भारतकोश
संग्रह पर लौटें

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

२२ आपस्तम्बधर्मसूत्रे • [ (प. १.) कं. ३. आत्मा प्रयोजनं प्रयोजकः यस्य स आत्मप्रयोजन । एवंभूतो भिक्षां न चरेत् आत्मार्थे न चरेदित्यर्थः । अस्य प्रयोजनं यदा श्रोत्रिया अपि न लभ्यन्ते तदा(१)'प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीते'ति वक्ष्यमाणमप्रोषि- तेऽपि यथा स्यादिति ॥ ३५ ॥ भुक्त्वा स्वयममत्रं प्रक्षालयीत ॥ ३६ ॥ अमत्रं भोजनपात्रम्, भुक्त्वेति सन्निधानात् । तत्स्वयमेव प्रक्षालयीत प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येन प्रक्षालने न दोषः । उभयोरपि पात्रयो र्ग्रहणमित्यन्ये ॥ ३६ ॥ न चोच्छिष्टं कुर्यात् ॥ ३७ ॥ यावच्छक्नोति भोक्तु तावदेव भोजनपात्रे कृत्वा भुञ्जीत ॥ ३७ ॥ अशक्तौ भूमौ निखनेत् ॥३८॥ भोजने प्रवृत्तो यदि तावद्भोक्तुं न शक्नुयात् तदा तदन्नं भूमौ निखनेत् ॥ ३८ ॥ अप्सु वा प्रवेशयेत् ॥ ३९ ॥ अप्सु प्रक्षिपेत् ॥ ३९ ॥ आर्याय वा पर्यवदध्यात् ॥ ४० ॥ आर्यस्त्रैवर्णिकः तस्मै अनुपनीताय पर्यवदध्यात् सर्वमेकस्मिन्पात्रेऽव- धाय तत्समीपे भूमौ स्थापयेत् ॥ ४० ॥ अन्तर्धिने वा शूद्राय ॥ ४१ ॥ अन्तर्द्धानमन्तर्धिः सोऽस्यास्तीति । व्रीह्यादित्वादिनिः । अन्तर्धी दा- सः । अन्तर्हितं हि तस्य शूद्रत्वम्, आशौचेषु स्वामितुल्यत्वात् । प्रक- रणादाचार्यस्येति गम्यते । आचार्यदासाय वा शूद्राय पर्यवदध्यात्४१॥ प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत ॥ ४२ ॥ यदि शिष्य आचार्यार्थमात्मार्थं वा प्रोषितः स्यात् तदा भैक्षात् कि ञ्चिदादायग्नौ कृत्वा प्रक्षिप्य शेष भुञ्जीत श्रोत्रियाणां सद्भावे असद्भावे च । 'अन्यभ्योऽपि श्रोत्रियेभ्य'(२) इत्येतन्न भवति । यदि स्यात्तत्रैवायं ब्रूया 'तदभावेऽग्नौ कृत्वा भुञ्जीते' ति । यद्यपि तत्राचार्यस्य प्रवासः १. आप. ध. १. ३. ४२ २ इत्येतत्तत्र न भवति. इति ख. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २३ प्रकृतः, तथापि न्यायसाम्याच्छिष्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥ अथ ब्रह्मचारिणो यज्ञं विधातु हविरादीनि सम्पादयति— भैक्षं हविषा संस्तुतं तत्राऽऽचार्यो देवतार्थे ॥ ४३ ॥ भैक्षं हविष्येन सस्तुतं कीर्तितम् । तत्र तस्मिन् हविषि आचार्यो देवतार्थे देवताकार्ये तत्प्रीत्यर्थत्वात्तस्य ॥ ४३ ॥ आहवनीयार्थे च ॥ ४४ ॥ तस्य जाठराग्नौ हूयमानत्वात् ॥ ४४ ॥ तं भोजयित्वा ॥ ४५ ॥ इति प्रथमप्रश्ने तृतीया कण्डिका । यदुच्छिष्टं प्राश्नाति ॥ १ ॥ अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा तस्योच्छिष्टं प्राश्नीयात् प्राश्नाति । शकारोऽपाठश्छन्दसो वा, 'शादि'ति श्चुत्वप्रतिषेधात् ॥ ४५ ॥ १ ॥ हविरुच्छिष्टमेव तत् ॥ २ ॥ इडाभक्षणादिस्थानीयमित्यर्थः ॥ २ ॥ यदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः ॥ ३ ॥ यदन्यानि द्रव्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च स्वयमाहृतानि यथालाभमुपहरति दक्षिणा एव ताः। दक्षिणासामानाधिकरण्या- त्ता इत्युक्तम् ॥ ३ ॥ स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४ ॥ स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचा रिणा यज्ञ एव नित्यं क्रियत इत्यर्थः ॥ ४ ॥ न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥ अस्मै शिष्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिष्टं न दद्यात् ॥ ५ ॥

२४ आपस्तम्बधर्मसूत्रे [ (प्र.१) कं ४. किं पुनस्तत्- यथा क्षारलवणमधुमांसानीति ॥ ६ ॥ यथेतिवचना'च्छ्रुतिविप्रतिषिद्ध'मिति लक्षणतः प्रतिषेधाच्च क्षारा- दिग्रहणमेवंविधस्योपलक्षणम् ॥ ६ ॥ एतेनान्ये नियमा व्याख्याताः ॥ ७ ॥ अभ्यङ्गशेषो गन्धशेषो माल्यशेष इत्यादयो ब्रह्मचारिणः प्रतिषि- द्धा आचार्येण न देया इत्युक्तं भवति ॥ ७ ॥ केचित्तु श्रुतिविप्रतिषिद्धमाचार्यशेषमुपयुञ्जाना दृश्यन्ते पूर्वः पूर्व आचारः प्रमाणमिति वदन्तः । तान्निराकरोति- श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ॥ ८ ॥ अनुमानाय प्रभवतीत्यानुमानिकः । आचाराद्धि श्रुतिः स्मृतिर्वाऽनु- मीयते । तस्मादानुमानिकादाचारात्प्रत्यक्षश्रुतिर्बलीयसी । तद्विरोधे तु नानु- मातुं शक्यते, (१) 'अनुमानमबाधितम्' इति न्यायात्। एव च ब्रुवता ब्रह्म- चारिणः क्षारलवणादिप्रतिषेधः प्रत्यक्षब्राह्मणमूल इति दर्शितं भवति । यद्यपि क्षारादिप्रतिषेधश्रुतेरुच्छिष्टव्यतिरिक्तको विषयः सम्भवति तथापि सङ्कोचोऽपि तस्या अविशेषप्रवृत्ताया आनुमानिकादाचारादयुक्तः॥ ८ ॥ ननु परस्परविरुद्धा अपि श्रुतय उपलभ्यन्ते (२) 'गृह्णाति, न गृह्णा- ती'ति । तत्किमाचारात् सङ्कोचिका श्रुतिर्नानुमीयते ? अत आह- दृश्यते चापि प्रवृत्तिकारणम् ॥९॥ स्यादेव यद्ययमाचारोऽगृह्यमाणकारणः स्यात् । गृह्यते तु तत्र कार- णम् ॥ ९ ॥ किं तत् ? प्रीतिर्ह्युपलभ्यते ॥ १० ॥ क्षारादिभोजने भुञ्जानस्य प्रीतिर्भवति । ततश्च यत्र प्रीत्युपलब्धित १. अनुमानबाधित इति न्यायात, इति. क. पु २. अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति. इति श्रुतिभ्यामेकस्मि- न्नेवातिरात्रसंस्थाके ज्योतिष्टोमे षोडशिसंज्ञस्य ग्रहस्य ग्रहणाग्रहणयोः परस्परविरुद्धयोर्वि- धानात् तयोरपि श्रुत्यो परस्परं विरोधादिति भावः । उलूखलाकार उपर्यासेचनवान् पात्रविशेषो ग्रहः । खदिरवृक्षनिर्मितो ग्रहविशेषष्षोडशी । तस्य सोमरसेन पूरणं ग्रहणम् ।

