आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 32, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २१ भिक्षाणां समूहो भैक्षम् । न तल्लिङ्गाभासेनानोच्छिष्टं मन्तव्यम् । किं तु दृष्टश्रुताभ्यामेव । दृष्टमात्मनः प्रत्यक्षम् । श्रुतमाप्तोपदेशः । ताभ्यामेव तदुच्छिष्टमवगन्तव्यम् । अयमंशः प्राप्तानुवादोऽपूर्वमंशं विधातुम् । यथा(१)'नानुवषट्करोति, अपि वोपांश्वनुवषट्कुर्यात्' इति ॥ २७ ॥ (२)भवत्पूर्वया ब्राह्मणो भिक्षेत ॥ २८ ॥ ब्राह्मणो ब्रह्मचारी भवत्पूर्वया वाचा भिक्षेत भिक्षां याचेत—‘भवति भि- क्षां देही’ ति ॥ २८ ॥ भवन्मध्यया राजन्यः ॥ २९ ॥ ‘भिक्षां भवति देही’ति राजन्यो भिक्षेत ॥ २९ ॥ भवदन्त्यया वैश्यः ॥ ३० ॥ ‘भिक्षां देहि भवती’ति ॥ ३० ॥ ‘सर्वं लाभमाहरन् गुरव’ इत्युक्तम् । अथाऽऽहृतं किं कर्तव्यमित्यत आह- तत्समाहृत्योपनिधायाऽऽचार्याय प्रब्रूयात् ॥३१॥ तत् भैक्षं समाहृत्य समीपे निधायाचार्याय प्रब्रूयात्-इदमित्थमाहृतमिति॥३१॥ तेन प्रदिष्टं भुञ्जीत ॥ ३२ ॥ तेन ह्याचार्येण प्रदिष्टं सौम्य त्वमेव भुङ्क्ष्वेत्युक्तं भुञ्जीत ॥ ३२ ॥ विप्रवासे गुरोराचार्यकुलाय ॥ ३३ ॥ यदि गुरुर्विप्रोषितोऽसन्निहितः स्यात् तत् आचार्यकुलायाऽऽचार्यस्य यत्कुलं भार्यापुत्रादि तस्मै ब्रूयात् । तेन प्रदिष्टं भुञ्जीत ॥ ३३ ॥ तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ॥ ३४ ॥ तैस्स्वकुल्यैस्सह गुरोः विप्रवासे अन्येभ्योऽपि “(३)श्रोत्रियेभ्य. प्रब्रूयात् । तैः प्रदिष्टं भुञ्जीतेति विपरिणामेनान्वयः । गौतमोऽप्याह(४) “असन्निधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः’ इति ॥ ३४ ॥ नाऽऽत्मप्रयोजनञ्चरेत् ॥ ३५ ॥ १. आप. श्रौ. १३. १४. ९, १० सोमयागे पत्नीवतग्रहे प्राप्तस्याप्यनुवषट्कार- निषेधस्य उपांश्वनुवषट्कारविधानार्थं नानुवषट्करोतीत्यनुवादः । २. इतः सूत्रत्रयमेकीकृतं ग. पुस्तके । ३ श्रोत्रियपदार्थः आप. ध. २. ४. ६ सूत्रे द्रष्टव्य. । ४. गौ. ध. २. ४०.