आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 101, कुल 232 में से
संदर्भ में पढ़ें८२ आयुर्वेदीयग्रन्थमाला। [ अध्यायः तालीसपत्रं ३१, चित्रकमूलपत्रं ३२, जलकुम्भी ३३, ताल- मूली ३४, वृषः ३५, वाजिगन्धा ३६, अगस्त्यपत्रं ३७, भृङ्गराजः ३८, कदलीकन्दरसः ३९, सप्तपर्णः ४०, देवदारु ४१, गुडूची ४२, धत्तूरः ४३, कासमर्दकः ४४, मातुलानी ४५, लोध्रः ४६, तुलसी ४७, दूर्वा ४८, मारीषः ४९, मूष- कपर्णी ५०, दाडिमपल्लवाः ५१, घोण्टा ५२, शङ्खपुष्पी ५३, नागवल्ली ५४, पिण्डीतगरं ५५, श्वेतपुनर्नवा ५६, हिलमो- चिका ५७, मण्डूकपर्णी ५८, तिक्तिका ५९, मदनः ६०, इत्यादिभिर्मर्दनपुटैनेरैकैकेनाप्यभ्रको मारणीयः । इति अभ्र- कमारणीयगणः । आभिर्यथालाभं सहस्रपुटा देयाः । यथा- संख्यं च प्रत्येकं सप्तदशपुटाः प्रायशो भवन्ति । एवं सहस्र- संख्या पूर्यते । इति सहस्रपुटी ॥ अथारुणभस्मन आकाङ्क्षा भवति चेत्तत्प्रकारो रसपद्धत्यां— अथ नागबला भद्रमुस्ता दुग्धं वटस्य च । यद्वा वटजटातोयं हरिद्रावारिणा पुटेत् ॥ ४२ ॥ मञ्जिष्ठाक्वाथतोयेन सर्वैरेभिर्यथाक्रमम् । पुटितं भावनायोगाच्चरमे पुटने मुहुः । जायते ह्यरुणं चाति भस्म वज्राभ्रकोद्भवम् ॥ ४३ ॥ अथैवं मृतस्याभ्रकस्यामृतीकरणाख्यः संस्कार उक्तः । अरुणभस्मनस्तु पुनरमृतीकरणेन गुणवृद्धिर्वर्णहानिश्च भवति । तद्यथा— त्रिफलोत्थकषायस्य पलान्यादाय षोडश । गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश ॥ ४४ ॥ एकीकृत्य लोहपात्रे पाचयेन्मृदुवह्निना । द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥ ४५ ॥