१. प्रथम प्रश्न (पटल १-५): उपनयन व ब्रह्मचर्य विधि

ब्रह्मचारिनियमः] उज्ज्वलोपेते प्रथमः प्रश्नः। २५ प्रवृत्तिर्न तत्र शास्त्रमस्ति। तदनुवर्तमानो नरकाय राध्यतीति न्यायान्न सङ्कोचिका श्रुतिरनुमीयते इति ॥ १० ॥ पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ ११ ॥ (१)स्पष्टम् ॥ ११ ॥ धर्मविप्रतिपत्तावभोज्यम् ॥ १२ ॥ यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यद्वा भुञ्जानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमांसादिमिश्रत्वेन ततो न भोज्यमिति ॥ १२ ॥ सायं प्रातरुदकुम्भमाहरेत् ॥ १३ ॥ आचार्यस्य स्नानपानार्थम् ॥ १३ ॥ (२)सदाऽरण्यादेधानाहृत्याऽधो निदध्यात् ॥ १४ ॥ सदा प्रत्यहमरण्यात् न पित्रादिगृहात् एधान् काष्ठानि आचार्यगृहे पाकार्थमाहरेत् आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु बालेषु पतनशङ्कया। अपर आह-आत्मनस्समिदाधानार्थं(३)मेधाहिरण- मिति । उक्त गृह्ये-(४)'एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य। इति। तदनुवादेनाधोनिधानं विधीयते दृष्टार्थमदृष्टार्थं वेति ॥ १४ ॥ नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥ अस्तमित आदित्ये समिध आहर्तुं न गच्छेत्; चोरव्याघ्रादिसम्भवात् । समिद्धार' इति(५)'अण् कर्मणि चे' ति तुमर्थेऽण्प्रत्ययः ॥ १५ ॥ अग्निमिध्वा परिसमूह्य समिध आदध्यात्सायं- प्रातर्यथोपदेशम् ॥ १६ ॥ परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने(६)रेकीकरणमित्यन्ये । यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृह्ये विहितमपि स- १. स्पष्टोऽर्थः इति० ग० पु० २. “तस्मात् ब्रह्मचार्यहरहस्समिध आहृत्य साय प्रातरग्नि परिचरेत, नोपर्युपसादयेत, अधः प्रतिष्ठापयेत्” ( गोप १ २. ६.) इति गोपथब्राह्मणम् ॥ ३. इध्माहरणं इति क. ख. पु. ४. आप० गृ० ११. २२. ५. पा० सू० ३. ३. १२. ६. राशीकरणमित्यन्ये इति ख० ग० पु० आप० ध० ४

