आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 106, कुल 232 में से
संदर्भ में पढ़ें५.] आयुर्वेदप्रकाशः । ८७ मृत्युकल्पं महाव्याधिं वातपित्तकफोद्भवम् । हन्त्यष्टादशकुष्ठानि नृणां पथ्याशिनां ध्रुवम् ॥ ७८ ॥ इत्यभ्रककल्पः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः । अथ हरितालस्य नामलक्षणगुणशोधनमारणाध्यायः । हरितालं तु तालं स्यादालं तालकमित्यपि । हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् ॥ १ ॥ तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम् । स्वर्णवर्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत् ॥ २ ॥ पत्राख्यं तालकं विद्याद्गुणाढ्यं तद्रसायनम् । निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा लघु । स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम् ॥ ३ ॥ तालकगुणाः— हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम् । कण्डूकुष्ठादिरोगास्रकफपित्तकचव्रणान् ॥ ४ ॥ अथाशुद्धस्यासम्यग्मारितस्य च दोषानाह— हरति च हरितालं चारुतां देहजातां सृजति च बहुतापानङ्गसंकोचपीडाः । वितरति कफवातौ कुष्ठरोगं विदध्या- दिदमशितमशुद्धं मारितं वाऽप्यसम्यक् ॥ ५ ॥ शोधितं हरितालं तु कान्तिवीर्यविवर्धनम् । कुष्ठादिपापरोगघ्नं जरामृत्युहरं परम् ॥ ६ ॥ अशुद्धतालमायुघ्नं कफमारुतमेहकृत् । तापस्फोटाङ्गसंकोचान् कुरुतेऽतो विशोधयेत् ॥ ७ ॥