आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 33, कुल 399 में से
संदर्भ में पढ़ें२२ आपस्तम्बधर्मसूत्रे • [ (प. १.) कं. ३. आत्मा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । एवंभूतो भिक्षां न चरेत् आत्मार्थे न चरेदित्यर्थः । अस्य प्रयोजनं यदा श्रोत्रिया अपि न लभ्यन्ते तदा(१)'प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीते'ति वक्ष्यमाणमप्रोषि- तेऽपि यथा स्यादिति ॥ ३५ ॥ भुक्त्वा स्वयममत्रं प्रक्षालयीत ॥ ३६ ॥ अमत्रं भोजनपात्रम्, भुक्त्वेति सन्निधानात् । तत्स्वयमेव प्रक्षालयीत प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पात्रयो र्ग्रहणमित्यन्ये ॥ ३६ ॥ न चोच्छिष्टं कुर्यात् ॥ ३७ ॥ यावच्छक्नोति भोक्तु तावदेव भोजनपात्रे कृत्वा भुञ्जीत ॥ ३७ ॥ अशक्तौ भूमौ निखनेत् ॥३८॥ भोजने प्रवृत्तो यदि तावद्भोक्तुं न शक्नुयात् तदा तदन्नं भूमौ निखनेत् ॥ ३८ ॥ अप्सु वा प्रवेशयेत् ॥ ३९ ॥ अप्सु प्रक्षिपेत् ॥ ३९ ॥ आर्याय वा पर्यवदध्यात् ॥ ४० ॥ आर्यस्त्रैवर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सर्वमेकस्मिन्पात्रेऽव- धाय तत्समीपे भूमौ स्थापयेत् ॥ ४० ॥ अन्तर्धिने वा शूद्राय ॥ ४१ ॥ अन्तर्द्धानमन्तर्धिः सोऽस्यास्तीति । व्रीह्यादित्वादिनिः । अन्तर्धी दा- सः । अन्तर्हितं हि तस्य शूद्रत्वम्, आशौचेषु स्वामितुल्यत्वात् । प्रक- रणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवदध्यात्४१॥ प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत ॥ ४२ ॥ यदि शिष्य आचार्यार्थमात्मार्थं वा प्रोषितः स्यात् तदा भैक्षात् कि ञ्चिदादायग्नौ कृत्वा प्रक्षिप्य शेष भुञ्जीत श्रोत्रियाणां सद्भावे असद्भावे च । 'अन्यभ्योऽपि श्रोत्रियेभ्य'(२) इत्येतन्न भवति । यदि स्यात्तत्रैवायं ब्रूया 'तदभावेऽग्नौ कृत्वा भुञ्जीते' ति । यद्यपि तत्राचार्यस्य प्रवासः १. आप. ध. १. ३. ४२ २ इत्येतत्तत्र न भवति. इति ख. पु.