२६ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क.४. मिदाधाने विधीयते सर्वचरणार्थम् । सायं प्रातरित्यादिकान्विशेषा- न् वक्ष्यामीति च ॥ १६ ॥ सायमेवाऽग्निपूजेत्येके ॥ १७ ॥ एके आचार्यास्सायमेवाग्निपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥ समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥ समिदाधाने समिद्धमग्निं पाणिनेव परिसमूहेत्, न समूहन्या । समूहनी स- म्मार्जनी दर्भनिर्मिता वेदाकृतिः, आचारात् ॥ १८ ॥ प्राक्तु याथाकामी ॥ १९ ॥ प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य भावो याथाकामी । ष्यञ्, षित्वादीकारः ॥ १९ ॥ नाऽग्न्युदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद्वा ॥२०॥ अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं, तच्छेषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत। नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २० ॥ पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च नाऽऽचामेत् ॥ २१ ॥ पाणिसंक्षुब्धं (१)पाणिना सङ्क्षोभित तेनोदकेन नाऽऽचामेत् । इदं तटाकादिषु स्वयमाचमने । यदा पर आचामयति, तदैकेन पाणिना यदावर्जितं तेन नाऽऽचामेत् । किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि- तमुदकं, तेनैवाऽऽचामेत् । एवं च स्वयं वामहस्तावर्जितेनापि नाचामेत् । (अलाबुपात्रेण नालिकेरेण वैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण स्वयमाचमनमाचरन्ति शिष्टाः) ॥ २१ ॥ स्वप्नं च वर्जयेत् ॥ २२ ॥ पूर्वं 'मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः । अनेन रात्रावपि यावदाचार्यो न स्वपिति, तावन्तं कालं स्वापः प्रतिषि- १. कुम्भादिगतमित्यधिकं घ. पु. ( ) एतच्चिन्हान्तर्गतो भागः ख० पुस्तके नास्ति । २. दिवास्वापप्रतिषेधः इति, क. पु.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । २७ ध्यते । स्वप्नकथनं वर्जयेदित्येके ॥ २२ ॥ अथाऽहरहराचार्यं गोपायेदूधर्मार्थयुक्तैः कर्मभिः ॥ २३ ॥ अथ स्वप्नस्य प्रकृतत्वात् स्वप्नानन्तरं ब्राह्मे मुहूर्ते उत्थायेत्यर्थः । अहरहः नित्यमाचार्यं गोपायेत् रक्षेत् । किं दण्डादि गृहीत्वा ? नेत्याह— धर्मार्थयुक्तैः कर्मभिः । धर्मयुक्तानि कर्माणि समित्कुशपुष्पाहरणादीनि, अर्थ- युक्तानि (१)युग्यघासाहरणादीनि ॥ २३ ॥ (२) स गुप्त्वा संविशन् ब्रूया 'द्धर्म गोपाय माजूगुपमह'मिति ॥ २४ ॥ स(३)ब्रह्मचारी धर्मार्थयुक्तैः कर्मभिर्यावदुत्थानात् यावदस्य संवेश- नात् एवमाचार्यं गुप्त्वा संविशन् शयनं भजन् (४)'धर्मगोपायमाजूगुपमह' मितीमं मन्त्रं ब्रूयात् । धर्मं गोपायतीति धर्मगोपायः आचार्यः तमहमाजूगुप- मामिमूरूपेण रक्षितवानस्मि, इदानीं तु संविशामीति मन्त्रार्थः । अपर आह—हे धर्म मा मां गोपाय रक्ष यस्मादहं आजूगुपमहमाचार्य- मेतावन्तं कालमिति ॥ २४ ॥ प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि . बोधयेत् ॥ २५ ॥ प्रमादोऽनवधानम् । प्रमादात् बुद्धिपूर्वं यो आचार्यस्य वा नियमातिक्रमस्तं रहसि बोधयेत् । इत्थमयं नियमः पूज्यपादैरतिक्रम्यते इति ॥ २५ ॥ अनिवृत्तौ स्वयं कर्माण्यारहभेत ॥ २६ ॥ यदि बोधितोऽप्याचार्यस्ततो न निवर्तते, ततः स्वयमेव तस्य कर्त- व्यानि ब्रह्मयज्ञादीनि कर्माण्यारहभेत कुर्यात् ॥ २६ ॥ निवर्तयेद्वा ॥ २७ ॥ १. एधसां हरणादीनि इति घ. पु. २. "स यदहरहराचार्यकुलेऽनुष्ठिते सोऽनुष्ठाय ब्रूयात्-धर्मगुप्तो मा गोपायेति धर्मो ह्येनं गुप्तो गोपायेति" इति गोपथब्राह्मणम् ( गो. ब्रा. १. २. ४. ) ३. न्यायादुत्थानान्न्यायाच्च संवेशनात् . इति क. ख. पु. अन्यायात्••••••दन्या- ध्याच्च••••इति. ङ पु. ४. यावदुपात्त एवायं मन्त्रः ।

२८ आपस्तम्बधर्मसूत्रे [ (प.१.)कं.४. प्रसह्य वा स्वयं निवर्तयेत् । पित्रादिभिर्वा निवर्तयेत् ॥ २७ ॥ अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति ॥ २८ ॥ यः पूर्वमाचार्यादुत्तिष्ठति प्रतिबुध्यते । जघन्यशब्दः पश्चादर्थे । जघ- न्यश्च संविशति, तं ब्रह्मचारिणं न स्वपितीति धर्मज्ञा आहु । प्रयोजनमुप- नयने 'मा सुषुप्था' इति संशासनस्यायमर्थः, न स्वापस्यात्यन्ताभाव इति । अथशब्दश्च वाक्योपक्रमे ॥ २८ ॥ स य एवं प्रणिहितात्मा ब्रह्मचर्यत्रैवास्य सर्वाणि क- र्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे ॥२९॥ ‘आचार्याधीनः स्या’ दित्यारभ्य यस्य नियमा उक्ताः, स ब्रह्मचारी, एवमुक्तेन प्रकारेण, प्रणिहितात्मा प्रकर्षेण निहित आचार्यकुले स्थापित आत्मा येन स तथोक्त. । प्रकर्षश्च(१)आत्मनस्तत्रैव शरीरन्यासः । वक्ष्यति (२)आचार्यकुले शरीरन्यासः ” इति । अस्यैवंविधस्य ब्रह्म- चारिणः अत्रैव ब्रह्मचर्याश्रमे सर्वाणि फलवन्ति ज्योतिष्टोमादीनि कर्माण्य- वाप्तानि भवन्ति । तत्फलावाप्तिरेव तदवाप्तिः । यान्यपि कर्माणि गृहमेधे गृह्यशास्त्रे विवाहाद्यष्टकान्तानि, तान्यवाप्तानि भवन्ति । तदेवं नैष्ठिकब्र- ह्मचारिविषयमिदं सूत्रम् ॥ २९ ॥ इत्यापस्तम्बीये धर्मसूत्रे चतुर्थी कण्डिका ॥ ४ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ(३) हरदत्तविरचितायामुज्ज्वलायां प्रथमप्रश्ने प्रथमः पटलः ॥ १ ॥ १. आन्तात्तत्रैव शरीरन्यासः इति ख. पु. अन्ततस्तत्रैव, इति, घ. पु. २. आप. ध. २. २१. ६. ३. हरदत्तमिश्रविरचितायां इति क० पु०

