आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 107, कुल 134 में से
संदर्भ में पढ़ेंआर्यभटीये- ७१ शनि १५ कालांश, मङ्गल १७ कालांश पर दृश्य होते हैं। जो २ ग्रह जैसे २ सूक्ष्म होते हैं। वह २ ग्रह वैसे २ अधिक कालांश पर दीख पड़ते हैं। शुक्र से गुरु सूक्ष्म, पुनः बुध, तब शनैश्चर, फिर मङ्गल है ॥ ४ ॥ · भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि। अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥५॥ भूमेश्चन्द्रादीनां ग्रहाणां भानामश्विन्यादितारकाणामितरतारकाणाञ्च गो- लार्धानि सर्वतोवृत्तानां स्वशरीराणामर्धानि स्वच्छायया विवर्णानि स्वभावसि- द्धेन रूपेण विवर्णानि । अप्रकाशात्मकानि । अथवा स्वच्छायया स्वशरीरेणार्क- करव्यवधानादुत्पन्ना या छाया तमोरूपा तया विवर्णानीति। सूर्याभिमुखा- न्यन्यान्त्यर्धानि यथासारं दीप्यन्ते । अल्पशरीरा अल्परूपा दीप्यन्ते महाश- रीरा महारूपा दीप्यन्ते इत्यर्थः । चन्द्रस्य चार्धं सदा प्रकाशवद्भवति । अमावास्यायां चन्द्रस्योध्वार्धं प्रकाशवद्भवति । तस्मादस्माभिस्तदर्धमदृश्यं भवति । प्रतिपदादिषु क्रमेण सितभागोऽधो लभ्यते । पूर्णायमधोऽर्धं सर्वं सितं भवति । तस्मादस्माभिर्दृश्यमर्धं सितं भवति । बुधशुक्रावर्कादधस्स्था- वपि तयोस्सूर्यस्यच्या सूर्यबिम्बस्य महत्त्वाच्च सदा सितमेव तयोर्बिम्बं भवति । कक्ष्यासंस्थान भूस्थानञ्चाह । भा०:-पृथिवी, चन्द्रमा, एवं अन्यान्य ग्रह, अश्विनी आदि तारागण के गो लार्ड् अर्थात् आधा भाग-अपने शरीर का आधा भाग अपनी छाया से (सूर्य्य के प्रकाश के कारण) अप्रकाशात्मक होता है। और शेषार्द्ध इनके सूर्य्य के सम्मुख होने से प्रकाशित होते हैं। अल्प शरीर वाले अल्प रूप से, बड़े शरीर वाले बड़े रूप से प्रकाशित होते हैं। चन्द्रमा का आधा भाग सदा प्रकाशवान् होता है ॥ ५ ॥ वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयो भूगोलस्सर्वतोवृत्तः ॥६॥ भपञ्जरो नक्षत्रकक्ष्यां । वृत्ताकारनक्षत्रकक्ष्याया मध्ये भूर्भवति । कक्ष्यापरिवे- ष्टितः । चन्द्रादीनां ग्रहाणां कक्ष्यामध्यगत इत्यर्थः । खमध्यगतः । ब्रह्माण्डक- टाहावच्छिन्नास्याकाशस्य मध्यगतः । मृज्जलशिखिवाय्वात्मकः सर्वतोवृत्तश्च भू- गोलो भूमिर्भवति । भानामध इत्यादि सिद्धस्य भूस्थानस्य पुनर्वचनं प्राणि- चारप्रदर्शनशेषतया एवंभूतायां भुवि सर्वत्र प्राणिनस्संचरन्तीतिप्रदर्शनार्थं तत्प्रा- ण संचारं प्रदर्शयति ॥