अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 77, कुल 109 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासहिता । (७१) उच्यतेऽज्ञैर्बलाच्चैत्तदानर्थद्वयागमः॥ वेदांतमतहानं च यतोज्ञानमिति श्रु- तिः ॥ ९९॥ सं० टी० उक्तवैपरीत्येबाधकमाह उच्यतइति एत त्प्रारब्धमज्ञैः श्रुतितात्पर्यान्भिज्ञैर्बलादविवेकसामर्थ्या- च्चेदुच्यते यथार्थतय प्रतिपाद्यते चकारादद्वयात्मा- नं नपश्यंति तदाऽनर्थद्वयागमो दोषद्वयप्राप्तिः तत्र प्रारब्धरूपस्य द्वैतस्यांगीकारे अनिर्मोक्षप्रसंग एको दोषः मोक्षाभावे ज्ञानसंप्रदायोच्छेदरूपोद्वितीयो दोषइ तिनकेवलं दोषद्वयस्यैव प्राप्तिरपितु वेदांतमतहानंच वेदांतमतस्याद्वैतस्य हानं त्यागो भविष्यति प्रारब्ध ग्रहणरूपस्य द्वैतस्य याथार्थ्यादित्यर्थः तर्हि किंप्रति- पत्तव्यमित्यत आह यतइति यतो यस्याः सकाशात् ज्ञानंभवति तादृशी सा श्रुतिर्ग्राह्येति शेषः सा श्रुतिस्तु “ तमेवधीरोविज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ॥ नानुध्याया द्बहूञ्छब्दान् वाचोविग्लापनंहितत्” इति एतदभिप्रायः क इति चोल्लिख्यते धीरो विवेकी ब्राह्मणो ब्रह्मभावितु मिच्छुस्तमेव वेदांतप्रसिद्धमात्मानं विज्ञायाऽऽदावुपदे- शतः शास्त्रतश्च ज्ञात्वाऽनंतरंप्रज्ञां शास्त्राचार्योपदिष्टवि- षयामपरोक्षानुभवपर्यंतां जिज्ञासापरिसमाप्तिकरीं कुर्वीत बहून् कर्मोपासनाप्रतिपादकान् शब्दान् वाक्यसंदर्भा-