अथ द्वितीयः पटलः । नियमेषु तपश्शब्दः ॥ १ ॥ 'आचार्याधीनः स्या'दित्यादयो ये नियमाः अस्मिन्ब्रह्मचारिप्रकरणे निर्दिष्टाः, तपश्शब्दस्तेषु द्रष्टव्यः, न तु कृच्छ्रादिषु ॥ १ ॥ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहाप- त्यादेतस्मात् ॥ २ ॥ तेषां नियमानामतिक्रमे विद्याकर्म विद्याग्रहणं ब्रह्म निःस्रवति गृहीतं वेदं निस्सारयति । कुतः ? एतस्मात् नियमातिक्रमेणाध्येतुः पुरुषात् । न के वलमेतस्मात् । किं तर्हि ? सहापत्यात् । अपत्येन सह वर्तत इति सहापत्यः (१)'वोपसर्जनस्ये'ति सभावाभावे रूपम् । अपत्यादपि ब्रह्म निःसारयति। यद्यप्यपत्यं नियमातिक्रमकारि न भवति, तथापि पितृदोषादेव ततो- ऽपि ब्रह्म निस्सारयति । नियमातिक्रमेण विद्याग्रहणं कुर्वतः पुरुषात् सहापत्यात् गृहीतं ब्रह्म निस्सरति, ब्रह्मयज्ञादिषूपयुज्यमानमप्यकिं- ञ्चित्करं भवतीत्यर्थो विवक्षितः । स्रवतेश्च सकर्मकस्य प्रयोगो भाष्ये दृष्टः 'स्रवत्युदकं कुण्डिकेति । अपर आह—(२)तदतिक्रमे नियमातिक्रमे विद्याग्रहणं न कर्तव्यम् । कुतः ? यतो निस्स्रवति ब्रह्म निस्सरतीत्यर्थः, शेषं समानमिति । विद्याकर्म निस्स्रवति ब्रह्म च निस्स्रवतीत्यन्ये । अन्ये च—कुर्वत इत्यध्याहार्यम् । तदतिक्रमेण विद्याकर्म कुर्वतो ब्रह्म निस्स्रवतीति ॥ २ ॥ न केवलमकिञ्चित्करं नियमातिक्रमेण विद्याग्रहणम्, प्रत्युताऽनर्थ- कारीत्याह— कर्तपत्यमनायुष्यं च ॥ ३ ॥ कर्तशब्देन श्वभ्राभिधायिना नरको लक्ष्यते । पतत्यनेनेति पत्यम् । एवंभूतं विद्याग्रहणं नरकपातहेतुर्भवति । अनायुष्यं च अनायुष्करं च ॥ ३ ॥ १. पा.सू. ६ ३.८२. बहुव्रीह्यवयवस्य सहशब्दस्य सभावावस्यद्विकल्पेन इति सूत्रार्थः। २. तदतिक्रमे विद्याकर्म निस्स्रवतीति नियमातिक्रमेण विद्याग्रहणं न कर्तव्यम्, कुतः ? यतो निस्स्रवति ब्रह्मनिस्सारयतीत्यर्थः, इति क. पु.

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है, यह पूरी तरह से एक रिक्त (blank) पृष्ठ है।

अभिवादनम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३१ र्षन् मनसा निर्दयेन शिवेन वा ध्यायति-इत्थमिदमस्याऽस्त्विति, तथैव तद्भू- -वति । तथा यत्किञ्च सङ्कल्पयन्वाचा (१)क्रूरया मधुरया वा आह— 'इत्थमिदमस्यास्त्विति, तथैव तद्भवति । एव यत्किञ्च सङ्कल्पयन् चक्षुषा घोरेण वा मैत्रेण वा अभिविपश्यति तथैव तद्भवतीत्युपदिशन्ति धर्मज्ञाः ॥ ८ ॥ अवश्यं धर्मयुक्तेनाध्येतव्यमित्युक्तम् । इदानीं ते धर्मा लक्षणतस्त्रि- विधा इत्याह— गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसं- -वृत्ति(२)रिति ॥ ९ ॥ यैरनुष्ठितैः गुरुः प्रसीदति तानि गुरुप्रसादनीयानि पादप्रक्षालनादी- नि कर्माणि । स्वस्तीत्यविनाशिनाम । तत्प्राप्तिसाधनं स्वस्त्ययनम् । तच्च त्रिविधंदृष्टार्थमदृष्टार्थमुभयार्थं चेति । दृष्टार्थं बाहुनदीतरणादिनिषेधः । अदृष्टार्थं क्षारादिनिषेधः । उभयार्थं भिक्षाचरणादि । अध्ययनसम्वृत्ति- रधीतस्य वेदस्याऽभ्यासः ॥ ९ ॥ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि ॥ १० ॥ एतेभ्यः अन्यानि कर्माणि निवर्तन्ते ब्रह्मचारिणो, न कर्तव्यानीत्यर्थः ॥१०॥ स्वाध्यायधृग्धर्मरुचिस्तपस्व्यृजुर्मृदुस्सिद्ध्यति ब्रह्मचारी ॥ ११ ॥ स्वाध्यायधृक् अधीतस्य(३)वेदस्य धारयिता अविस्मर्ता । धर्मे रुचि- र्यस्य स धर्मरुचिः । तपस्वी नियमेषु तपश्शब्दः तद्वान् । ऋजुः अमायावी । मृदु । क्षमावान् । एवम्भूतो ब्रह्मचारी सिद्ध्यति सिद्धिं प्राप्नोति । उक्ता सिद्धिः(४)'अथो यत्किञ्च मनसे 'ति । तत्रोक्तानां पुनर्वचनमादरार्थम् । तदनुष्ठाने फलभूमा, अतिक्रमे च दोषभूमेति तात्पर्यम् ॥ ११ ॥ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभि- वादनमभिवादयीताऽसावहं भो, इति ॥ १२ ॥ सदा प्रतिदिनं महान्तमपररात्रं रात्रेः पश्चिमे याम उत्तिष्ठेत् । उत्थाय च १. घोरया इति. क. पु २. अयं 'इति' शब्द उत्तरसूत्रस्यादौ पठितः क० पुस्तके ३ 'स्वाध्यायस्य' इति क. ख. पु. ४. आप. ध १. ५. ८.

३२ आपस्तम्बधर्मसूत्रे (प्र. १) कं. ५. समीपे तिष्ठन् गुरोः प्रातरभिवादनमभिवादयीत—'असावह भो' इति न् । अ- सावित्यत्राऽऽत्मनो नामनिर्देशः, यथा—'अभिवादये शर्माऽहं भो' इति ॥ १२ ॥ समानग्रामे च वसतामन्येषामपि वृद्धतरां प्राक्प्रातराशात् ॥ १३ ॥ अन्येषामप्याचार्यव्यतिरिक्तानाम् प्राक्प्रातराशात् प्रातर्भोजनात्प्राक् प्रातरभिवादमभिवादयीत, ते चेत् समानग्रामे वसन्ति ॥ १३ ॥ प्रोष्य च समागमे ॥ १४ ॥ यदा स्वयं प्रोष्य समागतो भवति, आचार्यादयो वा तदाऽप्यभिवा- दयीत । इदं नैमित्तिकम् । पूर्वं नित्यम् ॥ १४ ॥ अथ काम्यम्— • स्वर्गमायुश्चेप्सन् ॥ १५ ॥ अभिवादयीतेत्येव ॥ १५ ॥ अभिवादनप्रकारं वर्णानुपूर्व्येणाऽऽह— दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवाद- यीतोरस्समं राजन्यो मध्यसमं वैश्यो(१) नीचै- र्शूद्रः प्राञ्जलि ॥ १६ ॥ ब्राह्मणोऽभिवादयमानः आत्मनो दक्षिणं बाहुं श्रोत्रसमं प्रसार्याभिवादयीत । उरस्समं राजन्यः । दक्षिणं प्रसार्याभिवादयीतेत्यत्रानुवर्तते । एवमुत्तरयो- रपि । मध्यसममुदरसमम् । ऊरुसममित्यन्ये । नीचैः पादसमं शूद्रोऽभिवा- दयीत । प्राञ्जलि यथा भवति तथा अभिवादयति । अञ्जलिं कृत्वेत्यर्थः । प्राञ्जलिरिति युक्तः पाठः ॥ १६ ॥ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् ॥ १७ ॥ अभिवादनस्य यत्प्रत्यभिवादनं तत्राभिवादयितुर्नाम्नः प्लावनं कर्तव्यम् प्लुतः कर्तव्य इत्यर्थः । पूर्वेषां वर्णानां शूद्रवर्जितानामभिवादयमानानाम् । १. •••नीचैश्शूद्रः ॥ १६ ॥ प्राञ्जलि ॥ १७ ॥ इति पाठः क. घ. पु.

