आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 100, कुल 232 में से
संदर्भ में पढ़ें४. ] आयुर्वेदप्रकाशः । ८१ कासमर्दः ‘कसौंदी’ इति भाषा ॥ नागवल्लीदलैस्तद्वत्सूर्यक्षीरैः पुटत्रयम् । क्वाथैर्वटजटोत्थैश्च त्रिः पुटेन्मुसलीजलैः ॥ ३६ ॥ त्रिर्गोक्षुरकषायेण त्रिः पुटेद्वानरीरसैः । मोचाकन्दरसैः पाच्यं त्रिवारं कोकिलाक्षजैः ॥ ३७ ॥ रसैः पुटेत्ततो लोध्रैः क्षीरादेकं पुटं मुहुः । दध्ना घृतेन मधुना स्वच्छया सितया तथा ॥ ३८ ॥ एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् । सर्वरोगहरं व्योम जायते योगवाहकम् ॥ ३९ ॥ कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् । वृष्यमायुःकरं शुक्रवृद्धिसंतानकारकम् ॥ ४० ॥ इत्येकचत्वारिंशत्पुटि ॥ दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं नृमूत्रकम् । वटशुङ्गंमजारक्तमेभिरभ्रं सुमर्दितम् । शतधा पुटितं भस्म जायते पद्मरागवत् ॥ ४१ ॥ दुग्धत्रयमिति वटदुग्धं, स्नुहीदुग्धं, अर्कदुग्धं च; गङ्गापुत्रं भद्रमुस्ता । इति शतपुटि ॥ श्रीगोविन्दपादास्तु अन्यान्येव गगनमारकाणि भेषजानि लिखन्ति; यथा—अर्कदुग्धं १, वटदुग्धं २, सेहुण्डदुग्धं ३, घृतकुमारी ४, पञ्चाङ्गुलमूलपत्राणि ५, काकमाची ६, मुस्ता ७, वटप्ररोहः ८, बस्तशोणितं ९, विल्वमूलपत्राणि १०, अग्निमन्थः ११, टिण्डुकः १२, पाटली १३, श्रीपर्णी १४, शालिपर्णी १५, पृश्निपर्णी १६, कण्टकारी १७, कदम्बः १८, बृहती १९, गोक्षुरः २०, तिलपर्णी २१, खरमञ्जरी २२, गुडः २३, सिद्धार्थको धवलः २४, पालङ्क्या २५, मालती २६, गोमूत्रं २७, हरीतकी २८, धात्री २९, विभीतकः ३०,