आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 108, कुल 134 में से
संदर्भ में पढ़ें७२ गीतिकापादः ॥ भा०:-वृत्ताकार नक्षत्र कक्षा में पृथिवी है, चन्द्रमा, सूर्य्य आदि ग्रहकक्षा से परिवेष्टित आकाश के बीच जिस प्रकार दो कटाह के सम्पुट की नाईं अवस्थित है । मृतिका, जल, वायु, अग्निमय सब ओर से घिरा हुआ भूगोल अवस्थित है ॥ ६ ॥ यद्वत् कदम्बपुष्पग्रन्थिः प्रचितस्समन्ततः कुसुमैः । तद्वद्धि सर्वसत्त्वैर्जलजैस्स्थलैश्च भूगोलः ॥७॥ यथा कदम्बाख्यवृक्षस्य कुसुमग्रन्थिसमन्ततः सर्वत ऊर्ध्वभागे पार्श्वेषु कुसुमैः प्रचितः । तथा वृत्ताकारो भूगोलश्च जलजैस्सर्वसत्त्वैः स्थलजैस्सर्वसत्त्वैः सर्वतः प्रचितः । भूमौ सर्वत्र स्थावरजङ्गमा नदीतटाकादयश्च भवन्तीत्यर्थः कल्पेन संभूतं भूमेर्वृद्ध्यु पचयमाह । भा०:-यह भूगोल कदम्ब के फूल के केशर के फैलावसा सब ओर पर्वत आराम, ग्राम, नदी आदि से घिरा हुआ है ॥ ७ ॥ ब्रम्हदिवसेन भूमेरुपरिष्टाद्योजनं भवति वृद्धिः। दिनतुल्ययैव रात्र्या मृदुपचितायास्तदिह हानिः ॥८॥ ब्रह्मदिवसेन भूमेरुपरिष्टाद्योजनं वृद्धिर्भवति । समन्ताद्योजनं वृद्धिर्भवती- त्यर्थः । दिन तुल्यया रात्र्या ब्रह्मणो रात्र्या मृदोपचिताया भूमेस्तद्धानिर्भवति। योजनं हानिर्भवतीत्यर्थः । अतः कल्पादौ पञ्चाशदधिकं योजनसहस्रं भूमेर्विष्क- म्भः । अन्तरालेऽनुपातेन कल्प्यः । इत्युक्तं भवति । भूमेः प्राग्गमनं नक्षत्राणां गत्यभावञ्चेच्छन्ति केचित् तन्मिथ्याज्ञानवशादित्याह । भा०:-एक ब्राह्म दिन में सब ओर से पृथिवी की एक योजन वृद्धि होती है, एवं ब्राह्मरात्रि में पृथिवी की एक योजन हानि होती है । इसलिये कल्प की आदि में पृथिवी का १०५० योजन व्यास होता है ॥ ८ ॥ अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् । अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥९॥ यथा नौस्थो नौयानं कुर्वन् पुरुषोऽनुलोमगतिस्स्वाभिमतां पश्चिमां दिशं गच्छन्नचलं नद्या उभयपार्श्वगतमचलं वृक्षपर्वतादिवस्तु विलोमगं प्राचीं दिशं गच्छदिव पश्यति तथा भानि नक्षत्राणि लङ्कायां समपश्चिमगानि कर्तृभूतानि अचलानि भूमिगतान्यचलवस्तूनि कर्मभूतानि विलोमगानीव प्राचीं दिशं गच्छन्तीव पश्यन्ति। लङ्कादि विषुवद्देशे ह्येव नक्षत्रपञ्जरस्य समपश्चिमगत्वम् ।