पादोपसङ्ग्रहणम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३३ (१)प्रत्यभिवादेऽशूद्रे' इति पाणिनीयस्मृतिः । तत्र (२)'वाक्यस्य टे' रि- त्यनुवृत्तेः प्रत्यभिवादवाक्यस्यान्ते नामप्रयोगः तस्य टेः प्लुतः । 'आयु- ष्मान् भव सौम्या३ इति प्रयोक्तव्यः । स्मृत्यन्तरवशान्नाम्नश्च पश्चाद- कारः । तथा च मनुः- (३)आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥” इति । 'आयुष्मान् भव सौम्य देवदत्त ३ अ' इति प्रयोगः । शम्भुर्विष्णुः पिनाकपाणिश्चक्रपाणिरित्यादीनां नाम्नां सम्बुद्धौ गुणे कृते 'एचोऽप्र- गृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ' इत्ययं विधिर्भवति । अन्ते अकारः । (४) 'तयोर्र्वावचि संहितायाम्' इति यकारवकारौ च भव- तः-शम्भा ३ व, विष्णा ३ व, पिनाकपाणा ३ य, चक्रपाणा ३ य, इति । अत्र सूत्रे 'प्रत्यभिवादने चे'ति चकारस्यार्थं न पश्यामः । अपर आह—'अभिवादने प्रत्यभिवादने च प्लावन'मिति । अस्मि- न्नपि पक्षे द्वन्द्वेनाभिहितत्वाच्चशब्दोऽनर्थक एव । अभिवादने च शास्त्रान्तरे न क्वापि प्लुतो विहितः । तस्मादनर्थक एव चकारः । अनर्थकाश्च निपाता बहुलं प्रयुज्यन्ते ॥ १७ ॥ उदिते त्वादित्य आचार्येण समेत्योपसंग्रहणम् ॥१८॥ उदिते त्वादित्ये आचार्येण अध्ययनार्थं समेत्य वक्ष्यमाणेण विधिनोपसंग्रहण कुर्यात् ॥ १८ ॥ सदैवाऽभिवादनम् ॥ १९ ॥ अन्यदा सर्वदा पूर्वोक्तप्रकारेणाभिवादनमेव । अयमनुवाद उत्तर- विवक्षया ॥ १९ ॥ उपसंग्राह्य आचार्य इत्येके ॥२०॥ अभिवादनप्रसङ्गे सदैव उपसंग्राह्य आचार्य इत्येके मन्यन्ते ॥ २० ॥ १ पा सू ८. २. ८३ शूद्रभिन्नविषये प्रत्यभिवादे यद्वाक्य 'आयुष्मान् भव सौ- म्य" इत्यादिरूप तस्य टेः प्लुतस्स्यात्, स चोदात्त इति सूत्रार्थः । २. पा. सू ८. २ ८२ ३. मनु. स्मृ २ १२५. ४. पा. सू ८ २. १०८. इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् इति सूत्रार्थः । आप० ध० ५

