अपराजितपृच्छा (भुवनदेवाचार्य - प्राचीन मन्दिर, प्रासाद, कला एवं वास्तु महाग्रन्थ सटीक)
Aparajitapriccha of Bhuvanadeva with Commentary by Shrikrishna Jugnu
भुवनदेवाचार्य (टीकाकार: डॉ. श्रीकृष्ण 'जुगनू') द्वारा
पृष्ठ 53, कुल 535 में से
संदर्भ में पढ़ें.. 4 अपराजितपृच्छा इत्यमनन्तर अष्टाशीतितपसानां तपश्चर्या — अगस्त्यः कश्यपश्चैव याज्ञवल्क्योऽथ कौशिकः । भारद्वाजो वैश्रवणो वसिष्ठो नारदस्तथा ॥ 15 ॥ पाराशरो जमदग्निर्मार्कण्डेयानकौ तथा। मरीचिर्गौतमोऽग्निश्च भृगुर्वै एकशृङ्गकः ॥ 16 ॥ कपिलः पुलमाहेन्द्रौ पुलस्त्यः पुलहः क्रतुः । वसुदेवश्च दुर्वासाः कनकः शौनकस्तथा ॥ 17 ॥ भार्गवोऽर्थ सुराचार्यो ह्यङ्गिरा मनुजल्मुकः । वहाँ अगस्त्य, कश्यप, याज्ञवल्क्य, कौशिक, भारद्वाज, वैश्रवण, वसिष्ठ, नारद, पराशर, जमदग्नि, मार्कण्डेय, मरीचि, गौतम, अग्नि, भृगु, शृङ्गी, कपिल, पुलमाहेन्द्र, पुलस्त्य, पुलह, क्रतु, वसुदेव, दुर्वासा, कनक, शौनक, भार्गव, सुराचार्य शुक्र, अङ्गिरा, मनुजल्मुक थे। अन्यदप्याह — हरितोत्सङ्गनागेन्द्रा देवन्यः किंशुकस्तथा ॥ 18 ॥ पद्मकः पार्थुकः संपदङ्ग ईक्षण एव च। विश्वामित्रश्च जनको व्यासवाल्मीकिनौ तथा ॥ 19 ॥ मैत्रेयो धर्मकश्चैव प्रचेता वैजयन्तकः । शान्तः समुद्रकश्चैव वैशम्पायनपाचकौ ॥ 20 ॥ जीवध्वनो बाल्यषष्टिः शम्भुश्रुर्णक एव च। शुकात्रियमकाश्चैव विशाला ब्रह्मतेजसा ॥ 21 ॥ शान्तोऽथ विद्रुमश्चैर बहुधान्यो वो ( भ ?ग ) व्यस्तथा। गर्गोऽथ लम्पटः ख्यातो नीलश्च सत्य एव च ॥ 22 ॥ मृगाक्षो वृषचक्रश्च शङ्खवर्णोऽर्थ लोमशः । चन्द्रभानुर्वज्रसूचिः किरातश्चाथ सम्भ्रमः ॥ 23 ॥ सुपर्णः श्यामतुङ्गश्च हेमकान्तिश्च देवलः । शिखिध्वजो महाकान्तिः शिवात्मा चन्द्रशेखरः ॥ 24 ॥ जयश्च विजयश्चैव सिद्धार्थश्चापराजितः । अष्टाशीतिः₈₈ समाख्याता ऋषयो ब्रह्मतेजसः ॥ 25 ॥ अधः शीर्षोर्ध्वपादाश्च वर्षाणां शतसङ्ख्यया। हृष्टास्तुष्टास्तु सर्वेषु ज्ञानध्यानपरायणाः ॥ 26 ॥