भारतकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 111, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 111

आर्यभटीये १५ द्यतेत्यनेनोक्तं भवति । स एव लङ्कोदयो यवकोट्यां मध्याह्नस्स्यात् । तदा ध्याह्नकाल इत्यर्थः । पूर्वदिशि यवकोटिसंज्ञा नगरीत्यनेनोक्तं भवति । रोम- विषये स एवोदयोऽर्धरात्रस्स्यात् । पश्चिमदिशि स्थिता सा नगरीत्यनेनोक्तं प्रति । तथाच मयः (तत्रैव श्लो० ३९–४० ।) “समन्तान्मेरुमध्यात्तु तुल्यभागेषु तोयधेः । द्वीपेषु दिक्षु पूर्वादिन्गम्यो देवनिर्मिताः ॥ भूपृत्तपादे पूर्वस्यां यवकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा ॥ याम्यायां भारतवर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमकख्या प्रकीर्तिता ॥ उदक् सिद्धपुरी नाम कुरुवर्षे प्रतिष्ठिता । तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः ॥” इति ॥ रखेस्समन्ताद्भ्रमणात्प्रतिदेशं कालभेदस्य पूर्वादिदिग्विभागोऽत्र ङ्कामधिकृत्य मेरुस्थानात् कृतः ॥ मेरुलङ्कयोर्बडवामुखलङ्कयोश्चान्तरालप्रदेशं ङ्कोज्जयिन्योरन्तरालप्रदेशञ्चाह । भा०:--जिस समय लङ्का (दक्षिण दिशा में) में सूर्योदय होता, उस मय सिद्धपुरी (उत्तर दिशा में है) में सूर्यास्त, यव कोटी में मध्यान्ह (पूर्व शा में है) और रोमक नगर (पश्चिम दिशा में है) में आधीरात होती है ॥१३॥ स्थलजलमध्याल्लङ्का भूकक्ष्याया भवेच्चतुर्भागे । उज्जायिनी लङ्कायास्तच्चतुरंशे समोत्तरतः ॥१४॥ स्थलमध्यान्मेरुस्थानात् भूकक्ष्यायाश्चतुर्भागान्तरे लङ्का भवति । तथा जल मध्याद् बडवामुखस्थानाच्च भूकक्ष्यायाश्चतुर्भागान्तरे लङ्का भवति । लङ्कावत्सि- द्वयवकोटिरोमकविषयाश्च स्थलजलमध्याद्भूकक्ष्यांचतुर्भागे भवन्ति । लङ्का- स्समोत्तरदिशि चतुरंशे । भूकक्ष्याचतुर्भागस्य चतुरंशे । भूकक्ष्यायाष्षोडशांशे । जयिनी नाम नगरी भवति । उज्जायिनी लङ्कायास्समोत्तरदिशि भूकक्ष्यायाः देशांशे । इति केचिद्वदन्ति । तैरन्यान्तरञ्च प्रदर्शितम् । “लङ्कोत्तरतोज्जयन्ती भूपरिधेः पञ्चदशभागे ॥” ते ब्रह्मगुप्तः ॥ भूपृष्ठस्थितैर्ज्योतिश्चक्रस्य दृश्यमदृश्यञ्च भागमाह । भा०:--स्थल मध्य से अर्थात मेरुस्थान से भू कक्षा के चतुर्थ भाग अन्तर