३४ आपस्तम्बधर्मसूत्रे [प्र.२,क.५ ननु किमिदमुपसंग्रहणम् ? तदाह- दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् ॥ २१ ॥ आत्मनो दक्षिणेन पाणिना आचार्यस्य दक्षिणं पादं अधस्तादभ्यधिमृश्य, अधिशब्द उपरिभावे, अधस्ताच्चोपरिष्टाच्चाभिमृश्य । सकुष्ठिकं सगु- ल्फम् । साङ्गुष्ठमित्यन्ये । उपसंगृह्णीयात् । इदमुपसंग्रहणम् । एतत्कुर्यात्२१॥ उभाभ्यामेवोभावभिपीडयत उपसंग्राह्यावित्येके ॥२२॥ उभाभ्यां पाणिभ्यां उभावेवाऽऽचार्यस्य पादौ अभिपीडयतो माणवकस्य उपसंग्राह्यावित्येके मन्यन्ते । अभिपीडयत इति "(१)कृत्यानां कर्तरि"इति कर्तरि षष्ठी । अत्र मनुः- (२)'व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ इति ॥ २२ ॥ सर्वाह्नं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ॥ २३ ॥ सर्वे च तदहश्च सर्वाह्नम् । (३)'राजाहस्सखिभ्यष्टच् ।' (४)'अहोऽह्न एतेभ्य' इत्याहादेशः । (५)'अह्नोऽदन्ता'दिति णत्वम् । अत्यन्तसंयोगे द्वितीया ।' सर्वाह्नं सदा सुयुक्तः सुसमाहितः अनन्यचित्तः । अध्ययनादनन्तरः नान्तरयतीत्यनन्तरः । अध्ययनाद्यथा आत्मानं नान्तरयति यथा अ ध्ययनान्न विच्छिद्येत तथा स्यात् । अध्याये स्वाध्यायकाले । अध्याय इत्यनुवादः । (६)'मनसा चानध्याय' इति विशेषविधानात् । 'अध्याये' दिति प्रायेण पठन्ति । तत्र तकारोऽपपाठश्छान्दसो वा ॥ २३ ॥ तथा गुरुकर्मसु ॥ २४ ॥ गुरुकर्मसु च तथा स्यात् सुयुक्तोऽनन्तरश्च स्यात् ॥ २४ ॥ १. पा. सू. २. ३. ७१ २. म. स्मृ. २. ७२. ३. पा० सू० ५. ४ ९१. राजन्शब्दान्तादहन्शब्दान्तात् सखिशब्दान्ताच्च तत्पुरुषात् टच् स्यात् इति सूत्रार्थः ॥ ४. सर्वै, कदेश, सख्यात, पुण्यशब्देभ्यः परस्याहन्शब्दस्याह इत्यादेशस्स्यात् समासान्ते परे इति सूत्रार्थ । ५. ९ ४ ७. अदन्तपूर्वपदस्थाद्रेफात् परस्याहादेशस्य नस्य णस्स्यात् इति सूत्रार्थः । ६. आप. ध. १. ५. २६.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३५ मनसा चाऽनध्याये ॥ २५ ॥ अनध्यायकाले मनसा च अध्यायादनन्तरः स्यात् । सन्देहस्थानानि मनसा निरूपयेत् । अध्ययनविषयामेव चिन्तां कुर्यात् ॥ २५ ॥ आहूताध्यायी च स्यात् ॥ २६ ॥ आचार्येणाहूतस्सन्नधीयीत, नाध्यापने स्वयं प्रवर्तयेत् ॥ २६ ॥ ॥ इत्यापस्तम्बीये धर्मसूत्रे पञ्चमी कण्डिका ॥ सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य ॥ १ ॥ सदा प्रत्यहं निशायां अतिक्रान्ते प्रदोषे गुरु संवेशयेत् । कथम् ? तस्य गुरोः पादौ प्रक्षाल्य संवाह्य च । संवाहनं मर्दनम् ॥ १ ॥ अनुज्ञातः संविशेत् ॥ २ ॥ (१)गुरुणाऽनुज्ञातस्तु स्वयं संविशेत् शयीत ॥ २ ॥ न चैनमभिप्रसारयीत ॥ ३ ॥ एनमाचार्यं प्रति पादौ न प्रसारयेत् ॥ ३ ॥ न खट्वायाँ सतोऽभिप्रसारणमस्तीत्येके ॥ ४ ॥ यदा तु गुरुः खट्वाया शेते तदा तं प्रति पादयोः प्रसारणं न दोषा- येत्येके मन्यन्ते, स्वपक्षस्तु तत्रापि दोष इति ॥ ४ ॥ न चाऽस्य सकाशे संविष्टो भाषेत ॥ ५ ॥ अस्याऽऽचार्यस्य सकाशे स्वयं संविष्ट. शयानो न भाषेत। कार्यावेदनादावु- त्त्थायैव भाषेत ॥ ५ ॥ अभिभाषितस्त्वासीनः प्रतिब्रूयात् ॥ ६ ॥ आचार्येणा(२)भिभाषितस्त्वासीनः प्रतिब्रूयात् । एतदाचार्ये आसीने शया- ने वा ॥ ६ ॥ अनूत्थाय तिष्ठन्तम् ॥ ७ ॥ १. पश्चाद्गुरुणा इति ख. पु २. अभिभाषिणस्सन् इति ख. पु.

३६ आपस्तम्बधर्मसूत्रे [ (प.२.)क.६. यदा त्वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे स्पष्टार्थे ॥ ७ ॥ गच्छन्तमनुगच्छेत् ॥ ८ ॥ धावन्तमनुधावेत् ॥ ९ ॥ न सोपानद्वेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥ उत्तरोपानत्प्रतिषेधा'न सोपान'दित्यनुवादः 'अध्वापन्नस्त्वि'ति प्रतिप्रसोतुम् । आचार्यं न सोपानत्क आसीदेत् । नापि वेष्टितशिराः । अवहितपाणि. दात्रादिहस्तः एवम्भूतोऽपि नासीदेत् ॥ ८-१० ॥ अध्वापन्नस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ११ ॥ अध्वानं प्राप्तोऽध्वापन्नः कर्मणि दात्रादिसाध्ये प्रवृत्तः कर्मयुक्तः एवं- भूतस्तु सोपानत्कोऽप्यासीदेत् ॥ ११ ॥ न चेदुपसीदेत् ॥ १२ ॥ (१) न चेदाचार्यस्समीपे, उपसीदेत् उपविशेत् । यदि तूपविशेदध्वा- पन्नः कर्मयुक्तो वा तदोपानत्प्रभृतीनि विहायोपविशेत् ॥ १२ ॥ देवमिवाचार्यमुपासीताऽविकथयन्नविमना वाचं शुश्रूषमाणोऽस्य ॥ १३ ॥ यो यं देवं भजते स तद्भावनया तमिवाऽऽचार्यमुपासीत । अविकथयन् (२)व्यर्थां कथामकुर्वन् । अविमनाः अविक्षिप्तमनाः । अस्याऽऽचार्यस्य वाचं शुश्रूषमाणः ॥ १३ ॥ अनुपस्थकृतः ॥ १४ ॥ (३)उपस्थकरणं प्रसिद्धम् । तत्कृत्वा नोपासीत ॥ १४ ॥ अनुवाति(४) वाते वीतः ॥ १५ ॥ वाते अनुवाति सति वीतः विपर्ययेणेतः उपासीत । प्रतिवातं तु वक्ष्यमा- णेन प्रतिषिध्यते । मनुरप्याह- (५)'प्रतिवातेऽनुवाते च नासीत गुरुणा सहे'ति ॥ १५ ॥ १. न चेदाचार्यसमीपे उपसीदेत् उपविशेत् इति ख, पु. २. व्यर्था कथा विकथा तामकुर्वन् इति. ख. पु. ३. आकुञ्चितस्य सव्यजानुनउपरिदक्षिणं पादं प्रक्षिप्योपवेशनमुपस्थकरणम् । ४. 'वाते' इति नास्ति ख. पु. ५. मनु. स्मृ. २.२०३.

