आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 99, कुल 134 में से
संदर्भ में पढ़ेंआर्यभटीये- ६३ शनिगुरुकुजेषु मन्दोच्चात् सिद्धान्मन्दान्मन्दभुजाफलार्धं मेषादावृणं तुलादौ धनञ्च भवति । पूर्वं स्फुटकर्माङ्गेयमित्यर्थः । मन्दोच्चहीनान्मध्यमात्सिद्धान्मन्द- फलार्धं मध्यम ऋणं धनं वा यथाविधि कार्यमित्युक्तं भवति ॥ शीघ्रोच्चार्ध- स्रणधनं ग्रहेषु मन्देषु। शीघ्रोच्चान्मन्दफलार्धसंस्कृतमध्यहीनादुत्पन्नशीघ्रभुजा- फलार्धमृणं धनं वा यथाविधि मन्देषु ग्रहेषु मन्दफलार्धसंस्कृतेषु शनिगुरुकुजा- नां मध्यमेषु कुर्यात् । मन्दोच्चात्स्फुटमध्याः । मन्दोच्चात् मन्दोच्चसिद्धमन्दफ- लसंस्कारादित्यर्थः । मन्दफलार्धशीघ्रफलार्थाभ्यां संस्कृतान्मध्यमान्मन्दोच्चं वि- शोध्य तस्मादुत्पन्नेन मन्दफलेन कृत्स्नेन संस्कृतः केवलमध्यः स्फुटमध्यमाख्यो भवति । एवं शनिगुरुकुजानां स्फुटमध्या भवन्ति । शीघ्रोच्चाच्च स्फुटा ज्ञेयाः । शीघ्रोच्चात्स्फुटमध्यमहीनादुत्पन्नेन शीघ्रफलेन कृत्स्नेने संस्कृतस्स्फुटमध्यस्स्फु- टग्रहो भवति । एवं शनिगुरुकुजानां स्फुटा ज्ञेयाः ॥ भा०:-शनि, गुरु, मङ्गल में 'मन्दोच्च से सिद्ध मन्द से मन्दभुजाफलार्द्ध मेषादि में ऋण और तुलादि में धन होता है'। पूर्व ही स्फुटकर्म में मध्यम से मन्दफल से आधा मध्यम ऋण या धन यथाविधि करना चाहिये । आशय यह है कि शीघ्रोच्च से अर्द्ध ऋण, धन ग्रहों में मन्द में शीघ्रोच्च से मन्द फलार्द्ध संस्कृत मध्य हीन से उत्पन्न शीघ्र भुजाफल अर्द्ध ऋण या धन यथाविधि मन्द ग्रहों में मन्दफलार्द्ध संस्कृत में शनि, गुरु, मङ्गल के मध्य करना चाहिये । म- न्दोच्च सिद्ध मन्दफल संस्कारादि । मन्दफलार्द्ध शीघ्रफलार्द्ध द्वारा संस्कृत मध्य से मन्दोच्च को घटा कर उस से उत्पन्न कृत्स्न मन्दफल द्वारा संस्कृत केवल मध्य स्फुट मध्य नामक होता है। एवं शनि, गुरु, मङ्गल, का स्फुट मध्य होता है । शीघ्रोच्च से स्फुट मध्य घटाकर, जो उत्पन्न सम्पूर्ण शीघ्रफल, उसके द्वारा संस्कृत स्फुट ग्रहं होता है ॥ २२ । २३ ॥ शीघ्रोच्चादर्धोने कर्तव्यमृणंधनंस्वमन्दोच्चे । स्फुटमध्यौ तु भृगुबुधौ सिद्धान्मन्दात्स्फुटौ भवतः ॥२४॥ भृगुबुधयोस्तु शीघ्रोच्चान्मध्यमहीनादुत्पन्नं शीघ्रफलमर्थोनं स्वमन्दोच्चे मेषादावृणं तुलादौ धनञ्च कार्यम् । शीघ्रविधिव्यत्ययेनेत्यर्थः । स्फुटमध्यौ तु भृगुबुधौ 'सिद्धान्मन्दात् । एवं सिद्धान्मन्दान्मन्दोच्चाद्यन्मन्दफलं तेन सकलेन संस्कृतौ भृगुबुधमध्यमौ स्फुटमध्याख्यौ , भवतः । शीघ्रफलार्धसंस्कृतं मन्दोच्चं म- ध्यमाद्विशोध्य तस्मादुत्पन्नमन्दफलेन सकलेन संस्कृतो मध्यस्फुटो भवति । फ-