दितिरत्रोच्यते शर्वः शूलभृद् वृषभध्वजः । हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥ आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते। देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥ मृत्युः शरीरहर्तासौ विवस्वानिति स स्मृतः। जयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥ मित्रो हलधरो माली रुद्रस्तूक्तो महेश्वरः । राजयक्ष्मा गुहः प्रोक्तः क्षितीशोऽनन्त उच्यते ॥ चरकी च विदारी च पूतना पापराक्षसी । रक्षायोनिभवा ह्येतो देव्तानुचरीर्विदुः ॥ इत्येषु वास्तुदेवानां निघण्टुः परिकीर्तितः । (समराङ्गण. 14, 14-31)
- प्रकाशितपाठे नोपलभ्यते ।