ब्रह्मचारिनियमः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३७ अप्रतिष्ठब्धः पाणिना ॥ १६ ॥ पाणिना प्रतिष्ठब्धो न स्यात् पाणितलं भूमौ कृत्वा पाण्यवलम्बनो नाऽऽसीत ॥ १६ ॥ अनपाश्रितोऽन्यत्र ॥ १७ ॥ अन्यत्र कुड्याद्यपाश्रितो न स्यात् । कुड्याद्यपाश्रितो नासीत ॥ १७ ॥ यज्ञोपवीती द्विवस्त्रः ॥ १८ ॥ यदा द्विवस्त्रस्तदा वाससोऽन्यतरेण यज्ञोपवीती स्यात् । (१) “अपि वा सूत्रमेवोपवीतार्थ” इत्येष कल्पस्तदा न भवति ॥ १८ ॥ अधोनिवीतस्त्वेकवस्त्रः ॥ १९ ॥ यदा त्वेकवस्त्रो भवति तदा अधोनिवीतः स्यात् । न तस्य दीर्घस्याप्येक- देशेनोत्तरीयं कुर्यात् ॥ १९ ॥ अभिमुखोऽनभिमुखम् ॥ २० ॥ स्वयमाचार्याभिमुखः आत्मानं प्रत्यनभिमुखमाचार्यमुपासीत । (२) स्व- यमाचार्यमपश्यन् आचार्यस्य पुरत आर्जवे नाऽऽसीत ॥ २० ॥ अनासन्नोऽनतिदूरे (३) च ॥ २१ ॥ अत्यासन्नो न स्यादतिदूरे च न स्यात् ॥ २१ ॥ यावदासीनो बाहुभ्यां प्राप्नुयात् ॥ २२ ॥ यावत्यन्तराले आसीन आचार्यं बाहुभ्यां प्राप्तुं शक्नुयात् तावत्या- सीत ॥ २२ ॥ अप्रतिवातम् ॥ २३ ॥ आचार्यस्य (४) प्रतिवाते नाऽऽसीत ॥ २३ ॥ एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् ॥ २४ ॥ यदा एक एवाधीते तदा आचार्यस्य दक्षिणं बाहुं प्रति दक्षिणे पार्श्व उपसीदत् उपविशेत् ॥ २४ ॥ यथावकाशं बहवः ॥ २५ ॥ १. आप ध २. ४. २२. २. स्वयमाचार्यमेव पश्यन् इति. ख पु. ३. चकारो नास्ति ख. पुस्तके ४. प्रतिवातं इति ख. पु

३८ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. ६. बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥ तिष्ठति च नाऽऽसीताऽनासनयोगविहिते ॥ २६ ॥ आसनयोग आसनकल्पना । आसनयोगेन विहितस्सम्भावित आस- नयोगविहितः । आसनयोगेनाऽसम्भाविते आचार्ये तिष्ठति सति स्वयं नाऽऽसीत ॥ २६ ॥ आसीने च न संविशेत् ॥ २७ ॥ (१)'अशयनयोगविहिते' इति पूर्वानुसारेण गम्यते । शयनयोगेना- सम्भावित आचार्ये आसीने स्वयं न संविशेत् न शयीत ॥ २७ ॥ चेष्टति च चिकीर्षंस्तच्छक्तिविषये ॥ २८ ॥ व्यत्ययेन परस्मैपदम् । आचार्ये चेष्टति सति स्वयमपि तच्चिकीर्षन् स्यात् । किमविशेषेण, ? शक्तिविषये । यद्याचार्येण क्रियमाणमात्मनश्श- क्तेर्विषयो भवति । 'चिकीर्ष' न्निति सन्प्रयोगादिच्छामेव प्रदर्शयेत् ना च्छिद्य कुर्यात् । प्रदर्शितायां त्विच्छायामाचार्यश्चेदनुजानीयात् , कु र्यात् । अशक्तिविषये तु नेच्छापि प्रदर्शयितव्या । चिकीर्षेदिति युक्तः पाठः ॥ २८ ॥ न चास्य सकाशेऽन्वक्स्थानिन उप- सङ्गृह्णीयात् ॥ २९ ॥ आचार्यव्यतिरिक्ता गुरवोऽन्वक्स्थानिन इति स्मार्त्तो व्यवहारः । आ- चार्यः श्रेष्ठो गुरूणाम् । तमपेक्ष्यान्वक्स्थानं पदमेषामिति कृत्वा । आचार्य स्य सन्निधौ अन्वक्स्थानिनं नोपसङ्गृह्णीयात् ॥ २९ ॥ गोत्रेण वा कीर्तयेत् ॥ ३० ॥ न चैनमन्वक्स्थानिनं गोत्रेण अभिजनकुलादिना वा कीर्तयेत् न स्तुवीत भार्गवोऽयं महाकुलप्रसूत इति ॥ ३० ॥ न चैनं प्रत्युत्तिष्ठेदनुत्तिष्ठेद्वा(२)पि चेत्तस्य - गुरुः स्यात् ॥ ३१ ॥ प्रत्युत्थानमप्यस्य न कर्तव्यमाचार्यस्य सकाशे । यदा पुनरसावा- १. आसनयोग इति क० पु० २. अपि चेत्यादि सूत्रान्तरं. ख. च. पु ।

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ३९ चार्यसकाशे त्वासित्वा गमनायोत्तिष्ठति तदाऽनुत्थानमपि न कर्तव्य- म् । यद्यप्यसौ तस्य(१)आचार्यस्य मातुलादिः गुरुः स्यात् । (२)'आचार्य- प्राचार्यसन्निपात' इति वक्ष्यति। तेनैव न्यायेन(३)मातुलादिष्वपि प्रसङ्गे इदमुक्तम् ॥ ३१ ॥ देशाच्चासनाच्च संसर्पेत् ॥ ३२ ॥ किं तु देशादासनाच्च संसर्पत्तस्य सम्मानार्थम् ॥ ३२ ॥ नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ॥ ३३ ॥ तस्याचार्यस्यान्तेवासिनं नाम्नैव कीर्तयेत् 'यज्ञशर्मन्नि'ति । यद्यप्यसा- वात्मनो गुरुर्भवति इत्येवमेके मन्यन्ते । स्वपक्षस्तु गुरोर्नामग्रहणं न कर्तव्यमिति ॥ ३३ ॥ यस्मिंस्त्वनाचार्यसम्बन्धाद्गौरवं वृत्तिस्त- स्मिन्नन्वक्स्थानीयेऽप्याचार्यस्य ॥ ३४ ॥ यस्मिंस्तु पुरुषे शिष्याचार्यभावमन्तरेणापि विद्याचारित्रादिना लौकिकानां गौरवं तस्मिन्नन्वक्स्थानीये ऽप्याचार्ये या वृत्तिस्सा कर्तव्या। अन्वक्स्थानीयोऽप्यनन्वक्स्थानीय्येव ॥ ३४ ॥ भुक्त्वा चास्य सकाशे नानुत्थायोच्छिष्टं प्रयच्छेत् ॥ ३५ ॥ आचार्यस्य भुञ्जानस्याऽभुञ्जानस्य वा सकाशे भुक्त्वा अनूत्थाय छान्दसो दीर्घः । उत्थानमकृत्वा उच्छिष्टं न प्रयच्छेत् (४)'आर्याय वा पर्यवदध्या'- दिति यद्विहितम् ॥ ३५ ॥ आचामेद्वा ॥ ३६ ॥ आचमनमप्यनुत्थाय न कुर्यात् ॥ ३६ ॥ किं करवाणीत्यामन्त्र्य ॥ ३७ ॥ आचम्य किं करवाणीति गुरुमामन्त्र्य ॥ ३७ ॥ इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने षष्ठी कण्डिका ॥ १. माणवकस्य इति क. पु. २. आप० ध० १. ८. १९ पूजां वक्ष्यतीति ख० पु० ३. मातुलादिप्रसङ्गे इति क० पु० ४. आप० ध० १. ३. ४०.

