आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 116, कुल 134 में से
संदर्भ में पढ़ें८० गीतिकोपादः ॥ वृत्त रचना करे । वह स्वदेशीय अक्षांश परिमित उत्तर और दक्षिण ध्रुव से दूर अवस्थित होगां और इस वृत्त का नाम 'उन्मण्डल, होगा । इसी म- ण्डल, में सूर्य जब दीख पड़ता है उस समय दिन और रात्रि का ह्रास और वृद्धि होती है ॥ १९ ॥ पूर्वापरदिग्रेखाधश्चोधर्वा दक्षिणोत्तरस्था च । एतासां संपातो द्रष्टा यस्मिन् भवेद्देशे ॥ २० ॥ पूर्वापरदिग्गता या रेखा या चाधऊर्ध्वदिग्गता दक्षिणोत्तरदिग्गता च या तासां संयोगो द्रष्टृस्थाने भवति ॥ दृङ्मण्डलं दृक्क्षेपमण्डलञ्चाह । भा०:-पूर्वापर दिग्गत रेखा जो नीचे ऊपर को गई है, दक्षिणोत्तर दि- ग्गत है, उस का संयोग स्थान द्रष्टा का स्थान होता है ॥ २० ॥ ऊर्ध्वमधस्ताद्द्रष्टुर्ज्ञेयं दृङ्मण्डलं ग्रहाभिमुखम् । दृक्क्षेपमण्डलमपि प्राग्लग्नं स्यात्त्रिराश्यूनम् ॥२१ ॥ ऊर्ध्वाधोगतं द्रष्टृमध्यमिष्टग्रहाभिमुखं दृङ्मण्डलं भवति। पूर्वोक्तमण्डलानि भूमध्यमध्यानि । इदन्तु भूपृष्ठस्थितद्रष्टृमध्यं भवति । त्रिराश्यूनं प्राग्लग्नं दृ- क्क्षेपमण्डलं भवति । इत्यर्थः । दृङ्मण्डलदृक्क्षेपमण्डलयोर्लम्बनविधावुपयोगः गोलं यन्त्रेण भ्रामयन्ति केचित् । तत्रोपायं प्रदर्शयति । भा०:-ऊपर नीचे को गया हुआ द्रष्टा का मध्य इष्टग्रहाभि मुख दृङ्मण्डल होगा । पूर्वोक्त मण्डल सब भूमध्य मध्य है। यह तो भू पृष्ठस्थित द्रष्टा मध्य हुआ । अर्थात् तीन राशि ऊन प्राग् लग्न दृक्क्षेप मण्डल होता है ॥२१॥ काष्ठमयं समवृत्तं समन्ततस्समगुरुं लघुं गोलम् । पारत्तैलजलैस्तं भ्रमयेत्स्वधिया च कालसमम् ॥२२॥ काष्ठमयं वंशादिकाष्ठे निर्मितं न समवृत्तं सर्वतोवृत्तं समन्ततस्समगुरुं स- र्वावयवेषु समं गुरुत्वं यथा भवति तथा कृतम्। लघुमगुरुम् । एवंभूतं गोलं कृत्वा पारतादिभिस्तं स्वधिया च कालसमं भ्रमयेत् । अयमर्थः । भूमिष्ठदक्षिणोत्तरस्त- म्भयोरुपरि गोलप्रोतायश्शलाकाया अग्रे स्थापयेत् । गोलदक्षिणोत्तरच्छिद्रे च तैलेन सिञ्चेत् यथा निस्सङ्गो गोलो भ्रमति । गोलस्यापरतो गोलपरिधिसंमि- तदैर्घ्यं सार्धश्छिद्रं जलपूर्णां नलकां निदध्यात् ततो गोलस्यापरस्वस्तिके कीलकं निधाय तस्मिन्सूत्रस्यैकमग्रं बध्ध्वाथो विषुवन्मण्डलपृष्ठेन प्राङ्मुखं नीत्वा