४० आपस्तम्बधर्मसूत्रे [ (प. २) क. ७. उत्तिष्ठेत्तूष्णीं वा ॥ १ ॥ उत्तिष्ठेत् तूष्णीं वा । विकल्पः । आमन्त्रयेति लिङ्गात्( १ )उत्थाया- प्याचामन्नाचार्यसकाश एवाऽऽचामेत् ॥ १ ॥ नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्याऽपेयात् ॥ २ ॥ उत्थाय कार्यवत्तया गन्तुमिच्छन् गुरोरप अपसव्यं न पर्यावर्तेत । किं तु प्रदक्षिणीकृत्याऽपेयात् ॥ २ ॥ न प्रेक्षेत नग्नां स्त्रियम् ॥ ३ ॥ यां प्रेक्षमाणस्य मनसो विकारो भवति तां नग्नां स्त्रिय नेक्षेत ॥ ३ ॥ (२)ओषधिवनस्पतीनामाच्छिद्य नोपजिघ्रेत् ॥ ४ ॥ ओषधयः फलपाकान्ताः । वनस्पतयो ये पुष्पैर्विना फलन्ति । वीरुद्- वृक्षाणामप्युपलक्षणम् । तेषां पत्रपुष्पाण्याच्छिद्य नोपजिघ्रेत् । 'आच्छिद्ये' तिवचना(३)द्यादृच्छिकाघ्राणे न दोषः ॥ ४ ॥ उपानहौ छत्रं यानमिति वर्जयेत् ॥ ५ ॥ यान शकटादि । इतिशब्द एवंप्रकाराणामुपलक्षणार्थः । तत्र गौतमः- (४)वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनानोपानच्छत्र- कामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानी- ति ॥ ५ ॥ न स्मयेत ॥ ६ ॥ स्मितं न कुर्यात् ॥ ६ ॥ यदि स्मयेताऽपिगृह्य स्मयेतेति हि ब्राह्मणम् ॥ ७ ॥ यदि हर्षातिरेकं धारयितुं न शक्यते अपिगृह्य हस्तेन मुखं पिधाय स्मयेत इति ब्राह्मणं 'न स्मयेते' त्यारभ्य ॥ ७ ॥ १. उत्थायाप्याचमन न कुर्यात् , आचार्यसमीप एवाचामेत् । इति. ख. पु. २. "अथैतत् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्य गन्ध प्रच्छिद्य नोपजिघ्रेत् तेन त पुण्यं गन्धमवरुन्धे" इति गोपथब्राह्मणम् । (गो. ब्रा १. २. २) ३. यादृच्छिके गन्धग्रहणे न दोषः इति ख० पु० ४. गौ. ध. २-१३.

ब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४१ (१)नोपजिघ्रेत् स्त्रियं मुखेन ॥ ८ ॥ स्नाता(२)मनुलिप्तां वा स्त्रियं बालामपि मुखेन नोपजिघ्रेत् । ‘मुखेने’ ति वचनाद्यादृच्छिके गन्धाघ्राणे न दोषः ॥ ८ ॥ न हृदयेन प्रार्थयेत् ॥ ९ ॥ हृदयेन मनसा स्त्रियं न प्रार्थयेत्—अपीयं मम स्यादिति ॥ ९ ॥ नाकारणादुपस्पृशेत् ॥ १० ॥ कारणेन विना स्त्रियं नोपस्पृशेत् । कारणं योक्त्रसन्नहनविमोचनविषम- पतनधारणादि ॥ १० ॥ रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ॥११॥ रजस्वलो मलिनगात्रः । रक्ता दन्ता यस्य स रक्तदन् । छान्दसो दन्ता- देशः । पङ्किलदन्त इत्यर्थः । एतदुभय ‘मुत्सन्नश्लाघ’(१-१-२७) इत्यनेन गतमपि पुनरुच्यते(३) श्रौतप्रायश्चित्तप्राप्त्यर्थम् । ‘अनृतं वोक्त्वा’(२-१-२७) ति प्रायश्चित्तं वक्ष्यति । सत्यवादी स्यादिति ब्राह्मणम् ॥ ११ ॥ यां विद्यां कुरुते गुरौ तेऽप्यस्याऽऽचार्या ये तस्यां गुरोर्वंश्याः ॥ १२ ॥ आत्मीये गुरौ यां विद्यां कुरुते अधीते तस्यां विद्यायां गुरोर्वंश्या आचार्यास्तेऽ- प्यस्य माणवकस्याचार्याः । यद्यपि साक्षात्तेभ्यो न गृह्यते विद्या तथापि आचार्यवदुपचरितव्याः । ‘तस्या’ मिति वचनाद्विद्यान्तरे ये वंश्यास्तेषु नायं विधिः ॥ १२ ॥ यानन्यान् पश्यतोऽस्योपसङ्गृह्णीयात्तदात्वे त उपसङ्ग्राह्याः ॥ १३ ॥ अस्य माणवकस्य पश्यत अस्मिन् माणवके पश्यति यानन्यनाचार्य उपसङ्- १. पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते द्वौ पृथग्वस्तयोर्मुखे हृदये उपस्थ एव पञ्चमः । स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्यज्ञिना लोकमवरुन्धे, यत्स- व्येन तेन प्रत्राजिनाम् , यन्मुखेन, तेनाग्निप्रस्कन्दिनां, यद्धृदयेन तेन शूराणां, यदुप स्थेन तेन गृहमेधिना, तैश्चेत् स्त्रियं पराहरत्यनग्निरिव शिष्यते ॥ इति गो. ब्रा. १. २ ४. २. अनुलिप्ताङ्गीं इति. ख पु. ३. श्रौतप्रायश्चित्तमतिक्रमे स्यादिति. ख. पु. आप० ध० ६